जल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल, क पिधाने । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) पिधानमाच्छादनम् । क, जालयति चन्द्रं मेघः । इति दुर्गादासः ॥

जल, ज धान्ये । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् । अकं इति केचित् ।) ज, जालः जलः । धीयते अनेनेति धानं तस्य भावः धान्यं जीवनोपयोगिक्रिया । जलति लोकान् जलम् । जीवयतीत्यर्थः । धीयते आच्छाद्यते अनेनेति धानं तस्य भावः धान्यं आच्छादनक्रिया । जलति जालेन मत्स्यान् जालिक इति वा । गोविन्दभट्टस्तु धनस्य भावः धान्यं समृद्धिः । जलति धनी समृद्धः स्यादित्यर्थ इत्याह । इति दुर्गादासः ॥

जलम्, क्ली, गोकलनम् । ह्रीवेरम् । इति मेदिनी । ले, १८ ॥ (यथा, भावप्रकाशे अरोचकाधि- कारे । “जलं सकृष्णागुरुभृङ्गकेसरम् ।” इति ॥ * ॥ जलति जीवयति लोकात् जलति आच्छादयति स्वच्छं कनकमुक्ताद्यैः शुद्धं स्याद्दोषवर्ज्जितम् ॥ पर्णमूलविसग्रन्थिमुक्ताकनकशैबलैः । गोमेदेन च वस्त्रेण कुर्य्यादम्बुप्रसादनम् ॥” अथ पीतस्य जलस्य पाकावधिः । “आमं जलं जीर्य्यति याममात्रं तदर्द्धमात्रं शृतशीतलञ्च । तदर्द्धमात्रं तु शृतं कदुष्णं पयःप्रपाकेऽवधिरेष उक्तः ॥” इति भावप्रकाशे वारिवर्गः ॥ अथ जले भगवत्पूजाविधिः । “उत्तापेऽर्कांशुतो जाते शीतलेन सुगन्धिना । जलेन पूरिते पात्रे श्रीकृष्णमुपवेशयेत् ॥ नित्यार्च्चाविधिनाभ्यर्च्च्य सायं सन्ध्यामुपास्य च । देवं सिंहासने नीत्वा गन्धादिभिरथार्च्चयेत् ॥ नीराज्य देवं सर्व्वेभ्यो दत्त्वा तीर्थं भजेत् स्वयम् । द्वादश्यान्तु विशेषेण रात्रौ तोयस्थमर्च्चयेत् ॥” तन्माहात्म्यं यथा, गारुडे । “स्वर्णपात्रेऽथवा रौप्ये ताम्रेवा मृण्मयेऽपि वा । तोयस्थं योऽर्च्चयेद्भक्त्या शालग्रामसमुद्भवम् ॥ चक्राङ्कितं वा भूपाल ! निवृत्ते मधुमाधवे । प्रतिमां स महाभागस्तस्य पुण्यमनन्तकम् ॥ यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ । तावत्तस्य कुले कश्चिन्न भवेद्भूप ! नारकी ॥ तस्माज्ज्यैष्ठे सदा भूप ! तोयस्थं पूजयेद्धरिम् । वीततापो नरस्तिष्ठेद्यावदाहूतसंप्लवम् ॥ कृतैः सुशीतलैस्तोयैस्तुलसीदलवासितैः । शुचिशुक्रगते काले येऽर्च्चयिष्यन्ति केशवम् ॥ जलस्थं विविधैः पुष्पैर्म्मुच्यते यमयातनात् ॥ जलस्रष्टा यतो विष्णुर्ज्जलशायी जलप्रियः । तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥ नीरमध्यस्थितं कृत्वा शालग्रामसमुद्भवम् । योऽभ्यर्च्चयेन्महाभक्त्या स भवेत् कुलपावनः ॥ कर्किराशिगते सूर्य्ये मिथुनस्थे विशेषतः । येनार्च्चितो हरिर्भक्त्या जलमध्ये महीपते ! ॥ द्वादश्यान्तु विशेषेण जलस्थं जलशायिनम् । योऽभ्यर्च्चयेत् कृत तेन यज्ञकोटिशतं भुवि ॥ पात्रे गन्धादिकं कृत्वा यः क्षिपेद्गरुडध्वजम् । द्बादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेन्नरः ॥” किञ्च । “घनागमे प्रकुर्व्वन्ति जलस्थं वै जनार्द्दनम् । ये नरा नृपतिश्रेष्ठ ! तेषां वै नरकं ध्रुवम् ॥” “तथैवात्युष्णसमये कालिन्द्यादौ विशेषतः । सम्पादयेद्भगवतो जलक्रीडामहोत्सवम् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥

जलः, त्रि, (जलति आच्छादयति विनाशयति वा ज्ञानं बुद्धिप्रतिमां वेति । जल + अच् ।) जडः । इति मेदिनी । ले, १८ ॥ (यथा, काशीखण्डे । २९ । ६६ । “जाड्यविध्वंसनकरी जगद्योनिर्ज्जलाविला ॥” “जलानां जडानामज्ञानानामित्यर्थः । आविलेव कलुषितेव आवृतेवेति वा ।” इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।6

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल¦ आच्छादादने चुरा॰ उभ॰ सक॰ सेट्। जालयति तेअजीजलत् त।

जल¦ तीक्ष्णीभवने जीवनोपयोगिक्रियायां च अक॰ भ्वा॰ पर॰ सेट्। जलति अजालीत् जजाल जेलतुः। ज्वलादि जलः जालः।

जल¦ त्रि॰ जल--अच् डस्य लोवा।

१ जडे।

२ उदके,

३ ह्रीवेरे गन्धद्रव्ये, ज्योतिषोक्ते लग्नावधिके

४ चतुर्थस्थाने,

५ पूर्वाषाडानक्षत्रे च न॰ शब्दार्थचि॰। जलञ्च पञ्चभूतान्त-र्गतभूतभेदः तद्भेदगुणादिकं सुश्रुतोक्तं अम्बुशब्दे

३२

९३

० पृष्ठे दर्शितम् घनशब्दे

२७

८६ पृष्ठे च तस्य विवृतिः।
“अपां शैत्यं तथा क्लेदो द्रवत्वं स्नेहसौम्यता। जिह्वा-भिष्यन्दनञ्चापि भौमानां श्रपणं तथा। चतुर्थमापोविज्ञेयं जिह्वाध्यात्मं प्रचक्षते। अधिभूतं रसास्तत्र सोम-स्तत्राधिदैवतम्” भा॰ आश्व॰ अ॰।
“तदङ्गनिष्यन्दजलेनलोचने”
“जलाभिलाषी जलमाददानाम्” रघुः।
“नतज्जलं यन्न सुचारुपङ्कजम्” भट्टिः
“तृषिताय रोनिणेऽपि जलं देयं तथा च
“पानीयंप्राणिनां प्राणास्तदायत्तं हि जीवनम्। तस्मात् सर्वा-स्ववस्थासु न क्वचित् वारि वार्यते। अन्नेनापि विना जन्तुःप्राणान् धारयते चिरम्। तोयाभावे पिपासार्त्तःक्षणात् प्राणैर्विमुच्यते। तृषितो मोहमायाति मोह्यत्[Page3062-b+ 38] प्राणान् विमुञ्चति। तस्माज्जलमवश्यं हि दातव्यंभेषजैः सममिति” राजवल्लभः।
“पादेन घटमुत्थाप्यभाजने पूरयेज्जलम्। तज्जलं मदिरातुल्यं भाण्डस्थंसुरया समम्” इति कर्मलोचनः तस्य दानमाहात्म्यंयथा।
“अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत। प्राणदानाद्धि परमं न दानमिह विद्यते। अन्नं चापिप्रभवति पानीयात् कुरुसत्तम!। नीरजातेन हि विनान किञ्चित् संप्रवर्त्तते। अन्नौषध्यो महाराज! वीरु-धश्च जलेद्भवाः। यतः प्राणभृतां प्राणाः सम्भवन्तिविशाम्पते!। तस्मात् पानीयदानाद्वै न परं विद्यतेक्वचित्। तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः। धन्यं यशस्यमायुष्यं जलदानमिहोच्यते। शत्रूंश्चाप्य-वि कौत्तेय! सदा तिष्ठति तोयदः। सर्वकामानवाप्नोतिकीर्त्तिञ्चैवेह शाश्वतीम्। प्रेत्य चानन्त्यमश्नाति पापे-भ्यश्च प्रमुच्यते। तोयदो मनुजव्याघ्र! स्वर्गं गत्वामहाद्युते!। अक्षयान् समवाप्नोति लोकानित्यब्रवीन्मनुः” भा॰ शा॰ दा॰ अ॰ हेमाद्रौ दा॰ खण्डे विशेषोदृश्यः
“पानीयं प्राणिनः प्राणाः पार्नायं पावन महत्। पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती” जलदानमन्त्रःजलवर्षणज्ञानाय वर्षाद्यधिपराजाद्यानयनं तत्फलञ्चकृशिसंग्रहे दर्शितं यथा(
“वृष्टिमूला कृषिः सर्व्वा वृष्टिमूलञ्च जीवनम्। तस्मादादौ प्रयत्नेन वृष्टिज्ञानं समाचरेत्। ततो वर्षस्यराजानं मन्त्रिणं मेघमेव च। आढकं सलिलञ्चापिवृष्टिज्ञानाय शोधयेत्। शाकं त्रिगुणितं कृत्वा द्वियुतंमुनिना (

७ ) हरेत्। भागशिष्टो नृपोज्ञेयो नृपान्मलीचतुर्थकः। ” अथ नृपादिफलम्।
“चित्तलाऽर्के नापेवृष्टिर्वृष्टिरुग्रा निशापतौ। वृष्टिर्मन्दा सदा भौमे चन्द्रजेवृष्टिरुत्तमा। गुरौ च शोभना वृष्टिर्भार्गवे वृष्टिरुत्तमा। पृथिवी धूलिसम्पूर्णा वृष्टिहीना शनौ नृपे। यस्मित्संवत्सरे चैव अर्को राजा भविष्यति। शस्यहानिर्भवेत्तत्रनित्यं रोगश्च जायते। यस्मिन्नव्दे विधूराजा शस्यपूणाच मेदिनी। नैरुज्यञ्च सुवृष्टिश्च सुभिक्षं क्षितिमण्ड{??}। यस्मिन्नव्दे कुजो राजा सस्यशून्या च मेदिनी। नैरुज्यविनिवृत्तिश्च दुर्भिक्षं क्षतिमण्डले। यत्राव्दे चन्द्रजोराजा सर्वशस्या च भूर्भवेत्। धर्म्मे स्थितिर्मनःस्थैर्प्यंवृष्टिकारणमुत्तमम्। यत्राव्दे च गुरूराजा सर्व्वा रम-वती मही। नृपाणां वर्द्धनं नित्यं धनधान्यादिकं[Page3063-a+ 38] फलम्। राजा दैत्यगुरुः कुर्य्यात् सर्वशस्यं धरातलम्। संग्रामो वातवृष्टिश्च रोगोपद्रव एव च। मन्दा वृष्टिःसदा वातो राजा संवत्सरे शनिः। शाकस्य कालंत्रिगुणीकृतञ्च द्विवाणवस्वब्धिसमन्वितञ्च। राजा चमन्त्री च जलाधिपश्च शस्याधिपः स्यान्मुनिभाजितेन। (शाकस्य कालं त्रिगुणीकृतञ्च पक्षण युक्तं मुनिनाहरेच्च। सूर्य्यादि वर्षाधिपतिश्च शेषो मन्त्री चतुर्थो भवतिप्रसिद्धः। ) पाठान्तरम्। यथा वृष्टिफलं प्रोक्तं वत्-सरे ग्रहभूपतौ। तथा वृष्टिफलं ज्ञेयं विज्ञैर्वत्सर-मन्त्रिणि। ” अथ मेघानयनम्।
“शाकं वह्निसमायुक्तंवेदेन भागमाहरेत्। शेषं मेघं विजानीयादावर्त्तादियथाक्रमम्। आवर्त्तश्चैव संवर्त्तः पुष्करो द्रोण एवच। चत्वारो जलदाः प्रोक्ता आवर्त्ताद्या मनीषिभिः। एकदेशेन चावर्त्ते संवर्त्ते सर्वतो जलम्। पुष्करे दुष्करंबारि द्रोणे बहुजला मही। ” अथ जलाढक-निर्णयः।
“शतयोजनविस्तीर्णं त्रिंशद्योजनमुच्छ्रि-तम्। आढकस्य भवेन्मानं मुनिभिः परिकीर्त्तितम्। युग्माऽजगोमीनगते शशाङ्के रविर्यदा कर्कटकं प्रयाति। शताढकं कं हरिकार्म्मुकेऽर्द्धं वदन्ति कन्यामृगयोरशी-तिम्। कुलीरकुम्भालितुलाभिधाने जलाढकं षण्णवतिंवदन्ति। अनेन मानेन तु वत्सरस्य निरूप्य नीरं कृषि-कर्म्म कार्य्यम्”। एतत्सर्वं विंशत्या हरणीयम्। समुद्रे दश भागांश्च षड्भागानपि पर्बते। पृथिव्यांचतुरोभागान् सदा वर्षति वासवः। ” अथ पौषादि-मासीयवृष्टिलक्षणम्।
“सार्द्धं दिनद्वयं मानं कृत्वापौषादिना बुधः। गणयेन्मासिकीं वृष्टि{??}वृष्टिं वानिल-क्रमात्। सौम्यवारुणयोर्वृष्टिरवृष्टिः पूर्व्वयाम्ययोः। निर्व्वाते वृष्टिहानिः स्यात् सङ्कुले सङ्कुलं जलम्। एकैकंपञ्चदण्डेन मासस्य दिवसो मतः। पूर्वार्द्धे वासरी वृष्टि-रुत्तरार्द्धे च नैशिकी। दत्त्वा दण्डे पताकान्तु वात-स्यानुक्रमेण च। विज्ञेया मासिकी वृष्टिर्दृष्ट्वा वातंदिवानिशम्। धूलीभिरेव शवलीकृतमन्तरीक्षं विद्यु-च्छटाच्छुरितवारुणदिग्विभागम्। पौषे यदा भवतिमासि सिते च पक्षे तोयेन तत्र सकला प्लवते धरित्री। पौषे मासि यदा वृष्टिः कुज्झटिर्व्वा यदा भवेत्। तदादौसप्तमे मासि तां तिथिं प्लाव्यते मही। अथ माघादिफलम्। ( माघस्य सितसप्तम्यां वृष्टिर्व्वा मेघदर्शनम्। तदा संवत्सरोधन्यः सर्वशस्यफलप्रदः। सप्तम्यां स्वातियोगे यदि पतति[Page3063-b+ 38] जलं माथ क्षऽन्धकारे वायुर्व्वा चण्डवेगः सजलजलधरौगर्ज्जितो वासरे वा। विद्युन्मालाकुलं वा यदि भवतिनभो नष्टचन्द्रार्कतारं तावद्वर्षन्ति मो{??} प्लतधरणितलेयावदाकार्त्तिकान्तम्। माघे बहुलसपम्यां तथैव फाल्गु-नस्य च। चैत्र शुक्लवृतीयायां वैशाखे प्रथमेऽहनि। एतासु चण्डवातो वा तडिद्वृष्टिरथापि वा। तदा स्यात्शोभना प्रावृट् भवेत् शस्यवती क्षितिः। धनुर्मकरकुम्भेषुयदा वर्षति वासवः। तदादि सप्तमे मासि वारिपूर्णाभवेन्मही। ”( अथ चैत्रलक्षणम्। प्रतिपदि मधुमासे भानुवारःसितायां यदि भवति तदा स्याच्चित्तला वृष्टरवदे। अविरलपृथुधारासान्द्रवृष्टिप्रवाहैर्धरणितलमशेषं प्लाव्यतेसोमवारे। अवनितनयवारे नास्ति वृष्टिर्न शस्यं कवि-गुरुभृगुजानां वासरे शस्यपूर्त्तिः। जलनिधिरपि शोषंयाति वारेण शौरेर्भवति खलु धरित्री धूलिजालैरदृश्या। चैत्राद्यभागे चित्रायां भवेच्चेच्चित्तला क्षितिः। शेषे-ऽपि चैव चात्यर्थं क्ष्मा मध्ये बहुवर्षिणी( अथ वैशाखलक्षणम्। प्रवाहयुक्तनद्यान्तु दण्डंन्यस्य जले निशि। वैशाखशुक्लप्रतिप{??}थौ वृष्टिं निरू-पयत्। ओं सिद्धिरिति मन्त्रेण मन्त्रयित्वा शतद्वयम्। अङ्कयित्वा तु तं दण्डमङ्कतुल्ये जले क्षिपेत्। प्रातरु-त्थाय सहसा तदङ्कन्तु निरूपयेत्। समं चैवाधिक न्यूनंभविष्यज्जलकाङक्षया। गतवत्सरवद्वारि वन्या चैव समेभवेत्। हीने हीनं भवेद्वारि भवेद्वन्या च तादृशीअङ्काधिक्ये च द्विगुणा वृष्टिर्वन्या च जायते। इदंपराशरेणोक्तं भविष्यद्वृष्टिलक्षणम्। सूर्य्योदये विषुवतोजगतां विपत्तिर्मध्यं गते दिनकरे बहुशस्यहानिः। अस्तंगते दिनकरे तु तदर्द्धशस्यमैश्वर्य्यभोगमतुलं खल चार्द्ध-रात्रौ। तदा संवत्सरो धन्यो बहुशस्यफलप्रदः। ( अथ ज्यैष्ठलक्षणम्। ज्येष्ठादौ च सिते पक्षे आर्द्रादौदशऋक्षके। सजला निर्जला यान्ति निर्जलाः सजलाइव। रेखात्रयं समुल्लिख्य ताभिस्ताश्च विवर्द्धयेत्। त्रिशृङ्गं सर्वकोणेषु पर्वतं तत्र दापयेत्। ईशानातिदक्षिणाङ्कान् संलिखेदनलादितः। येन येनाजसंक्रान्तिस्तेन प्रावृट्फलं भवेत्। अतिवृष्टिः समुद्रे स्यादना-वृष्टिस्तु पर्वते। कक्षयोश्चित्तला वृष्टिः सुवृष्टिः शैल-सन्धिषु। (मतान्तरे। रेखातूर्य्यकमुल्लिख्य ताडितम् वेदसम्भवैः ईशानदक्षिणे शृङ्गं लिखेदनलभादितः। येन[Page3064-a+ 38] येनाजसंक्रान्तिस्तेन प्रावृट्फलं वदेत्। अश्विन्यादौ समु-द्रेषु नक्षत्रञ्च द्वयं द्वयम्। कक्षपर्वततीरेषु एकैकं परि-कीर्त्तितम्। ” )
“चित्रास्वातिविशाखासु ज्यैष्ठे मासिनिरभ्रता। तास्वेव श्रावणे मा स यदि वर्षति, वर्षति। ” अथ आषाढलक्षणम्।
“आषाणां पौर्णमास्यां सुरपति-ककुभं वाति वातः, सुवृष्टिः, शस्यध्वंसं प्रकुर्य्याद्दहनदिशिगते, मन्दवृष्टिर्यमेन। नैरृत्यां शस्यहानि, र्बरुण-दिशि जलं, वायुना वायुकोपः, कौवेर्य्यां शस्यपूर्णांप्रथयति नियतं मेदिनीं, शस्यमीशे। आषाढस्य सितेपक्षे नवम्यां यदि वर्षति। वर्षत्येव तदा देवस्तत्रावृष्टौकुतो जलम्। शुक्लाषाढीनवम्यामुदयगिरितटीनिर्मलत्वंप्रयाते स्वीयं कालं विधत्ते खरतरकिरणो मण्डलाकारमुख्यम्। जीमूतैर्वेष्टितोऽसौ यदि भवति रविर्गम्य-मानेऽस्तशैले तावत् पर्य्यन्तमेव प्रणदति जलदो यावदस्तंतुलायाः। ”( अथ श्रावणलक्षणम्।
“रोहिण्यां श्रावणे मासियदि वर्षति वासवः। तदा वृष्टिर्भवेत्तावद्यावन्नो-त्तिष्ठते हरिः। कर्कटे रोहिणीऋक्षे यदि वृष्टिर्नजायते। तदा पराशरः प्राह हाहा लोकस्य कागतिः। श्रावणे मासि रोहिण्यां न भवेद्वर्षणं यदि। विफलारम्भसंक्लेशास्तदा स्युः कृषिवृत्तयः। ”( अथ भाद्रलक्षणम्। सिंहे च भौमवारे च पर्वफल्गुनिऋक्षके। व्यतीपाते च नन्दायां तुलायां वर्षयेद्रविः। ” अथ सद्यावृष्टिज्ञानम्। जलहस्ती जलस्थो वा विकटेऽथ जलस्य वा। दृष्ट्वा पृच्छति वृष्ट्यर्थं वृष्टिः संजायतेऽचिरात्। अकस्मादन्नमादाय उचिष्ठति पिपालिका। भेकः शब्दायतेऽकस्मात्तदा वृष्टिर्भवेद्ध्रुवम्। विडालानकुलाः सर्पा ये चान्ये वा विलेशयाः। धावन्ति शरभामताः सद्यो वृष्टिर्भवेद्ध्रुवम्। कुर्वन्ति बालका मार्गेधूलीभिः सेतुबन्धनम्। मयूराश्चैव नृत्यन्ति सद्यो वृष्टिःप्रजायते। अवातवातदुष्टानां नृणामङ्गव्यथा यदि। वृक्षाद्यारोहणञ्चाहेः सद्यो वर्षणलक्षणम्। पक्षयोः शोषणंरौद्रे खगानामम्बुचारिणाम्। झिल्लीरवस्तथाकाशेसद्यो वृष्टिः प्रजायते। ”( अथ ग्रहसञ्चारे वृष्टिलक्षणम्।
“चलत्यङ्गारकेवृष्टिर्ध्रुवा वृष्टिः शनैश्चरे। वारिपूर्णां महीं कृत्वापश्चात् सञ्चरते गुरुः। ग्रहाणामुदये चास्ते तथा वक्रा-तिचारयोः। प्रायो वर्षन्ति जलदा नृपाणामुद्यमेऽपि[Page3064-b+ 38] च। चित्रामध्यगते जीवे भिन्नभाण्डमिव खवेत्। ततः स्वातीं समासाद्य महामेघ न विमुक्तति। प्रायेणो-पचितान्मेघान् स्वातिरेकाऽप्यपोहति। श्रवणे जनितंवर्षं रेवत्याञ्च विमुञ्चति। ” अथ अनावृष्टिलक्षणम्।
“ध्रुवे च वैष्णवे हस्ते मूले शक्रेचरन् कुजः। सद्यः करोत्यनावृष्टिं कृत्तिकासु मघासु च। कजपृष्ठगतो भानुर्भानुपृष्ठगतः कुजः। सूर्य्येण च युतोभौमः समुद्रमंप शोषयेत्। सद्यो निकृन्तयेद्वृष्टिं चित्रा-मध्यगतो भृगुः। अङ्गारको यदा सिंहे तद ङ्गारमयीमही। स एव रविणा युक्तः समुद्रमपि शोषयेत्। ” ज्यो॰ त॰ कश्चिद्विशेष उक्तो यथा(
“भुजबलभीमे
“व्रजति यदि कजः पतङ्गमार्गे घट इवभिन्नतलो जलं ददाति। अथ भवति दिवाकराग्रतश्चेत्प्रलयघनानपि शोषयत्यवश्यम्। यावन्मात्तण्डसूनुश्चरतिधनुरथो मन्मथं मीनकन्ये तावद्दुर्भिक्ष{??}डा भवति चमरणं क्षुत्पिपासादिघोरम्। उर्व्वी निस्तूर्य्यशब्दा शव-शिरपटलैर्नर्त्तयन्ते पिशाचाः ग्रामाः शून्या भवेयर्नर-पतिरहिता ह्यस्ति कङ्कालमाला। वक्रं करोति रविजोधरणीसुतो वा मूलर्क्षहस्तमधरेवतिमैत्रभषु। छत्रोप-भङ्गपतनादि च सैनिकानां सर्वत्र लोकमरणं जलधौत-देशः। यदा च सौरिः सुरराजमन्त्रिणा समेत्य तिष्ठेत्कचिदृक्षमण्डले। तदाङ्गवङ्गान्धककोशलेषु त्रिभागशेषांकुरुते वसुन्धराम्। तिष्ठेतां यावदेकर्क्षे वाक्पत्यवनिजौ। पदे तावत् क्षुद्रोगसंग्रामात् प्रजानां क्षयमादिशेत्”।
“आरभ्यशुक्लपतिपत्तिथिं मार्गात्तु चैत्रकं गर्भनीहारैजलदैरितिप्रावृट्परीक्षणम्। यन्नक्षत्रं गतवति विधौ जायते तत्रगर्भः पश्चादस्मान्नवतिशतके

१९ चाह्नि तस्य प्रसूतिः”। गर्भशब्दे च

२५

५१ अम्बुगर्भोवृहत्संहितोक्तो दर्शितः। वर्षणसूचकनिमित्तानि वृ॰ सं॰

२४ अ॰ उक्तानि यथा
“ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन। शुभ-मशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः। हस्त-विशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः। पञ्चाशत्पल-माढकमनेन मिनुयाज्जलं पतितम्। येन धरित्रीमुद्राजनिता वा विन्दवस्तृणाग्रेषु। वृष्टेन तेन वाच्यंपरिमाणं वारिणः प्रथमम्। केचिद्यथाभिवृष्टं दश-योजनमण्डलं वदन्त्यन्ये। गर्गवशिष्ठपराशरमतमेतद्द्वाद-शान्न परम्। येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षतिप्रायः। यदि नाप्या(

२० )दिषु वृष्टं सर्वेषु तदा त्वनातुष्टिः। [Page3065-a+ 38] हस्ताप्य

२० सौम्य

५ चित्रापौष्ण॰

७ धनिष्ठासु षोडश द्रोणाः। शतभिषगैन्द्र

१८ स्वातिषु चत्वारः कृत्तिकासु दश। श्रवणेप्रधानुराधाभरणीमूलेषु दश चतुर्युक्ताः। फल्गुन्यां पञ्चकतिः

२५ पुनर्वसौ विंशतिर्द्रोणाः। ऐन्द्राग्नाख्य

१६ वैश्वे

२१ च विंशतिः सार्प

९ भे दश त्र्यधिकाः।

२५ अहिर्बुध्नार्य-म्ण

१४ प्राजापत्येषु पञ्चकृति

२५ । पञ्चदशाजे

४ पुष्ये चकीर्त्तिता वाजि

१ भ दश द्वौ च। रौद्रं

६ ऽष्टादश कथिताद्रोणा निरुपद्रवेष्वेषु रविरविसुतकेतुपीडिते भे क्षिति-तनयत्रिविधाद्भुताहते च। भवति हि न शिवं न चापिवृष्टिः शुभसहिते निरुपद्रवं शिवं च। (
“वर्षाप्रश्ने जलवर्षणनिर्णयः तत्रैव

२८ अ॰ यथा
“वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो लग्नंयातो भवति यदि वा केन्द्रगः शुक्लपक्षे। सौम्यैर्दृष्टःप्रचुरमुदकं पापदृष्टोऽल्पमम्भः प्रावृट्काले सृजति नचिराच्चन्द्रवद्भार्गवोऽपि। आर्द्रं द्रव्यं स्पृशति यदि वावारि तत्सञज्ञकं वा तोयासन्नो भवति यदिबा तोय-कार्य्योन्मुखो वा। प्रष्टा, वाच्यं सलिलमचिरादस्ति निः-संशयेन पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः”। ( अथ स{??} वृष्टिनि नम्
“उदयशिखरिसंस्थो दुर्निरीक्ष्यो-ऽतिदीप्त्या द्रु{??} न विकाशः स्निग्धवैदूर्यव न्तिः। तद-हनि कुरुतेऽम्भस्तोयकाले विवस्वान् प्रतपति यदि वोच्चैःखं गतोऽतीव तीक्ष्णम्। विरससुदकं गोनेत्राभं वियद्वि-भला दिशो लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः। पवननिगमः पोप्लूयन्ते झषाः स्थलगामिनो रसनमस-कृन्मण्डूकानां जलागमहेतवः। मार्जारा भृशमवनिंनखैर्लिखन्तो लोहानां मलनिचयः सविस्रगन्धः। रथ्यायां शिशुनिचिताश्च सेतुबन्धा। सम्प्राप्तं जलमचिरा-न्निवे{??}न्त। गिरयोऽञ्जनपुञ्जसन्निभा यदि वा बाष्पनिरुद्धकन्दराः। कृकवाकु वलोचनोपमाः परिवेषाःशशिनश्च वृष्टिदाः। विनोपघातेन पिपीलिकानामण्डो-पसंक्रान्तिरहिव्यवाथः। द्रुमाधिरोहश्च भुजङ्गमानांवृष्टेर्निमित्तानि गवां प्लुतं च। तरुशिखरोपगताःकृकलासा गगनतल स्थतवृष्टिनिपाताः। यदि च गवांरविवीक्षणमूर्द्ध्वं निपतति वारि तदा नचिरेण। येच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि। पहवः पशवच्चकुकुरा यटि चाम्भः पततीति निर्दिशेत्। यदा स्थिता गृहपटलेषु कुर्कुरा भवन्ति वा यदि विततंदिवोन्मुखाः। दिवा तडिद्यदि च पिनाकिदिगभवा[Page3065-b+ 38] तदा क्षमा भवति समातिवारिणा। शुककपोतविलो-चनसन्निभो मधु नभश्च यदा हिमदीधितिः। प्रतिशशीच यदा दिवि राजते पतति वारि तदा नचिराद्दिवः। स्त नतं निशि विद्युतो दिवा, रुधिरनिभा यदि दण्डवत्स्थिताः। पवनः परतश्च शीतलो यदि सलिलस्य तदा-गमो भवेत्। वल्लीनां गगनतलोन्मुखाः प्रबालाः स्ना-यन्ते यदि जलपांशुभिर्विहङ्गः। सेवन्ते यदि चसरीसृपास्तृणाग्राण्यासन्नो भवति तदा जलस्य पातः। मयूरशुकचामचातकसमानवर्णा यदा, जपाकुसुमपङ्कज-द्युतिमुषश्च सन्ध्याथनाः। जलोर्मिनगनक्रकच्छपवराह-मीनोपभाः प्रभूतपुटसञ्चया न तु चिरेण यच्छन्त्यपः। पर्यन्तेषु सुधाशशाङ्कधवला मध्येऽञ्जनालित्विषः स्निग्धानैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः। माहेन्द्री-प्रभवाः प्रयान्त्यपरतः प्राक् चाम्बुपाशीद्भवा ये ते वारि-मुचस्त्यजन्ति नचिरादम्भः प्रभूतं भुवि। शक्रचाप-परिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषाः। उद्ग-भास्तसमये यदि भानोरादिशेत् प्रचुरमम्बु तदाशु। यदि तित्तिरिपत्रनिभं गगनं मुदिताः प्रवदन्ति चपक्षिगणाः। उदयास्तमये सवितुर्द्युनिशं विसृजन्तिधना नचिरेण जलम्। यद्यमोथकिरणाः सहस्रगोर-स्तभूधरकरा इवोच्छ्रताः। भूसमं च रसते यदाम्बुद-स्तन्महद्भवति वृष्टिलक्षणम्। प्रावृषि शीतकरो भृगु-पुत्रात् मप्तमराशिगतः शुभदृष्टः। सूयसूतान्नवपञ्चमगोवा सप्तमगश्च जलागमनाय। प्रायो ग्रहाणामुदयास्त-काले समागमे मण्डलसंक्रमे च। पक्षक्षये तीक्ष्ण-करायनान्ते वृष्तिर्गतेऽर्के नियमेन चार्द्राम्। समागमेपतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमेयमारयोः पवनहुताशजं भयं न दृष्टयोरसहितयोश्चसद्ग्रहैः। अग्रतः पृष्ठतो वापि ग्रहाः सूर्य्यावलम्बिनःयदा तदा प्रकुर्वन्ति महीमेकार्णवामिव”( कृषौ केदाराज्जलमोचनकाल उक्तो यथा
“नैरुज्यार्थहि धान्यानां जलं भाद्रे विमोचयेत्। मूलम त्रन्तुसंस्थाप्य कारयेज्जलमोक्षणम्। भाद्रे च जलसम्पूर्णंधान्यं विविधबाधकैः। प्रपीडितं कृषाणानां न धत्तेफलमुत्तमम्”। कृषिपराशरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल¦ r. 1st cl. (जलति)
1. To be sharp.
2. To be wealthy. r. 1st and 10th cls. (जलति जालयति-ते) To cover, to hide or veil; to cover also as with a net, to encompass. भ्वा० अक० पर० सेट् | आच्छादने चुरा० उभ० सक० सेट् |

जल¦ mfn. (-लः-ला-लं) Cold stupid, apathetic, idiotic, &c. n. (-लं)
1. Water.
2. A kind of perfume: see ह्रीवेर।
3. The uterus of a cow.
4. Frigidity, (moral, mental, or physical.)
5. The constellation called Purvashada. E. जल् to hide, to encompass, &c. affix अच्; also ल being changed to its congener ड, जड q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल [jala], a. [जल् अच् डस्य लो वा]

Dull, cold, frigid = जड q. v.

Stupid, idiotic.

लम् Water; तातस्य कूपो$- यमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति । Pt.1.322.

A kind of fragrant medicinal plant or perfume (ह्रीवेर).

The embryo or uterus of a cow.

The constellation called पूर्वाषाढा.

Comp. अञ्चलम् a spring.

a natural water-course.

अञ्जलिः a handful of water.

a libation of water presented to the manes of a deceased person; कुपुत्रमासाद्य कुतो जलाञ्जलिः Chāṇ 69; मानस्यापि जलाञ्जलिः सरभसं लोके न दत्तो यथा Amaru. 97 (where, जलाञ्जलिं दा means 'to leave or give up').-अटनः a heron. -अटनी a leech. -अणुकम्, -अण्डकम् the fry of fish. -अण्टकः a shark. -अत्ययः autumn (शरद्); पृष्ठतो$नुप्रयातानि मेघानिव जलात्यये Rām.2.45.22.-अधिदैवतः, -तम् an epithet of Varuṇa. (-तम्) the constellation called पूर्वाषाढा. -अधिपः an epithet of Varuṇa. -अम्बिका a well. -अर्कः the image of the sun reflected in water.

अर्णवः the rainy season.

the ocean of sweet water. -अर्थिन् a. thirsty. -अवतारः a landing-place at a river-side. -अष्ठीला a large square pond. -असुका a leech. -आकरः a spring, fountain, well. -आकाङ्क्षः, -काङ्क्षः, -काङ्क्षिन् m. an elephant.-आखुः an otter. -आगमः rain; तपति प्रावृषि सुतरामभ्यर्ण- जलागमो दिवसः Ratn.3.1. -आढ्य a. watery, marshy.-आत्मिका a leech. -आधारः a pond, lake, reservoir of water. -आयुका a leech. -आर्द्र a. wet. (-र्द्रम्) wet garment or clothes. (-र्द्रा) a fan wetted with water.-आलोका a leech. -आवर्तः eddy, whirl-pool. -आशयa.

resting or lying in water.

stupid, dull, apathetic.

(यः) a pond, lake, reservoir.

the fragrant root of a plant (उशीर).

आश्रयः a pond.

water-house. -आह्वयम् a lotus.

इन्द्रः an epithet of Varuṇa.

N. of Mahādeva.

the ocean; जलेन्द्रः पुंसि वरुणे जम्भले च महोदधौ Medinī.-इन्धनः the submarine fire. -इभः a water-elephant.

ईशः, ईश्वरः an epithet of Varuṇa; भीमोद्भवां प्रति नले च जलेश्वरे च N.

उच्छ्वासः a channel made for carrying off excess of water, drain, (cf. परीवाह).

overflow of a river. -उदरम् dropsy. -उद्भवa. aquatic. (-वा) benzoin. -उरगा, -ओकस् m., -ओकसः a leech. -कण्टकः a crocodile. -कपिः the Gangetic porpoise. -कपोतः a water-pigeon. -कर a. making or pouring forth water. (-रः) tax for water.

करङ्कः a shell.

a cocoa-nut.

a wave.

a lotus.-कल्कः mud. -कल्मषः the poison produced at the churning of the ocean; तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः Bhāg.8. 7.44. -काकः the diver-bird. -कान्तः the wind. -कान्तारः an epithet of Varuṇa. -किराटः a shark. -कुक्कुटः a water-fowl; जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् Bhāg.8.2.16. (-टी) the black-headed gull. -कुन्तलः, -कोशः moss.

कूपी a spring, well.

a pond.

a whirlpool; जलकूपी कूपगर्ते पुष्करिण्यां च योषिति Medinī. -कूर्मः the porpoise.-कृत् a. Causing rain; दिवसकृतः प्रतिसूर्यो जलकृत् (मेघः) Bṛi. S. -केलिः, m. or f., -क्रीडा playing in water, splashing one another with water. -केशः moss. -क्रिया presenting libations of water to the manes of the deceased.

गुल्मः a turtle.

a quadrangular tank.

a whirlpool. -चर a. (also जलेचर) aquatic.

(रः) an aquatic animal.

any kind of water-fowl. ˚आजीवः, ˚जीवः a fisherman. -चत्वरम् a square tank.-चारिन् m.

an aquatic animal.

a fish. -ज a. born or produced in water.

(जः) an aquatic animal.

a fish; स्वयमेव हतः पित्रा जलजेनात्मजो यथा Rām.2.61.22.

sea-salt.

a collective name for several signs of the zodiac.

the moon.

(जः, जम्) a shell.

the conch-shell; अधरोष्ठे निवेश्य दघ्मौ जलजं कुमारः R.7. 63,1.6; इत्यादिश्य हृषीकेशः प्रध्माय जलजोत्तमम् Bhāg.8.4. 26.

(जः) The Kaustubha gem; जलजः कौस्तुभे मीने तत् क्लीबे शङ्खपद्मयोः । Nm.

(जः) A kind of horse born in water; वाजिनो जलजाः केचिद् वह्निजातास्तथापरे । शालिहोत्र of भोज, Appendix II,12. (-जम्) a lotus. ˚आजीवः a fisherman. ˚आसनः an epithet of Brahmā; वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् Ku.2.3. ˚कुसुमम् the lotus. ˚द्रव्यम् a pearl, shell or any other thing produced from the sea.

जन्तुः a fish,

any aquatic animal. -जन्तुका a leech. -जन्मन् a lotus. -जिह्वः a crocodile. -जीविन् m. a fisherman. -डिम्बः a bivalve shell.

तरङ्गः a wave.

a metal cup filled with water producing harmonic notes like a musical glass. -ताडनम् (lit.) 'beating water'; (fig.) any useless occupation. -तापिकः, -तापिन्, -तालः The Hilsa fish; L. D. B. -त्रा an umbrella.-त्रासः hydrophobia.

दः a cloud; जायन्ते विरला लोके जलदा इव सज्जनाः Pt.1.29.

camphor. ˚अशनः the Śāla tree. -आगमः the rainy season; सरस्तदा मानसं तु ववृधे जलदागमे Rām.7.12.26. ˚आभ a. black, dark. ˚कालः the rainy season. ˚क्षयः autumn. -दर्दुरः a kind of musical instrument. -देवः the constellation पूर्वाषाढा. -देवता a naiad, water-nymph. -द्रोणी a bucket. -द्वारम् A gutter, a drain, Māna.31.99.

धरः a cloud.

the ocean. -धारा a stream of water.

धिः the ocean.

a hundred billions.

the number 'four'. ˚गा a river. ˚जः the moon. ˚जा Lakṣmī, the goddess of wealth. ˚रशना the earth. -नकुलः an otter. -नरः a merman.-नाडी, -ली a water-course.

निधिः the ocean.

the number 'four'.

निर्गमः a drain, water-course.

a water-fall, descent of a spring &c. into a river below. -नीलिः moss. -पक्षिन् m. a water-fowl. -पटलम् a cloud.

पतिः the ocean.

an epithet of Varuṇa.-पथः a sea voyage; R.17.81. -पद्धतिः f. a gutter, drain. -पात्रम् 'a water-pot', drinking-vessel. -पारावतः a water-pigeon. -पित्तम् fire. -पुष्पम् an aquatic flower.

पूरः a flood of water.

a full stream of water.-पृष्ठजा moss. -प्रदानम् presenting libations of water to the manes of the deceased.

प्रपातः a water-fall.

rainy season; शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः Rām.4.27.47. -प्रलयः destruction by water. -प्रान्तः the bank of a river. -प्रायम् a country abounding with water; जलप्रायमनूपं स्यात् Ak.

प्रियः the Chātaka bird.

a fish. (-या) an epithet of Dākṣāyaṇī. -प्लवः an otter. -प्लावनम् a deluge, an inundation. -बन्धः,

बन्धकः a dam, dike, rocks or stones impeding a current. -बन्धुः a fish. -बालकः, -वालकः the Vindhya mountain. -बालिका lightning. -बिडालः an otter.-बिम्बः, -म्बम् a bubble.

बिल्वः a (quadrangular) pond, lake.

a tortoise.

a crab. -भीतिः f. hydrophobia. -भू a. produced in water. -भूः m.

a place for holding water.

a kind of camphor.-भूषणः wind. -भृत् m.

a jar.

camphor. -मक्षिका a water-insect. -मण़्डूकम् a kind of musical instrument; (= जलदर्दुर). -मद्गुः a king-fisher.

मसिः a cloud.

camphor. -मार्गः a drain, canal.-मार्जारः an otter. -मुच् m.

a cloud; Me.69.

a kind of camphor. -मूर्तिः an epithet of Śiva. -मूर्तिका hail. -मोदम् a fragrant root (उशीर).

यन्त्रम् a machine for raising water (Mar. रहाट).

a waterclock, clepsydra.

a fountain. ˚गृहम्, ˚निकेतनम्, ˚मन्दिरम् a house erected in the midst of water (a summerhouse) or one supplied with artificial fountains; क्वचिद् विचित्रं जलयन्त्रमन्दिरम् Ṛs.1.2. -यात्रा a sea-voyage.-यानम् a ship. -रङ्कुः a kind of gallinule.

रण्डः, रुण्डः a whirlpool.

a drop of water, drizzle, thin sprinkling.

a snake. -रसः sea-salt. -राशिः the ocean. -रुह्, -हम् a lotus. -रूपः a crocodile. -लता a wave, billow. -वरण्टः a watery pustule. -वाद्यम् a kind of musical instrument. -वायसः a diver-bird.-वासः residence in water. (-सम्) = उशीर q. v.

वाहः a cloud; साद्रिजलधिजलवाहपथम् Ki.12.21.

a waterbearer.

a kind of camphor. -वाहकः, -नः a watercarrier. -वाहनी an aqueduct. -विषुवम् the autumnal equinox. -वृश्चिकः a prawn. -वैकृतम् any change in the waters of rivers indicating a bad omen. -व्यधः A kind of fish; L. D. B.

व्यालः a water-snake.

a marine monster. -शयः, -शयनः, -शायिन् m. an epithet of Viṣṇu; -शय्या lying in water (a kind of religious rite); द्वादशं हि गतं वर्षं जलशय्यां समासतः Rām.7. 76.17. -शर्करा A hailstone; तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः Bhāg.1.25.9. -शुक्तिः f. a bivalve shell. -शुचि a. bathed, washed. -शूकम् moss. -शूकरः a crocodile.-शोषः drought. -समुद्रः the ocean of fresh water.-संपर्कः mixture or dilution with water. -सर्पिणी a leech. -सूचिः f.

the Gangetic porpoise.

a kind of fish.

a crow.

a water-nut.

a leech. -स्थानम्, -स्थायः a pond, lake, reservoir; कदचित्तं जलस्थायं मत्स्य- बन्धाः समन्ततः Rām.12.137.5. -स्रावः A kind of eyedisease. -हम् a small water-house (rather summerhouse) furnished with artificial fountains. -हस्तिन् m. a water-elephant. -हारिणी a drain.

हासः foam.

cuttle-fish-bone considered as the foam of the sea.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जल mfn. = जड(See. जल्) , stupid(See. ला-द्किप, ला-शय) S3a1rn3gP. xxi ( v.l. )

जल m. ( g. ज्वला-दि)a stupid man S3is3. v , 37

जल m. N. of a man (with the patr. जातूकर्ण्य) S3a1n3khS3r. xvi , 29 , 6

जल n. (also pl. )water , any fluid Naigh. i , 12 Ya1jn5. i , 17 MBh. etc. ( ifc. f( आ). )

जल n. a kind of Andropogon Bhpr. vii , 10 , 52 and 78 ; 28 , 18

जल n. the 4th mansion (in astrol. ) VarYogay. iv , 26

जल n. a cow's embryo( गो-कलकor लन) L.

जल n. (= जड)frigidity (moral or mental or physical) W.

जल Nom. लति, to become water S3atr. xiv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JALA : A deity of water. In Mahābhārata, Sabhā Parva, Chapter 11, Stanza 20 it is mentioned that this deva was a luminary in the durbar of Brahmā.


_______________________________
*6th word in left half of page 338 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जल&oldid=499695" इत्यस्माद् प्रतिप्राप्तम्