जागरूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरूकः, त्रि, (जागर्त्तीति । जागृ + “जाग- रूकः ।” ३ । २ । १६५ । इति ऊकः ।) जाग- रणशीलः । जागरणकर्त्ता । तत्पर्य्यायः । जाग- रिता २ । इत्यमरः । ३ । १ । ३२ ॥ जागरी ३ । इति हेमचन्द्रः । ३ । १०७ ॥ (यथा, रघुः । १० । २४ । “अजस्य गृह्णतो जन्म निरीहस्य हतद्बिषः । स्वपतो जागरूकस्य याथार्थं वेद कस्तव ॥” कर्त्तव्यपालनाद्यर्थं अप्रमत्तः । यथा, रघुः । १४ । ८५ । “निगृह्य शोकं स्वयमेव धीमान् वणाश्रमावेक्षणजागरूकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरूक वि।

जागरूकः

समानार्थक:जागरूक,जागरितृ

3।1।32।2।1

क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः। जागरूको जागरिता घूर्णितः प्रचलायितः॥

वैशिष्ट्यवत् : जागरणम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरूक¦ त्रि॰ जागृ--ऊक। जागरणशीले अमरः
“स्वपतोजागरूकस्य याथार्थ्यं वेद कस्तव” रघुः।

२ स्वकर्त्तव्येसावधाने अप्रमत्ते च
“वर्णाश्रमावेक्षणजागरूकः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरूक¦ mfn. (-कः-का-कं) Wakeful, waking, watchful. E. जागृ to wake, ऊक aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरूक mf( आ)n. ( Nir. i , 14 Pa1n2. 3-2 , 165 )wakeful , watchful RV. iii , 54 , 7 Sus3r. Ragh. x , 25 Sa1h. Sarvad.

जागरूक mf( आ)n. ifc. intent on , occupied with Ragh. xiv , 85 Hcar. v , 104

जागरूक mf( आ)n. ifc. looking on Prasannar. vi , 2

जागरूक mf( आ)n. evident W.

"https://sa.wiktionary.org/w/index.php?title=जागरूक&oldid=382811" इत्यस्माद् प्रतिप्राप्तम्