जवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवा, स्त्री, (जवते रक्तवर्णत्वं गच्छतीति । जु गतौ + अच् । ततष्टाप् ।) स्वनामख्यातपुष्प- वृक्षः । तत्पर्य्यायः । ओड्रपुष्पम् २ । इत्य- मरः । २ । ४ । ७६ ॥ जपा ३ ओड्राख्या ४ रक्तपुष्पी ५ अर्कप्रिया ६ रागपुष्पी ७ प्रतिका ८ हरिवल्लभा ९ । (यथा, माघे । ६ । ४६ । “अनुवनं वनराजिबधूमुखे बहलरागजवाधरचारुणि ॥”) अस्या गुणाः । कटुत्वम् । उष्णत्वम् । इन्द्र लुप्तविनाशकारित्वम् । विच्छर्द्दिजन्तुजनकत्वम् । सूर्य्याराधनसाधनत्वञ्च । इति राजनिर्घण्टः ॥ मलमूत्रस्तम्भनरञ्जनकारित्वम् । इति राज- वल्लभः ॥ (यस्मिन्नियं व्यवह्नियते तद्यथा, -- “सकाञ्जिकं जवापुष्पं भृष्टं ज्योतिष्मतीदलम् । दूर्व्वापिष्टञ्च संप्राश्य वनिता त्वार्त्तवं लभेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापदधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवा¦ स्त्री सौ॰ जु--अच्।

१ स्वनामख्याते वृक्षे अमरः।
“जवाकटूष्णेन्द्रलुप्तनाशकृत् मिषजां मता। विच्छर्द्दिकृद्रेच-निका सूर्य्यस्याराधने हिता” राजव॰। पाटला॰ पुष्पे-ऽपि स्त्री” अरुणो गरुडभ्राता जवापुष्पसामप्रभः” हरिवं॰

२२

७ अ॰।
“जवाकुसुमसङ्काशं काश्यषेयं महाद्यु-तिम्” सूर्य्यनतिमन्त्रः।
“पारिजातवनैश्चैव जवाशोक-वनैस्तथा भा॰ व॰

२३

० अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवा [javā], The China rose; see जपा. जवापुष्पश्रेणीरुचिरुचिर- पादाम्बुजतलम् Haṁsadūtam; बहलरागजवाधरचारुणि Śi.6.46.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवा f. = जपाMBh. Hariv. R. Megh. 36

जवा f. saffron L.

"https://sa.wiktionary.org/w/index.php?title=जवा&oldid=382502" इत्यस्माद् प्रतिप्राप्तम्