जलजम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलजम्, क्ली, (जले जायते इति । जन + डः ।) पद्मम् । (यथा, कुमारे । २ । ३० । “वाचस्पतिरुवाचेदं प्राञ्जलिर्ज्जलजासनम् ॥”) शङ्खः । इति मेदिनी । जे, २४ ॥ (यथा, रघुः । ७ । ६३ । “ततः प्रियोपात्तरसेऽधरौष्ठे निवेश्य दध्मौ जलजं कुमारः ॥”) लोणारम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=जलजम्&oldid=135590" इत्यस्माद् प्रतिप्राप्तम्