जलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलः, त्रि, (जलति आच्छादयति विनाशयति वा ज्ञानं बुद्धिप्रतिमां वेति । जल + अच् ।) जडः । इति मेदिनी । ले, १८ ॥ (यथा, काशीखण्डे । २९ । ६६ । “जाड्यविध्वंसनकरी जगद्योनिर्ज्जलाविला ॥” “जलानां जडानामज्ञानानामित्यर्थः । आविलेव कलुषितेव आवृतेवेति वा ।” इति तट्टीका ॥)

"https://sa.wiktionary.org/w/index.php?title=जलः&oldid=499696" इत्यस्माद् प्रतिप्राप्तम्