जीवनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनः, पुं, (जीवयति सेवनादिना । जीव + कर्त्तरि ल्युः ।) जीवकौषधम् । वातः । इति राजनिर्घण्टः ॥ क्षुद्रफलकवृक्षः । इति शब्द- चन्द्रिका ॥ पुत्त्रः । इति हेमचन्द्रः ॥ (सर्व्वान् प्राणरूपेण जीवयतीति । जीव + णिच् + कर्त्तरि ल्युः । विष्णुः । यथा, महाभारते । १३ । १४९ । ११२ । “वीरहा रक्षणः सन्तो जीबनः पर्य्यवस्थितः ॥” शिवः । महाभारते । १३ । १७ । १२१ । “निर्जीवो जीवनो मन्त्रः शुभाज्ञो बहुकर्कशः ॥”)

"https://sa.wiktionary.org/w/index.php?title=जीवनः&oldid=136215" इत्यस्माद् प्रतिप्राप्तम्