जलोदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलोदरम्, क्ली, (जलप्रधानं उदरं यस्मात् ।) जठरामयः । तस्य निदानादि यथा, -- “यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः । पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्बहानि ॥ स्नेहोपलिप्तेष्वथवापि तेषु दकोदरं पूर्ब्बवदभ्युपैति । स्निग्धं महत्तत् परिवृत्तनाभि- समाततं पूर्णमिवाम्बुना च ॥ यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरन्तत् ॥ जन्मनैवोदरं सर्व्वं प्रायः कृच्छ्रतमं मतम् । बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥” इति माधवकरः ॥ (अस्य सकारणलक्षणचिकित्सितं यथा, हारीते चिकित्सितस्थाने २७ अध्याये । आत्रेय उवाच । “विषमाशनोपवेशात् पीततोयादथापि वा । श्रमाध्वश्वासनिष्क्रान्तादतिव्यायामतोऽपि वा ॥ पीतन्तूदरमेवञ्च तस्माज्जातं जलोदरम् । उदरं सजलं यस्य सघोषमतिवर्द्धितम् ॥ श्वयथुः पादयोः शोथो जलोदरस्य लक्षणम् । विरेकं वमनं कुर्य्यात् पाचनानि च कारयेत् ॥ क्षारयोगश्च वटकस्तेन तदुपशाम्यति । तस्मान्नाभेर्वलीभागे वज्जयित्वाङ्गुलद्बयम् ॥ जलनाडीञ्चानुमन्य कुशपत्रेण वेष्टयेत् । एरण्डजलनालञ्च तत्र सञ्चारयेद्बुधः ॥ अन्तर्गतं जलं स्राव्यं ततः सन्धारयेद्द्रुतम् । यदा न धरते तच्च तदा दाहः प्रशस्यते ॥ कणा कल्कं परिस्राव्य घृतं देयं चतुर्गुणम् । शुण्ठी विषा समं पाच्यं पानमालेपनं हितम् ॥ शस्त्रकर्म्म भिषक् श्रेष्ठो विज्ञातेनैव कारयेत् । दुष्करं शस्त्रकर्म्मैव न कुर्य्यत् यत्र तत्र तु ॥ अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् । तस्मादवश्यकर्त्तव्यमीश्वरं साक्षिकारिणा ॥” * ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलोदर¦ न॰ जलप्रधानमुदरं यस्मात्

५ ब॰। उदरामयरोगभेदे।
“यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विविक्तोऽप्यथवा निरूढः। पिबेज्जलं शीतलमाशु तस्य स्रोतांसिदुष्यन्ति हि तद्वहानि। स्नेहोपलिप्तेष्वथ वापि तेषु-दकोदरम् पूर्ववदभ्युपैति। स्निग्धं महत्तत् परिवृत्तना-मिसमाततं पूर्णमिवाम्बुना च। यथा दृतिः क्षुभ्यतिकम्पते च शब्दायते चापि दकोदरन्तत्। जन्मनैवीदरसर्वं प्रायः कृच्छ्रतमं मतम्। बलिनस्तदजाताम्बुयत्न-साध्यं नवोत्थितम्” माधवकरस्तन्निदानाद्यारम्भ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलोदर¦ n. (-रः) Dropsy. E. जल, and उदर the belly. जलप्रधानम् उदरम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलोदर/ जलो n. " water-belly " , dropsy MBh. iii , xii VarBr2. xxiii , 3 Bhakta7m. 41.

"https://sa.wiktionary.org/w/index.php?title=जलोदर&oldid=382315" इत्यस्माद् प्रतिप्राप्तम्