सामग्री पर जाएँ

जालन्धर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालन्धरः, पुं, त्रिगर्त्तदेशः । इति हेमचन्द्रः । ४ । १४ ॥ (देशोऽयं पीठस्थानानामन्यतमः । अत्र भगवती विश्वमुखीमूर्त्त्या विराजते । यथा, देवीभागवते । ७ । ३० । ७६ । “जालन्धरे विश्वमुखी तारा किष्किन्धपर्व्वते ॥” जालन्धरोऽभिजन एषामिति । अण् ।) तद्दे- शस्थे पुं भूम्नि । (दैत्यविशेषः । यथा, काशीखण्डे । २१ । १०६ । “पुरा जालन्धरं दैत्यं ममापि परिकम्पनम् । पादाङ्गुष्ठाग्ररेखोत्थं चक्रं सृष्ट्वा हरोऽहरत् ॥” ऋषिविशेषः । इति व्याकरणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालन्धर¦ पु॰ दैत्यभेदे
“पुरा जालन्धरं दैत्यं ममापि परि-कम्पनम्। पादाङ्गुष्ठस्य रेखातश्चक्रं सृष्ट्वा हरोऽहरत्। तच्च चक्रं मया लब्ध्वं नेत्रपद्मार्चनात् विभोः। सुदर्शनाख्यं वैचक्रं देयचक्रविमर्द्दनम्” काशी॰

२१ अ॰ध्रुवं प्रति विष्णोरुक्तिः।

२ त्रिगर्त्तशे पु॰ तद्देशस्य तेनकृतत्वात् तथात्वम्। सोऽभिजनोऽस्य अण्। पित्रादिपर-म्परया

३ तद्देशवासिनि। बहुषु तस्यालुक्।

४ ऋषिभेदे पु॰ततः सडा॰ गात्रापत्ये फक्। जालन्धारायण तद्गोत्रा-[Page3116-b+ 38] पत्ये पुंस्त्री॰। जालन्धरायणस्य विषयो देशः राजन्या॰युञ्। जालन्धरायणक तस्य परिशीलिते देशे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालन्धर¦ m. (-रः) The name of a country situatated in the northwest of India, apparently part of Lahore, and perhaps the modern Jullun- d'har. m. plu. (-राः) The inhabitants of Jalland'hara.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालन्धरः [jālandharḥ], N. of a country in the north-west of India, the territory between the rivers Beas and Sutlej.

"https://sa.wiktionary.org/w/index.php?title=जालन्धर&oldid=384809" इत्यस्माद् प्रतिप्राप्तम्