जिह्वा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्वा, स्त्री, (जयति रसमनयेति । जि + “शेता- यह्वजिह्वाग्रीवाप्वामीवाः ।” उणां । १ । १५४ । इति वन् प्रत्ययेन हुगागमे निपातनात् साधुः ।) रसज्ञानेन्द्रियम् । जिव् इति भाषा । तत्- पर्य्यायः । रसज्ञा २ रसना ३ । इत्यमरः । २ । ६ । ९१ ॥ रशना ४ रसनम् ५ जिह्वः ६ । इति तट्टीका ॥ रसालः ७ सुधास्रवा ८ रसिका ९ रसाङ्का १० । इति शब्दरत्नावली ॥ रसा ११ लोला १२ रसाला १३ रसला १४ ललना १५ । इति जटाधरः ॥ (यथा, मुकुन्दमाला- याम् । २६ । “जिह्वे ! कीर्त्तय केशवं मुररिपुं चेतो ! भज श्रीधरं पाणिद्बन्द्व ! समर्च्चयाच्युतकथां श्रोत्रद्बय ! त्वंशृणु । कृष्णं लोकय लोचनद्वय ! हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण ! मुकुन्दपादतुलसीं मूर्द्धन्नमाधो- क्षजम् ॥”) अस्याः परीक्षा यथा, भावप्रकाशे । “शाकपत्रप्रभा रूक्षा स्फुटिता रसनानिलात् । रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला कफात् ॥ परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके । सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा ॥” (यथास्या उत्पत्तिविषयः । “उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् । कफशोणितमांसानां सारो जिह्वा प्रजायते ॥” इति सुश्रुते शारीरस्थाने ४ र्थे अध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्वा स्त्री।
जिह्वा
समानार्थक:रसज्ञा,रसना,जिह्वा
2।6।91।2।3
रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्वा¦ स्त्री लेढ्यनया लिह--स्वादे व
“शेवयह्वजिह्वेत्यादिना” नि॰।
१ रसास्वादकरणे इन्द्रियभेदे
२ तदधिष्ठाने गोलके(जिव) ख्याते पदार्थे च। तदिन्द्रियस्य जलीयत्वंमि॰ मु॰ समर्थितं यथा
“रसनं जलीयं गन्धाद्यव्य-ञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसव्यञ्जकोदकवत्रसनसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वे सतीति विशे-षणीयम्। तस्याधिष्ठातृदेवता च प्रचेताः
“दिग्यातार्कप्रचे-ऽश्वीत्यादि” शा॰ ति॰ उक्तेः। अग्नेर्जिह्वाश्च सप्त तन्ना-मानि
“काली कराली च मनोजवा च सुलोहिता याच सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वरूपी च देवी लोलायमाना इति सप्त जिह्वाः” मुण्डकोप॰।
“तस्याः कफादि-दोषात् लक्षणादिकं भाव॰ प्र॰ दर्शितं यथा
“शाकपत्रप्रभारूक्षा स्फुटिता रसनाऽनिलात्। रक्ता श्यामा भवेत्पित्ताल्लिप्तार्द्रा धवला कफात्। परिदग्धा खरस्पर्शा कृष्णादोषत्रयेऽधिके। सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा” [Page3121-b+ 38] अस्य क्लीवत्वं भरत आह स्म। जिह्वलः। इन्द्रियप्ररत्वे तथात्वमिति तु युक्तम्।
३ वाक्ये निघण्टुः
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्वा [jihvā], 1 The tongue.
The tongue of fire i. e. a flame.
A sentence. -Comp. -आस्वादः licking, lapping. -उल्लेखनी, -उल्लेखनिका, -निर्लेखनम् a tonguescraper.
पः a dog.
a cat.
a tiger.
a leopard.
a bear. -मलम् the fur of the tongue. -मूलम् the root of the tongue. -मूलीय a. a term particularly applied to the Visarga before क् and ख् and also to ऋ and लृ and the guttural class of consonants (in gram.)-रदः a bird. -लिह् m. a dog. -लौल्यम् greediness.-शल्यः the Khadira tree.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्वा f. (= जुहू) id. RV. AV. etc. ( ifc. f( आ). MBh. iii , 16137 Hcat. )
जिह्वा f. See. ह्व.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
JIHVĀ : A servant woman who stole ornaments from the palace. For the detailed story of how she was caught with stolen goods see under Hariśarman.
_______________________________
*14th word in left half of page 356 (+offset) in original book.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्वा स्त्री.
जीभ (वध्य पशु की जीभ का एक भाग जुहू में पशु-याग के समय आहुति देने के लिए लिया जाता है), का.श्रौ.सू. 6.7.6; आप.श्रौ.सू. 7.24.2।