जयमङ्गल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयमङ्गलः, पुं, (जय एव मङ्गलं यस्य । जयेन मङ्गलं यस्मादिति वा ।) राजवाह्यहस्ती । इति शब्दरत्नावली ॥ धुवकविशेषः । यथा, -- “चतुर्व्विंशतिवर्णाङ्घ्रिः कथितो जयमङ्गलः । शृङ्गारवीरयोरेव ताले चाचपुटे च सः ॥” इति सङ्गीतदामोदरः ॥ * ज्वरघ्न औषधविशेषः । यथा, -- “हिङ्गूलसम्भवं सूतं गन्धकं टङ्कणं तथा । ताम्रं वङ्गं माक्षिकञ्च सैन्धवं मरिचं तथा ॥ समं सर्व्वं समाहृत्य द्बिगुणं स्वर्णभस्मकम् । तदर्द्धं कान्तलौहञ्च रूप्यभस्मापि तत् समम् ॥ ततसमं पारदसमम् । एतत् सर्व्वं विचूर्ण्याथ भावयेत् कनकद्रवैः । शेफालीदलजैश्चापि दशमूलरसेन च ॥ किराततिक्तकक्वाथैस्त्रिवारं भावयेत् सुधीः । भावयित्वा तु तत् कार्य्या गुञ्जाद्वयमिता वटी ॥ व्यनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् । जीर्णज्वरं महाघोरं चिरकालसमुद्भवम् ॥ ज्वरमष्टवियं हन्ति साध्यासाध्यमथापि वा । पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान् ॥ मेदोगतं मांसगतमस्थिमज्जगतं तथा । अन्तर्गतं महाघोरं वहिस्थञ्च विशेषतः ॥ नानादेशोद्भवञ्चैव ज्वरं शुक्रगतं तथा । निखिलं ज्वरनामानं हन्ति श्रीशिवशासनात् ॥ जयमङ्गलनामायं रसः श्रीशिवनिर्म्मितः । बलपुष्टिकरश्चैव सर्व्वरोगनिवर्हणः ॥” इति श्रीजयमङ्गलो रसः । इति भैषज्यरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयमङ्गल¦ पु॰ जयेन मङ्गलमस्मात्।

१ राजबाह्ये हस्तिभेदेशब्दरत्ना॰
“चतुर्विंशतिवर्ण्णाङ्घ्रिः कथितो जयमङ्गलः। शृङ्गारवीरयीरेव ताले चां चपुटे च सः” सङ्गीतदा॰उक्ते

२ ध्रुवकभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयमङ्गल¦ m. (-लः) The royal elephant. E. जय victory, and मङ्गल good fortune.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयमङ्गल/ जय--मङ्गल m. a royal elephant L.

जयमङ्गल/ जय--मङ्गल m. a remedy for fever

जयमङ्गल/ जय--मङ्गल m. (in music) a kind of measure

जयमङ्गल/ जय--मङ्गल m. N. of a ध्रुवक

जयमङ्गल/ जय--मङ्गल m. of an elephant Katha1s. li , 194

जयमङ्गल/ जय--मङ्गल m. of a scholiast on Bhat2t2. (577439 लाf. N. of his Comm. )

जयमङ्गल/ जय--मङ्गल m. = -शब्दRa1jat. iv , 158.

"https://sa.wiktionary.org/w/index.php?title=जयमङ्गल&oldid=379672" इत्यस्माद् प्रतिप्राप्तम्