जयन्ती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्ती, स्त्री, (जयतीति । जि + “तॄभूवहीति ।” उणां ३ । १२८ । इति झच् । ततो गौरा- दित्वात् ङीष् ।) गौरी । (यथा, कलिकापुराणे । “जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमो- ऽस्तु ते ॥”) इन्द्रपुत्त्री । पताका । इति मेदिनी । ते, १०९ । वृत्तविशेषः । तत्पर्य्यायः । जया २ तर्कारी ३ नादेयी ४ वैजयन्तिका ५ । इत्यमरः । २ । ४ । ६५ ॥ बला ६ मोटा ७ हरिता ८ विजया ९ सूक्ष्म- मूला १० विक्रान्ता ११ अपराजिता १२ । (यथा, तिथितत्त्वे । “कदली दाडिमी धान्यं हरिद्रा मानकं कचु । विल्वोऽशोको जयन्ती च विज्ञेया नवपत्त्रिकाः ॥”) अस्याः गुणाः । मदगन्धयुक्तत्वम् । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । कृमिभूतनाशित्वम् । कण्ठविशोधनत्वञ्च । तत्र कृष्णा रसायनी । इति राजनिर्घण्टः ॥ एतच्छाकस्य गुणाः । गरदोषनाशित्वम् । चक्षुर्हितत्वम् । मधुरत्वम् । हिमत्वञ्च । इति राजवल्लभः ॥ (“श्वेतजयन्ती भूलं पिष्टं पीतञ्च गव्यपयसैव । श्वित्रं निहन्ति नियतं रविवारे वैद्यनाथाज्ञा ॥” इति वैद्यकचक्रपाणिसंग्रहे कुष्ठाधिकारे ॥) योगविशेषः । यथा, तिथ्यादितत्त्वे स्कान्दम् । “जयं पुण्यञ्च कुरुते जयन्तीमिति तां विदुः । रोहिणीसहिता कृष्णा मासे च श्रावणेऽष्टमी ॥ अर्द्धरात्रादधश्चोर्द्ध्वं कलयापि यदा भवेत् । जयन्ती नाम सा प्रोक्ता सर्व्वपापप्रणाशिनी ॥” (द्बादशीविशेषः । यथा, ब्रह्मवैवर्त्ते । “उन्मिलनी वञ्जुली च त्रिस्पृशा पक्षवर्द्धिनी । जया च विजया चैव जयन्ती पापनाशिनी । द्वादश्यष्टौ महापुण्याः सर्व्वपापहरा द्बिज ! ॥” वटिकौषधविशेषः । तद्यथा, -- “विषं पाठाश्वमन्धा च वचातालीशपत्रकम् । मरिचं पिप्पलीनिम्बमजामूत्रेण तुल्यकम् । वटिका पूर्ब्बवत्कार्य्या जयन्तीयोगवाहिका ॥” इति जयन्ती वटी । इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्ती स्त्री।

अम्ब्वरणिः

समानार्थक:जया,जयन्ती,तर्कारी,नादेयी,वैजयन्तिका

2।4।65।2।2

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः। जया जयन्ती तर्कारी नादेयी वैजयन्तिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्ती¦ स्त्री जि--झ गौरा॰ ङीष्।

१ दुर्गाशक्तिभेदे
“जयन्ती मङ्गला काली भद्रकाली कपालिनी। दर्गाशिवा क्षमा धात्री स्वहा स्वधा नमोऽस्तुते” कालिपु॰।

२ जयन्तभगिन्यां शक्रपुत्र्यां

३ पताकायां च मेदि॰।

४ स्वनामख्याते वृक्षभेदे सा च नवपत्रिकान्तर्गता
“कदलीदाडिमी धान्यं हरिद्रा मानकं कचुः। विल्वोऽशोकोजयन्ती च विज्ञेया नव पत्रिकाः” दुर्गार्च्चापद्धत्युक्तेः। तद-धिष्ठात्री देवता च कार्त्तिकी मूलं तत्रैव दृश्यम्।
“जयन्ती मदगन्धाढ्या तिक्ता चैव कटूष्णिका। कृमि-मूत्रामजित् ख्याता कण्ठशोषणकृन्मता। कृष्णा रसा-यनी तत्र सैव सर्वत्र पूज्यते” राजनि॰।
“तच्छाकं विष-दोषघ्नं चक्षुष्यं मधुरं हिमम्” राजव॰
“जयं पुण्यञ्चकुरुते जयन्तीमिति तां विदुः। रोहिणीसहिताकृष्णा मासे च श्रावणेऽष्टमी। अर्द्धरात्रादधश्चोर्द्ध्वं कल-यापि यदा भवेत्। जयन्ती नाम सा प्रोक्ता सर्वपाप-प्रणाशिनी” ति॰ त॰ स्कान्दोक्ते

५ श्रावणकृष्णाष्टमीरोहिणीयोगे कृष्णाष्टमीशब्दे

२२

२१ पृ॰ विवृतिः।
“अभि-जिन्नाम नक्षत्रं जयन्ती नाम शर्वरी। मुहूर्त्तोविजयोनाम यत्र जातो जनार्द्दनः” हरिवं॰

६० अ॰
“यत्रस्वोच्चगतश्चन्द्रो लग्नादेकादशे स्थितः। जयन्तो नामयोगोऽयं शत्रुपक्षविनाशकृत्” ज्योतिषोक्ते

६ यात्रायोग-विशेषे पु॰।
“प्रभावनीके तनवै जयन्तीः” माघः। स्वार्थे क। जयन्तिका तत्रार्थे संज्ञायां कन्। हरिद्रायां राजनि॰। दुर्गासखीभेदे च। तद्भेदाश्च काशी॰

४७ अ॰ दर्शिता यथा।
“यथा जया च विजया यथा चैव जयन्तिका। शुभा-नन्दा सुनन्दा च कौमुदी च यथोर्मिला। यथाचम्पकमाला च यथा मलयवासिनी। कर्पूरलतिकायद्वदसृग्धारा यथा शुभा। अशोका च विशोका चयथा कमलगन्धिनी। यथा च मन्दनिःश्वासा यथामृगमदोत्तमा। यथा च कोकिलालापा यथा मयूर-[Page3055-b+ 38] भाषिणी। गन्धपद्मनिधिर्यद्वदनुक्तज्ञा यथा च सा। दृगञ्चलेङ्गितज्ञा च यथा कृतमनोरथा। पानचित्तहरायद्वत्तथा स्त्वेषा सुलक्षणा”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्ती f. a flag L.

जयन्ती f. of तSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Bestowed by Indra in marriage to ऋषभ. Mother of a hundred sons among whom was Bharata. भा. V. 4. 8-9.
(II)--the night on which कृष्ण was born. Br. III. ७१. २०५; वा. ९६. २०१.
(III)--daughter of Indra, sent by her father for the service of शुक्र during his धूम्रव्रत for १००० years; rendered him services; pleased with her शुक्र lived with her for ten years, as her husband; फलकम्:F1:  Br. III. ७२. १५०, १५६; ७३. 3; वा. ९७. १४९; ९८. 3.फलकम्:/F the result of this was the birth of देवयानी. फलकम्:F2:  M. ४७. ११४-88; Br. III. 1. ८६.फलकम्:/F
(V)--the wife of वृषभराग and daughter of काशी. M. ४५. २६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jayantī  : f.: Name of a river.

Somatīrtha is situated on it 3. 81. 16.


_______________________________
*2nd word in left half of page p356_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jayantī  : f.: Name of a river.

Somatīrtha is situated on it 3. 81. 16.


_______________________________
*2nd word in left half of page p356_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जयन्ती&oldid=445275" इत्यस्माद् प्रतिप्राप्तम्