जातीफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातीफलम्, क्ली, (जातीत्याख्यं फलम् ।) सुगन्ध- फलविशेषः । जायफल इति भाषा ॥ तत्- पर्य्यायः । जातीकोषम् २ । इत्यमरः । २ । ६ । १३२ ॥ जातीकोशम् ३ जातिफलम् ४ । इति तट्टीका ॥ जातिशस्यम् ५ शालूकम् ६ मालतीफलम् ७ मज्जसारम् ८ जातिसारम् ९ पपुटम् १० सुमनःफलम् ११ फलञ्जातिः १२ फलञ्जाती १३ कोशम् १४ कोषम् १५ जातिकोषम् १६ कोष- कम् १७ । इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । १६ । ३० । “जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥”) अस्य गुणाः । कषायत्वम् । उष्णत्वम् । कटु- त्वम् । कण्ठामयार्त्तिवातातीसारमेहनाशि- त्वम् । वृष्यत्वम् । दीपनत्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥ रसे तिक्तत्वम् । तीक्ष्णत्वम् । रोचनत्वम् । ग्राहित्वम् । स्वरहितत्वम् । श्लेष्मा- निलमुखवैरस्यमलदौर्गन्ध्यकृष्णताकृमिकासवमि- श्वासशोषपीनसहृद्रुञ् नाशित्वञ्च । इति भाव- प्रकाशः ॥ तृष्णाशूलनाशित्वम् । इति राज- वल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातीफल नपुं।

जातीफलम्

समानार्थक:जातीकोश,जातीफल

2।6।132।2।3

तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम्. कुचन्दनं चाथ जातीकोशजातीफले समे॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातीफल/ जाती--फल n. = ति-फ्VarBr2S. xvi , 30

जातीफल/ जाती--फल n. lxxvi , 27 and 33 Pan5cad. ii , 66

"https://sa.wiktionary.org/w/index.php?title=जातीफल&oldid=383687" इत्यस्माद् प्रतिप्राप्तम्