जितेन्द्रियः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जितेन्द्रियः, त्रि, (जितानि वशीकृतानि इन्द्रि- याणि श्रोत्रादीनि येन ।) वशीकृतेन्द्रियः । तत्पर्य्यायः । शान्तः २ श्रान्तः ३ । इति हेमचन्द्रः ॥ (यथा, शब्दचिन्तामणिधृतवचनम् । “श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥”)

"https://sa.wiktionary.org/w/index.php?title=जितेन्द्रियः&oldid=136090" इत्यस्माद् प्रतिप्राप्तम्