जीव

विकिशब्दकोशः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव, ऋ प्राणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) ऋ, अजीजिवत् अजिजीवत् । प्राणः प्राणधारणम् । जीवति लोकः । इति दुर्गादासः ॥

जीवः, पुं, (जीवनमिति । जीव + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) असुधारणम् । इत्यमरः । २ । ८ । ११९ । (यथा, हरिवंशे । १७४ । ७३ । “त्वमेष चिन्तय सखि ! नोत्तरं प्रतिभाति मे । खकार्य्ये मुह्यते लोको यथा जीवं लभाम्वहम् ॥”) (जीवतीति । जीव प्राणे + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) प्राणी । (यथा, भागवते । १ । १३ । ४४ । “अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥”) वृत्तिः । वृक्षविशेषः । (स एव महानिम्बवृक्षः । तत्पर्य्याया यथा, -- “महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः । केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) बृहस्पतिः । इति मेदिनी । वे, ८ ॥ (यथा, काशीखण्डे । १७ । ४४ । “अस्माल्लिङ्गार्च्चनान्नित्यं जीवभूतोऽसि मे यतः । अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥”) कर्णः । इति धरणी ॥ क्षेत्रज्ञः । तत्पर्य्यायः । आत्मा २ पुरुषः ३ पुद्गलः ४ अन्तर्यामी ५ ईश्वरः ६ । इति त्रिकाण्डशेषः । (यथा, भग- वद्गीतायाम् । १३ । २ टीकायां श्रीधरस्वामिपादाः । “तञ्च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व्व- क्षेत्रेष्वनुगतं मामेव विद्धि ॥”) तस्य स्वरूपं यथा, -- “कर्म्मणा जीवरूपश्च सन्ततं तत्फलप्रदः । कर्म्मरूपश्च भगवान् श्रीकृष्णः प्रकृतेः परः ॥ सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत् सति । जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एव च ॥ आत्मनः प्रतिविम्बश्च देही जीवः स एव च । प्राणदेहादिभृद्देही स जीवः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥ (तथाच भागवते । १२ । १८४ । १७ । “जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥”) वेदान्तमते घटावच्छिन्नाकाशवत् शरीरत्रित- यावच्छिन्नं चैतन्यम् । केषाञ्चिन्मते दर्पणस्थमुख- प्रतिविम्बवत् बुद्धिस्थचैतन्यप्रतिविम्बम् ॥ (जीव- यति लोकानन्तर्य्याम्यात्मकरूपेणेति । जीव + णिच् + अच् । विष्णुः । यथा, महाभारते । १३ । १५९ । ६८ । “जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ॥” जीवनविशिष्टे, त्रि । यथा, महाभारते । १२ । २८८ । २३ । “मृते वा त्वयि जीवेवा यदा भोक्ष्यति वैजनः ॥”)

जीवः, पुं क्ली, (जीव + भावे घञ् ।) जीवितम् । इति मेदिनी । वे, ९ ॥ (यथा, भागवते । १ । २ । १० । “जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्म्ममिः ॥” “जीवस्य जीवनस्य च पुनर्द्धर्म्मानुष्ठानद्वारा कर्म्मभिर्य्य इह प्रसिद्धः स्वर्गादिः सोऽर्थो न भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव पुं।

बृहस्पतिः

समानार्थक:बृहस्पति,सुराचार्य,गीष्पति,धिषण,गुरु,जीव,आङ्गिरस,वाचस्पति,चित्रशिखण्डिज

1।3।24।2।1

बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः। जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

जीव पुं।

जीवनम्

समानार्थक:जीव,असुधारण

2।8।119।2।3

प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये। पूंसि भूम्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम्.।

अवयव : पञ्चवायवः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव¦ प्राणने असुधारणे भ्वा॰ अक॰ प॰ सेट्। जीवति अजीवीत्जिजीव। ऋदित् अजिजीवत् त जीवितं जीवनम् जीवःजीविका।
“संशयं पुनरारुह्य यदि जीवति पश्यति” हितो॰
“यातः परमपि जीवेज्जीवितनाथो भवेतस्याः” [Page3125-b+ 38] सा॰ द॰
“ज्योग् जीवति” छा उ॰।
“शतं जीवन्तु शरदः” ऋ॰

१० ।

१८ ।

१ । प्राणधारणञ्च प्राणधारणोयोगोपवृत्तिधारणमपि
“नक्षत्रैर्यश्च जीवति” मनुः। करणे सक॰।
“जीवेद्वैश्यस्य जीविकाम्” मनुः। जीवेत् कुर्य्यात्अति + अतिक्रम्य जीवने सक॰।
“अत्यजीवदमरालकेश्वरौ” रघुः। अनु + पश्चाज्जीवने अनुरूपजीवने च सक॰।
“जीवन्तं त्वानु-जीवन्तु प्रजाः सर्वा युधिष्ठिर!” भा॰ उ॰

४५

३५ श्लो॰
“यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे। अद्यतामनुजीवामः” भा॰ द्रो॰

४१

१ श्लो॰। आ + वृत्तिकरणे उपभोगे च सक॰।
“आजीवन् स्वेच्छयादण्ड्यो दाप्यस्तञ्चापि सोदयम्” याज्ञ॰।
“आजीवनुप-भुञ्जानः” भिता॰।
“ययाजीवन्ति पुरुषं सर्वभूतानिसञ्जय!” भा॰ उ॰

१३

२ अ॰। उद् + उच्छ्वासने अक॰।
“उदजीवत् सुमित्राभूर्भ्राताऽश्लिष्यत्त-मायतम्” भट्टिः। प्रति + उद् + प्रतिरूपोज्जीवने। उप + आश्रित्य वर्त्तने सक॰।
“पूर्वयसे पुत्राः पितर-मुपजीवन्ति उत्तरवयसे पुत्रान् पिता” शत॰ ब्रा॰

१२ ।

२ ।

३ ।

१ ।
“शेषास्तमुपजीवेयुर्यथैव पितरं तथा” मनुः। उपजीवी उपजीव्यः।

जीव¦ पु॰ जीव--कर्त्तरि क।

१ प्राणिनि

२ जीवन्तीवृक्षे

३ वृह-स्पतौ च मेदि॰।

४ कर्णे

५ क्षेत्रज्ञे त्रिका॰। भावे घञ्।

६ असुधारणे अमरः करणे घञ्।

७ वृत्तौ आजीविकायांमेदि॰। मनुष्यादिकीटपर्यन्ते

८ प्राणिमात्रे

९ कार्य्यकारण-सङ्घाते। अनेकान्तवादिनां जीवास्तिकायसंज्ञया परि-भाषिते

१० पदार्थभेदे। त्रिविधश्चासौ अनादिसिद्धमुक्त-बद्धभेदात्। अत्रानादिसिद्धोऽर्हन् जीवास्तिकायाख्यः। व्यपेतमोहादिबन्धो मुक्तः। मोहाद्यावृतस्तु बद्ध इति।

११ उपाधिप्रविष्टे वाङ्मनःप्राणकरणग्रामानुप्रविष्टेब्रह्मणि। घटावच्छिन्नाकाशवत्शरीरत्रितयावच्छिन्ने

१२ चैतन्ये। दर्पणस्थमुखप्रतिविम्बवद् बुद्धिस्थे

१३ चैतन्य-प्रतिविम्बे।

१४ साभासाहङ्कारे चित्प्रतिविम्बे। प्राणा-दिकलापस्य

१५ धारयितरि
“प्राणान् क्षेत्रज्ञरूपेण धार-यन् जीव उच्यते” इत्यभियुक्तोक्तेः

१६ लिंङ्गदेहे।
“एवंपञ्चविधं लिङ्गं त्रिवृत् षोडश विस्तृतम्। एष चेत-नया युक्तो जीव इत्यभिधीयते” इति श्रीभानवतम्। पञ्चविधं पञ्चतन्मात्रात्मकम्। त्रिवृत् त्रिगुणम्। षोडशविकारात्मना विस्तृतमित्यनाद्यभिमानित्वेन इहलोक[Page3126-a+ 38] परलोकगामी व्यवहारिको जीव उच्यते।
“यालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयःस चानन्त्याय कल्पते” श्रुतिः।
“बालाग्रशतशोभागःकल्पितस्तु सहस्रथा। तस्यापि शतशोभागो जीवःसूक्ष्म उदाहृतः” शङ्खः।
“जीवो नाम देहादिव्यतिरि-क्तस्तत्साक्षी त्वम्पदार्थो योऽयं विज्ञानमयः योऽयं संसरतियोऽयं संसारी नतु देहादिर्जीवः तस्य दृश्यस्य द्रष्टृ-त्वानुपपत्तेः।
“अस्ति देवि! परं ब्रह्मस्वरूपी निष्कलःशिवः। सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽव्ययः। स्वयं ज्योतिरनाद्यन्तो निर्विकारः परात्परः। निर्गुणःसच्चिदान्दस्तदंशा जीवसंज्ञकाः। अनाद्यविद्योपहितायथाग्नौ विस्फुलिङ्गकाः। देवाद्युपाधिसम्भिन्नास्तेकर्मभिरनादिभिः। सुखदुःखप्रदैः पुण्यपापरूपैर्निय-न्त्रिताः। तत्तज्जातियुतं देहमायुर्भोगञ्च कर्मजम्। प्रतिजन्म प्रपद्यन्ते तेषामप्यपरं पुनः। सूक्ष्मं लिङ्ग-शरीरं तदामोक्षादक्षयं प्रिये!” कुलार्ण॰।

१७ विष्णौ,
“जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः” विष्णु॰ सह॰। तत्र वृहस्पतौ(
“जीवः सप्तनवद्विपञ्चमगतः”
“जीवार्किभानुज्येज्यानांक्षेत्राणि स्युरजादयः” ज्योति॰

१८ पुष्यनक्षत्रे च। तस्यजीवाधिष्ठातृकत्वात् तथात्वम् अश्लेषाशब्दे

४९

८ पृ॰दृश्यम्। घटसंवृत आकाशे नीयमाने यथा घटे। घटोनीवेत नाकाशं तद्वत् जीवो नभोपमः”। आर्हतमतसिद्ध-जीवभेदाश्च अर्हच्छब्दे

३८

४ पृ॰ दृश्याः। स च जीवोविभुरिति साङ्ख्यनैयायिकवैशेषिकपातञ्जलवेदान्तिनः। अणुप्ररिमाण इति रामानुजादयः। मध्यमपरिमाणःइति माध्यमिका। आत्मन्शब्दे

६७

२ पृ॰ दृश्यम्
“हन्ता-हमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि” छा॰ उ॰।
“भावनाख्यस्तुसंस्कारो जीववृत्ती त्विमौ गुणौ” भाषा॰ जीव--क

१९ जीवनयुक्ते त्रि॰।
“कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमि-शयान् बहून्। जीवानन्यांश्च सुबहूंस्तत्र किं प्रतिभातिते। धान्यवीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम!। सर्व्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते। अध्या-क्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च। वृक्षांस्तथौ-षधीश्चापि छिन्दन्ति पुरुषा द्विज!। जीवाहि बहवोब्रह्मन्! वृक्षेषु च फलेषु च। उदके बहवश्चापि तत्र किंप्रतिभाति ते। सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विज-[Page3126-b+ 38] सत्तम!। प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभातिते। चंक्रम्यमाणा जीवांश्च धरणीसंश्रितात् बहून्। पद्भ्यां घ्नन्ति नरा विप्र! तत्र किं प्रतिभाति ते। उप-विष्टाः शयानाश्च घ्नन्ति जीवाननेकशः। ज्ञानविज्ञानवन्तश्चतत्र किं प्रतिभाति ते। जीवैर्ग्रस्तमिदं सर्वमाकाशंपृथिवी तथा। अविज्ञानाच्च हिंसन्ति तत्र किं पतिभातिते। अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा। के नहिंसन्ति। जीवान् वै लोकेऽस्मिन् द्विजसत्तम!। ” भा॰व॰

२०

७ अ॰। अत्र जीवस्य हिंसा देहवियोजनम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव (ऋ) जीवृ¦ r. 1st cl. (जीवति) To live. With आङ् To use or enjoy, to get a living. With उप, To be dependent on for a living. With सं or प्र To live agreeably. भ्वा० अक० प० सेट् |

जीव¦ mfn. (-वः-वा-वं)
1. Life, the vital breath, existence. mf. (-वः-वा)
1. Livelihood, profession, specific occupation.
2. A tree: see जीवन्ती। m. (-वः)
1. The sentient soul, the emanation of the deity, which is incorporated with the animal body, and gives it life, motion and sensation; hence also called जीवात्मन्; it is opposed to that abstract state of the soul परमात्मन् in which, by meditating upon its own divine nature and origin, the spirit is set at liberty from human feelings and passions.
2. A name of VRIHASPATI.
3. A name of the prince KARNA.
4. The constellation called Pushya. f. (-वा)
1. A bow string.
2. The earth.
3. The tinkling of metallic ornaments.
4. Orris root.
5. (In Geometry.) The chord of an arc. E. जीव् to live, affix घञ् or क and fem. affix टाप्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव [jīva], a. [जीव्-कर्तरि क] Living, existing; जीवपुत्रे निवर्तस्व Rām.4.19.11; असच्च सज्जीवमजीवमन्यत् Bhāg.5.1.12.

वः The principle of life, the vital breath, life, soul; गतजीव, जीवत्याग, जीवाशा &c.

The individual or personal soul enshrined in the human body and imparting to it life, motion and sensation (called जीवात्मन् as opposed to परमात्मन् the Supreme Soul); Y.3.131; Ms.12.22-23; सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् । जीवो जीवविनिर्मुक्तो गुणैश्चाशयसंभवैः ॥ Bhāg.11.25.36. (here जीव = लिङ्गशरीर).

Life, existence.

A creature, living being.

Livelihood, profession.

N. of Karṇa.

N. of one of the Maruts.

The constellation पुष्य.

N. of Bṛihaspati.

The third lustrum in the cycle of Jupiter.

Association of cause and effect.

N. of Viṣṇu.

Comp. अन्तकः a birdcatcher, fowler.

a murderer, slayer. -अजीवाधारः the world of organic and inorganic creation. -आत्मन्m. the individual soul enshrined in the human body (as opposed to परमात्मन् 'the Supreme Soul'). -आदानम् abstracting healthy blood, bleeding (in medic.).-आधानम् preservation of life. -आधारः the heart.-इन्धनम् glowing fire-wood, burning wood. -उत्सर्गः 'casting off life,' voluntary death, suicide. -उपाधिः the three states, i. e. waking, dreaming and sleeping.-ऊर्णा the wool of a living animal. -कोशः The subtle body (लिङ्गशरीर);. तदनुस्मरणध्वस्तजीवकोशास्तमध्ययन् Bhāg. 1.82.48. -गृहम्, -मन्दिरम् 'the abode of the soul', the body. -ग्राहः a prisoner taken alive; -ग्राहम् ind. in an alive condition; जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः Mb.6.77.1. -घनः Brahmā. -ज a. born alive. -जीवः, -जीवकः (also जीवंजीवः) the Chakora bird; रक्तानि हृत्वा वासांसि जायते जीवजीवकः Ms.12.66. According to Artha- śāstra, however, it means a pheasant; विषाभ्याशे ग्लायति जीवंजीवकः । चकोरस्याक्षिणी विरज्येते Kau. A.1.2.17.-तोका a woman whose children are living.

दः a physician.

an enemy. -दशा mortal existence. -धनम् 'living wealth', property in the shape of living creatures, live-stock. -धानी the earth. -निकायः a being endowed with life. -पतिः f., -पत्नी a woman whose husband is alive. -पत्रम् a fresh leaf. -पितृ, -पितृक a. (a son or daughter) whose father is still alive.-पुत्रा, -वत्सा a woman whose son is living; जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् Rām.4.19.11. -मन्दिरम् The body; L. D. B. -मरणम् Death in life; जीवन्मरण- मेतद् इति कौटिल्यः Kau. A.1.17. -मातृका the seven mothers or female divinities; (कुमारी धनदा नन्दा विमला मङ्गला बला । पद्मा चेति च विख्याताः सप्तैता जीवमातृकाः ॥).-योनिः a sentient being. -रक्तम् menstrual blood.

लोकः the world of living beings, the world of mortals, the world or worldly existence; आलोकमर्कादिव जीवलोकः R.5.35; त्वत्प्रयाणे शान्तालोकः सर्वतो जीवलोकः Māl. 9.37; जीवलोकतिलकः प्रलीयते 21; so स्वप्नेन्द्रजालसदृशः खलु जीवलोकः Śānti.2.2; Bg.11.7; U.4.17.

living beings; दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य Ś.3.12; or आलोकमर्कादिव जीवलोकः R.5.35. -वृत्तिः f. breeding or keeping cattle. -शेष a. one to whom only life is left, escaping only with life and nothing more. -शोणितम् living, i. e. healthy blood. -संक्रमणम् transmigration of the soul. -साधनम् grain, corn. -साफल्यम् realization or attainment of the chief end of human existence.-सूः 'the mother of living beings', a woman whose children are living.

स्थानम् a joint, an articulation.

the vital parts, heart.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीव mf( आ)n. living , existing , alive RV. etc.

जीव mf( आ)n. healthy (blood) Car. viii , 6 , 74

जीव mfn. ifc. living by(See. जल-चर-, रूप-)

जीव mf( आ)n. causing to live , vivifying(See. पुत्र-, -जल)

जीव m. n. any living being , anything living RV. etc.

जीव m. life , existence MBh. iv , vi Hariv. etc. ( ifc. f( आ). Katha1s. )

जीव m. the principle of life , vital breath , the living or personal soul (as distinguished from the universal soul See. जीवा-त्मन्) RV. i , 164 , 30 ChUp. S3vetUp. Pras3nUp. Mn. etc.

जीव m. N. of a plant L.

जीव m. बृहस्पति(regent of Jupiter) VarBr2S. Laghuj. Su1ryas. Ka1s3i1Kh.

जीव m. the 3rd lustrum in the 60 years' बृहस्पतिcycle VarBr2S. viii , 26

जीव m. N. of one of the 8 मरुत्s Ya1jn5. ii , 102/103 39

जीव m. कर्णL.

जीव n. N. of a metre RPra1t. xvii , 4

जीव n. the earth L.

जीव n. a bow-string L.

जीव n. (in geom. = ज्या)the chord of an arc

जीव n. the sine of an arc Su1ryas. ii , 57 (See. त्रि-, त्रि-भ, दृग्-गति-, लम्ब-and शङ्कु-जीवा)

जीव n. N. of a plant( जीवन्तीor वचाL. ) VarBr2S. iii , 39

जीव n. the tinkling of ornaments L.

जीव n. pl. N. of a particular formula Kaus3. Vait.

जीव n. See. अति-, उप-and सं-जीव

जीव n. अ-, कुमार-, चिरं-, जगज्-, दुर्-, निर्-, पाप-, बन्धु-, स-, सु-

जीव n. ख्षुद्र-जिवा, यावज्-जीवम्

जीव n. ([ cf. बिओस्; Lat. vivus ; Lith. गीवस्; Goth. qvius ; Eng. quick ; Hib. beo.])

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is Guru planet. M. ९३. १० and १६; वा. १११. 5.
(II)--the vital प्राण; Lord lives in every creature like the आकाश, all-pervading in respective pots. वा. १०२. १०१.
"https://sa.wiktionary.org/w/index.php?title=जीव&oldid=499756" इत्यस्माद् प्रतिप्राप्तम्