जम्बीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीरः, पुं, (जम्यते भक्ष्यते इति । जमु भक्षे + “गम्भीरादयश्च ।” इति निपातनात् ईरन् प्रत्ययेन साधुः ।) फलवृक्षविशेषः । जामीर इति लेवु इति च भाषा । तत्पर्य्यायः । दन्त- शठः २ जम्भः ३ जंम्भीरः ४ जम्भलः ५ । इत्यमरः । २ । ४ । २४ ॥ जम्भी ६ रोच- नकः ७ शोधी ८ जाड्यारिः ९ दन्तहर्षणः १० गम्भीरः ११ जम्बिरः १२ दन्तकर्षणः १३ । इति शब्दरत्नावली ॥ रेवतः १४ वक्त्रशोधी १५ दन्तहर्षकः १६ । इति जटाधरः ॥ तस्य गुणाः । “जम्बीरमुष्णं गुर्व्वम्लं वातश्लेष्मविबन्धनुत् । शूलं कासकफक्लेशच्छर्द्दितृष्णामदोषजित् ॥ आस्यवैरस्यहृत्पीडावह्निमान्द्यकृमीन् हरेत् । स्वल्पजम्बीरिका तद्वत् तृष्णाच्छर्द्दिनिवारिणी ॥” इति भावप्रकाशः ॥ तस्य फलस्य गुणाः । अम्लमधुररसत्वम् । वात- नाशित्वम् । पथ्यत्वम् । पाचनत्वम् । रोचन- त्वम् । पित्तबलाग्निवृद्धिकारित्वञ्च । इति राज- निर्घण्टः ॥ अत्यम्लत्वम् । गुरुत्वम् । सुगन्धि- लम् । दुर्ज्जरत्वम् । वह्निकफवातविबन्धनाशि- त्वञ्च । इति राजवल्लभः ॥ पक्वस्य तस्य गुणाः । मधुरत्वम् । कफार्त्तिपित्तास्रदोषनाशित्वम् । वर्णवीर्य्यरुचिपुष्टितृप्तिकारित्वञ्च । मरुवकः । अर्जकः । सितार्जकः । इति राजनिर्घण्टः ॥ (क्षुद्रपत्त्रतुलसी । यथा, वैद्यकरत्नमालायाम् । “खरपर्णस्तु जम्बीरः प्रस्थपुष्पः फणिज्झकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीर पुं।

जम्भीरः

समानार्थक:जम्बीर,दन्तशठ,जम्भ,जम्भीर,जम्भल

2।4।24।2।1

आरेवतव्याधिघातकृतमालसुवर्णकाः। स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

जम्बीर पुं।

जम्बीरः

समानार्थक:समीरण,मरुबक,प्रस्थपुष्प,फणिज्जक,जम्बीर

2।4।79।2।1

समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः। जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीर¦ m. (-रः)
1. Common lime, (Citrus acida;) the name seems to be applied to more than one species.
2. A plant, called by some a sort of basil, with small leaves; also जम्भीर, and जम्बिर। E. जम् to eat, ईरन् affix, and वुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बीरः [jambīrḥ], The citron tree. -रम् A citron; बिल्वैः कपित्थै- र्जम्बीरैर्वृतो भल्लातकादिभिः Bhāg.8.2.14.

"https://sa.wiktionary.org/w/index.php?title=जम्बीर&oldid=499683" इत्यस्माद् प्रतिप्राप्तम्