जालकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकम्, क्ली, (जल संवरणे + भावे घञ् । जालेन ईषदावरणेन कायति प्रकाशते इति । कै + कः । जाल + स्वार्थे कन् वा ।) अस्फुटकलिका । इति भरतः ॥ (यथा, मेघदूते । ९९ । “तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥”) कुष्माण्डादिक्षुद्रफलम् । इति सारसुन्दरी ॥ तत्पर्य्यायः । क्षारकः २ । इत्यमरः । २ । ४ । १६ ॥ कोरकः । दम्भः । कुलायः । आनायः । इति मेदिनी । के, ९२ ॥ (यथा, सुश्रुते । उत्तरतन्त्रे ७ अध्याये । “दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते । मक्षिकान् मशकान् केशान् जालकानि च पश्यति ॥”) समूहः । इति शब्दरत्नावली ॥ (यथा, शाकु- न्तले प्रथमाङ्के । “बद्धं कर्णशिरीषरोधि वदने घर्म्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्य्याकुला मूर्द्धजाः ॥” वंशलौहादिनिर्म्मितजालाकृतिद्रव्यविशेषः । यथा, पञ्चतन्त्रे । ३ । १७ । ९ । “ततो यष्टिं शलाकाञ्च जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां कपोतीञ्च मुमोच ताम् ॥”)

जालकम्, क्ली स्त्री, (जल संवरणे + भावे घञ् । जालेन आवरणेन कायति प्रकाशते इति । कै + कः ।) मोचकफलम् । इति मेदिनी ॥ के, ९२ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालकम् [jālakam], [जालमिव कायति कै-क]

A net.

A multitude, collection; बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकम् Ś.1.3; R.9.68.

A lattice, window; जालकमुखोप गतान् Śi.9.39; आननविलग्नजालकम् R.9.68.

A bud, an unblown flower; अभिनवैर्जालकैर्मालतीनाम् Me.98; so यूथिकाजालकानि 26.

A kind of ornament (worn in the hair); तिलकजालकजालकमौक्तिकैः R.9.44 (आभरणविशेषः).

A nest.

Illusion, deception.

A plantain or the fruit.

Pride.

A kind of tree; माधवीजालकादिभिः Bhāg.8.2.19.

कः A window, lattice.

A fowler.-Comp. -मालिन् a. veiled.

"https://sa.wiktionary.org/w/index.php?title=जालकम्&oldid=384734" इत्यस्माद् प्रतिप्राप्तम्