जलन्धर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलन्धरः, पुं, (जलं ब्रह्मनेत्रच्युताश्रुजलं धरतीति । जल + धृ + बाहुलकात खच् मुम् च ।) असुर- विशेषः । तस्योत्पत्तिकारणं यथा, -- इन्द्रः शिवं द्रष्टुं शिवलोकं गत्वा एकं भयानकं पुरुषं दृष्ट्वा तं पुनःपुनः पप्रच्छ ईश्वरः क्वगतः । स उत्तरं न ददौ इन्द्रः क्रुद्धस्तं वज्रेण जघान । ततो रुद्रस्तेजसा प्रजज्वाल । तत इन्द्रो भीतस्तं प्रणम्य तुष्टाव रुद्रस्तुष्ट इन्द्रदाहार्थोत्पन्नं भाल- नेत्रस्थवह्निं गृहीत्वा गङ्गासागरसङ्गमे प्राक्षि- पत् ततः स बालरूपोभूत्वा रुरोद तस्य रोदन- शब्देन सप्तलोका वधिरीकृतास्तच्छ्रुत्वा ब्रह्मा विस्मितस्तत्रागत्य तं बालं समुद्रक्रोडे दृष्ट्वा तं पप्रच्छ कस्यायं पुत्त्रः समुद्रस्तं प्रणम्योवाच मम पुत्त्रः अस्य जातकर्म्मादि कुरु इत्युक्त्रा ब्रह्मा क्रोडे ददौ स बालस्तस्व श्मश्रु दधार श्मश्रु धुन्वतो ब्रह्मणो नेत्राभ्यां जलमगमत् ब्रह्मा समुद्रमुवाच यस्मादनेन मम नेत्राभ्यां निर्गतं जलं धृतं तस्मादयं जलन्धरनामा अधुनैव सर्व्व- शास्त्रवेत्ता रुद्रं विना सर्व्वभूतावध्यश्च भवि- ष्यति इत्युक्त्रा शुक्रमाहूय तमासुरराज्ये न्यवे- शयत् स कालनेमिसुतां वृन्दामुपयेमे । इति पाद्मोत्तरखण्डम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलन्धर¦ पु॰ जलं धरति बा॰ ख मुम्।

१ ऋषिभेदे तस्य गोत्रा-षत्यं नडा॰ फक्। जालन्धरायण तद्गोत्राप्रत्ये पुंस्त्री।

२ असुरभेदे तस्योत्पत्तिकथा पाद्मोत्तरखण्डे दृश्या।

२ योगाङ्गे बन्धभेदे तल्लक्षणादिकं काशीख॰

४१ अ॰उक्तं यथा
“बध्नाति च सिराजालमधोगामि न भोजनम्। [Page3069-b+ 38] एष जलन्धरो बन्धः कण्ठे दुःखौघनाशनः। जलन्धरेकृते बन्धे कण्ठसङ्कोचलक्षणे। न पीयूषं पतत्यग्नौ न चवायुः प्रधावति”
“महामुद्रां नभोमुद्रामुड्डीयानंजलन्धरम्। मूलबन्धञ्च च यो वेत्ति स योगी योग-मिद्धिभाक्” तत्रैवाध्याये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलन्धर¦ m. (-रः) An Asura sprung from SIVA, and adopted by the ocean. E. जल, and धर who has. जलं धरति वा ख मुम्।

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JALANDHARA : A mightly and valiant Asura. Khaḍga- romā was his charioteer and Vṛndā was his wife. Jalandhara was the grandson of the sea of Milk. Once he met with the headless Rāhu, who said to Jalandha- ra, the whole story beginning from the churning of the sea of Milk. Jalandhara, became furious at the gods who had churned his grandfather. So he collected a big army of asuras and went to war with the devas. Though a large number of Asuras were killed in the battle, Indra and Viṣṇu were defeated and Viṣṇu was taken captive and hidden under the sea. Finally Paramaśiva went to fight with the Asura. In the fight Jalandhara was killed and Viṣṇu was rescued. (Padma Purāṇa, Chapters 3 to 5). For further details see under Māyā- śiva.


_______________________________
*4th word in right half of page 338 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जलन्धर&oldid=429873" इत्यस्माद् प्रतिप्राप्तम्