जलायुका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलायुका, स्त्री, (जलमायुरस्याः । कप् । पृषो- दरादित्वात् सलोपः ।) जलौका । इति शब्द- रत्नावली ॥ (यथा, सुश्रुते । १ । १३ । “अथ जलायुकाः वक्ष्यन्ते । जलमासामायु- रिति जलायुकाः ॥” अस्या अन्यद्बिवरणं जलौकःशब्दे द्रष्टव्यम् ॥ यस्मिन्नियं व्यवहृता तद्यथा, -- “नस्याञ्जनाभ्यञ्जनपानधूमं तथावपीडं कवलग्रहञ्च । संशोधनञ्चोभयतः प्रयुञ्ज्या- द्रक्तं हरेच्चापि जलायुकाभिः ॥” इति सुश्रुते कल्पस्थानेऽष्टमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलायुका¦ स्त्री जलमायुरस्याः कप् वृषो॰। जलौकायां(जोंक) शब्दरत्ना॰ तद्भेदलक्षणाधिकं सुश्रुते उक्तं यथा। (
“अथ जलायुका वक्ष्यन्ते। जलमासामायुरितिजलायुका जलमासामोक इति जलौकसः। ता द्वादशतासां सविषाः षट्, तावत्य एव निर्विषाः। तत्र सविषाः[Page3074-b+ 38] कृष्णा कर्वुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दनाचेति। तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा। वर्म्मि-मत्स्यावदायता छिन्नोन्नतकुक्षिः कर्वुरा। रोमशा महा-पार्श्वा कृष्णमुख्यलगर्द्दा। इन्द्रायुधवदूर्द्धराजिभिश्चित्रिताइन्द्रायुधा। ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रासामुद्रिका। गोवृषणवदधोभागे द्विधाभूताकृतिरणु-मुखी गोचन्दनेति। ताभिर्दष्टे पुरुषे दंशे श्वयथुरति-मात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमितिलिङ्गानि भवन्ति। तत्र महागदः पानालेपननस्य-कर्मादिषूपयोज्यः। इन्द्रायुधादष्टमसाध्यमित्येताःसविषाः सचिकित्सिता व्याख्याताः। अथ निर्विषाः। कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखीसावरिका चेति। तत्र मनःशिलारञ्जिताभ्यामिवपार्श्वाभ्यां पृष्ठे स्निग्धमुद्गवर्ण्णा कपिला। किञ्चिद्रक्तावृत्तकाया पिङ्गाशुगा च पिङ्गला। यकृद्बर्णा शीथ्र-पायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी। मूषिकाकृतिवर्ण्णाऽनिष्टगन्धा च मूषिका। मुद्गवर्ण्णा पुण्डरीकतुल्य-वक्त्रा पुण्डरीकमुखी। स्निग्धा पद्मपत्रवर्णाष्टादशा-ङ्गुलप्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषाव्याख्याताः। तासां यवनपाण्ड्यसह्यपौतनादीनिक्षेत्राणि। तेषु महाशरीरा बलवत्यः शीघ्रपायिन्योमहाशना निर्विषाश्च विशेषेण भवन्ति। तत्र सविष-मत्स्यकीटदर्द्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भःसु चसविषाः। पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्ड-रीकशैवालकोथजाता विमलेष्वम्भःसु च निर्विषार। भवति चात्र। क्षेत्रेषु विचरन्त्येताः सलिलेषु सुग-न्धिषु। न च सङ्कीर्ण्णचारिण्यो न च पङ्केशयाःसुखाः। तासां प्रग्रहणमार्द्रचर्मणान्यैर्वा प्रयोगैर्गृह्णी-यात्। अथैनां नवे महति थटे सरस्तडागोदकपङ्कमावाप्यनिदध्यात् भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमोदकांश्चकन्दांश्चूर्ण्णीकृत्य शय्यार्थं तृण मौदकानि च पत्राणि। त्र्यहात्र्यतहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात्स-प्तरात्राच्च घटमन्यं संक्रामयेत्। भवति चात्र। स्थूल-मध्याः परिक्लिष्टाः पृथ्योषा मन्दचेष्टिताः। अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः। अथ जलौकोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरुक्ष्य चास्यतमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात्। गृहीताश्चताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरक-[Page3075-a+ 38] मध्ये मुहूर्त्तस्थिता विगतक्लमा ज्ञात्वा ताभीरोगंग्राहयेत्। सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपा-वृणुयाद्गृह्णत्यै क्षीरविन्दुं वा दद्याच्छस्त्रपदानि वाकुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत्। यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धंतदा जानीयाद्गृह्णातीति गृह्णतीं चार्द्रवस्त्रावच्छन्नांधारयेत्सेचयेच्च। दंशे तोदकण्डूप्रादुर्भावैर्जानीयाच्छुद्ध-मियमादत्तैति शुद्धमाददानामपनयेत्। अथ शोणित-गन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत्। अथपतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्त-मुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणह-स्ताङ्गुष्ठाङ्गुलिभ्यां शनैरनुलोममनुमार्जयेदामुखाद्वामयेत्ता-वद्यावत्सम्यग्वान्तलिङ्गानीति। सम्यग् वान्ता सलिलसर-कन्यस्ता भोक्तुकामा सती चरेत्। या सीदति न चेष्टतेसा दुर्वान्ता तां पुनः सम्यग्वामयेत्। दुर्वान्ताया व्याधि-रसाध्य इन्द्रमदो नाम भवति। अथ सुवान्तां पूर्ववत्सन्नि-दध्यात् शोणितस्य च योगायोगानवेक्ष्य जलौकोव्रणान्म-धुनावघट्टयेच्छीताभिरद्भिश्च परिषेचयेद्बध्नीत वा व्रणंकषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति। भवतिचात्र। क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम्। जलौकसाञ्च यो वेत्ति तत्साध्यान् स जयेद्गदान्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलायुका¦ f. (-का) A leech. E. जल water, अय to go, कप् aff. जलमायुरस्याः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलायुका/ जला f. a leech Sus3r. i , 13 , 6.

"https://sa.wiktionary.org/w/index.php?title=जलायुका&oldid=382029" इत्यस्माद् प्रतिप्राप्तम्