जम्बुद्वीपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुद्वीपः, पुं, (जम्बुवृक्षयुक्तो द्वीपः ।) पृथिव्याः सप्तद्बीपान्तर्गतद्बीपविशेषः । अयं द्बीपः पद्म- कोषमध्यवर्त्तिकोष इव लक्षयोजनविस्तीर्णः पद्मपत्र इव समवर्तुलः लक्षयोजनविस्ततलवण- ससुद्रेण वेष्टितः । यस्मिन् प्रत्येकनवसहस्र- योजनायामानि नव वर्षाणि तेषां वर्षाणामष्टौ सीमपर्व्वताः सन्ति । * । एषां वर्षाणां मध्य इलावृतवर्षं मध्यवर्त्ति यस्य मध्यदेशे सुमेरु- पर्व्वतः लक्षयोजनोत्सेधः । इलावृतवर्षस्यो- त्तरे नीलपर्व्वतः द्विसहस्रयोजनविस्तीर्णः अयुत- योजनोत्सेधः पूर्ब्बपश्चिभयोः क्षारसमुद्रावधि दीर्घः । * । तदुत्तरे रम्यकवर्षं तदुत्तरे श्वेत- पव्वतः द्बिसहस्रयोजनविस्तीर्णः अयुतयोज- नोत्सेधः पूर्ब्बपश्चिमयोः क्षारसमुद्रावधि दीर्घः दैर्घ्ये नीलपर्व्वतात् किञ्चिदधिकदशांशेन न्यूनः । * । ऋषभः कूटकः कोल्लः सह्यः देवगिरिः ऋष्य- मूकः श्रीशैलः महेन्द्रः वारिधारः विन्ध्यः शुक्ति- मान् ऋक्षगिरिः पारिपात्रः द्रोणः चित्रकूटः गोवर्द्धनः रैवतकः ककुभः नीलः कोकः गोमुखः इन्द्रकीलः कामगिरिरिति चान्ये च शतसह- स्रशः शैलाः । * । तेषां नितम्बप्रभवा नद्यो ह्यसंख्याताः । यथा, चन्द्रवंशा ताम्रपर्णी अव- टोदा कृतमाला वैहायसी कावेरी वेण्वा पय- स्वती शर्करावर्त्ता तुङ्गभद्रा कृष्णवेण्वा भीमरथी गोदावरी निर्व्विन्ध्या पयोष्णी तापी रेषा सुरसा नर्म्मदा चर्म्मण्वती महानदी वेदस्मृतिः ऋषि- कुल्या त्रिसामा गण्डकी वाग्मती कौशिकी मन्दाकिनी यमुना सरस्वती दृशद्बती गोमती सरयूः ओधवता सुषोमा शतद्रुः चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वा इति महा- नद्यः । अन्धः शोणश्च नदौ । * । अस्मिन् वर्षे लब्धजन्मभिः पुरुषैः शुक्ललाहितकृष्णवर्णेन स्वारन्धेन कर्म्मणा दिव्यमानुषनारकगतयो भवन्ति ॥ * ॥ जम्बुद्बीपस्य अष्टौ उपद्वीपाः सन्ति सगरात्मजैरश्वान्नेषणे इमां महीं परितो निखनद्भिरुपकल्पिताः । तद्यथा, स्वर्णप्रस्थः चन्द्रशक्तः आवर्त्तनः रमणकः मन्दहरिणः पाञ्चजन्यः सिंहलः लङ्का इति । इति श्रीभाग- वते । ५ । १६ अध्याये । तथा च मार्कण्डेये ५४ अध्याये मात्स्ये ११२ अध्याये च द्रष्टव्यम् ॥ * ॥ ल्योतिःशास्त्रमते लवणसमुद्रस्योत्तरे जम्बुद्वीपः । स तु भूम्यर्द्धभागः । तस्य दक्षिणे द्बितीयार्द्ध- भागे द्वीपषट्कस्य सप्तसमुद्रस्य च निवेशः । इति सिद्धान्तशिरोमणिः ॥

"https://sa.wiktionary.org/w/index.php?title=जम्बुद्वीपः&oldid=135418" इत्यस्माद् प्रतिप्राप्तम्