जाघनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाघनी, स्त्री, (जघनस्य समीपम् । जघन + शैषिकोऽण् । ततः स्त्रियां ङीप् ।) ऊरुः । इति त्रिकाण्डशेषः ॥ (यथा, मनुः । १० । १०८ । “क्षुधार्त्तश्चात्तुमभ्यागाद्बिश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय घर्म्माधर्म्मविचक्षणः ॥” विश्वामित्रस्य जाघनीहरणकथा महाभारते शान्तिपर्व्वणि १४१ अध्याये द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाघनी¦ स्त्री जघनस्य समीपं शौषकोऽण् ङीप्।

१ ऊरौत्रिका॰ जघनस्यार्द्धे जघनैकदेशे भवः अण् ङीप्।

२ पुच्छ-काण्डे
“अथ जाचन्या पत्नीः संयाजयन्ति जघनार्द्धंजाघनी जघनार्द्धाद्वे योषायै प्रजाः प्रजायन्ते” शत॰ ब्रा॰

३ ।

८५ ।

६ ।
“जाघनी वालदण्डः” भा॰।
“बनिष्ठु जाघनिचावद्यति” कात्या॰ श्रौ॰

६ ।

७ ।

१० तत्र जाघनी-[Page3083-b+ 38] शब्दस्य मतभेदेन कर्केण नानार्थतोक्ता यथा
“जाघनीजघनप्रदेशे भवा पुच्छदण्ड इत्यर्थः जाघनी पशोः पुच्छ-मिति हरिस्वामिना। जाघनी बालदण्ड इति माधवा-चार्य्याः।
“जाघनी येन मशकानपनयतीति धूर्त्तस्वामिनः। जाघनी बालधिरुच्यत इति ज्ञानदीपिकाकारः। क्षुधार्त-श्चात्तुमभ्यगाद्विश्वामित्रः श्वजाघनीम्। चण्डालहस्तादा-दाय धर्माधर्मविचक्षणः” (मनुः) इत्यत्र श्वजाघनीम् श्व-पुच्छमिति स्मृतिचन्द्रिकाकारो व्याख्यातवान्। जाघनीपशोः पुच्छमित्यधिकरणमालायाम् तृतीयेऽध्याये। जाघनीचैकदेशत्वादित्यधिकरणे जाघनी कटी इति पितृभूतिहरि-हरौ तदयुक्तम् कटिशब्दस्य श्रोणिपर्य्यायत्वात् श्रोण्योश्चपागुक्तत्वादिति अतः पुच्छकाण्डमेव जाघनीशब्देनोच्यतेइति। विश्वामित्रस्य जाघनीहरणकथा प्रसङ्गादुच्यते। (
“विश्वामित्रोऽथ भगवान् महर्षिरनिकेतनः। क्षुधा-परिगतो धीमान् समन्तात् पर्य्यधावत। त्यक्त्वा दारांश्चपुत्रांश्च कस्यांचित् जनसंसदि। भक्ष्याभक्ष्यसमो भूत्वा निर-ग्निरनिकेतनः” इत्युपक्रमे
“स ददर्श श्वमांसस्य कुतन्त्रींविततां मुनिः। चाण्डालस्य गृहे राजन्! सद्यः शस्त्र-हतस्य वै। स चिन्तयामास तदा स्तैन्यं कार्य्यमितोमया। न हीदानीमुपायो मे विद्यते प्राणधारणे। आपत्सु विहितं स्तैन्यं विशिष्टञ्च महीयसः। विप्रेणप्राणरक्षार्थं कर्त्तव्यमिति निश्चयः। हीनादादेयमादौस्यात् समानात्तदनन्तरम्। असम्भवे वाददीत विशिष्टादपिधार्मिकात्। सोऽहमन्त्यावसानाय हराम्येनां प्रतिग्र-हात्। न स्तैन्यदोषं पश्यामि हरिष्यामि श्वजाघनीम्”। इति निश्चित्य तां हर्त्तुमुपक्रान्तस्य चण्डालेन सहसंवादो यथा
“विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्ययन्। क्षुधितीऽहं गतप्राणो हरिष्यामि श्वजाघनीम्। क्षुधितःकलुषं यातो नास्ति ह्रीरशनार्थिनः। क्षुच्च मां दूषय-त्यत्र हरिष्यामि श्वजाघनीम्। अवसीदन्ति मे प्राणा-श्रुतिर्मे नश्यति क्षुधा। दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्य-विवर्ज्जितः। सोऽधर्म बुध्यमानोऽपि हरिष्यामि श्व-जाघनीम्। अटन् भैक्षं न विन्दामि यदा युष्माक-मालये। तदा बुद्धिः कृता पापे हरिष्यामि श्वजाष-नीम्” भा॰ शा॰

१४

१ अ॰। कथाशेषस्तत्र दृश्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाघनी [jāghanī], 1 A tail.

The thigh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाघनी f. (fr. जघन)a tail S3Br. iii f. , xii AitBr. vii Ka1tyS3r. Mn. MBh.

जाघनी f. See. प्रिथु-जाघन.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाघनी स्त्री.
(जघन + अण् + ङीप्) पूँछ, मा.श्रौ.सू. 1.8.6.15; इससे पशुयाग में ‘पत्नीसंयाज’ का अनुष्ठान किया जाता है; ‘पत्नीसंयाज’ में ‘आज्य’ के बजाय बध्यपशु के पूँछ के मांस की आहुति दी जाती है, ‘जाघनीगुदं निधाय----’, का.श्रौ.सू. 6.9.14 (पशुबन्ध)।

"https://sa.wiktionary.org/w/index.php?title=जाघनी&oldid=499719" इत्यस्माद् प्रतिप्राप्तम्