ज्ञान

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानम्, क्ली, (ज्ञा + भावे ल्युट् ।) विशेषेण सामान्येन चावबोधः ॥ “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।” इत्यमरः । १ । ५ । ६ ॥ अस्यार्थः । “मोक्षे शिल्पे शास्त्रे च या धीः सा ज्ञानं विज्ञानञ्चोच्यते एषा विशेषप्रवृत्तिः । अन्यत्र घटपटादौ या धीः सापि ज्ञानं विज्ञान- ञ्चोच्यते एषा सामान्यप्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च यथाज्ञानान्मुक्तिरिति सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति । अन्यत्र यथा ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे इति घटत्वप्रकारकज्ञानमिति ये केचित् प्राणिनो लोके सर्व्वे विज्ञानिनो मताः इति । ब्रह्मणो नित्यविज्ञानानन्दरूपत्वादिति एवं चित्रज्ञानं व्याकरणज्ञानं घटपदविज्ञानमित्यादिकं प्रयु- ज्यत एव । मोक्षनिमित्तं शिल्पशास्त्रयोर्धी- र्ज्ञानमुच्यते तन्निमित्ततोऽन्यनिमित्तं या तयोर्धीः सा विज्ञानमिति केचित् । मोक्षविषया मोक्ष- फला धीर्ज्ञानं अन्यधीर्विज्ञानं क्वान्यत्र इत्याह शिल्पशास्त्रयोरिति केचित् । अवबोध इत्य- ध्याहृत्य मोक्षविषये अवबोधो धीः अन्यत्र घटपटादिविज्ञानं शिल्पशास्त्रविषये विज्ञान- मिति केचित् ।” इति भरतः ॥ * ॥ योगशास्त्र- मते तु । “एकत्वं बुद्धिमनसोरिन्द्रियाणाञ्च सव्वशः । आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम् ॥” इति मोक्षधर्म्मः ॥ “एकत्वं बुद्धिमात्रेणावस्थानं बुद्धिवृत्तिनिरोध इति यावत् ।” इति तट्टीका ॥ * ॥ “अमानित्वमदम्मित्वमहिंसाक्षान्तिरार्जवम् । आचार्य्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ असक्तिरनभिष्वङ्गः पुत्त्रदारगृहादिषु । नित्यञ्च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥” सात्त्विकराजसतामसभेदेन तत्त्रिविधम् । सात्विकं यथा, -- “सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥” राजसं यथा, -- “पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्वि- धान् । वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥” तामसं यथा, -- “यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम् । अतत्वार्थवदल्पञ्च तत्तामसमुदाहृतम् ॥” ३ ॥ इति श्रीभगवद्गीतायाम् । १८ । २० -- २२ ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञान नपुं।

मोक्षोपयोगिबुद्धिः

समानार्थक:ज्ञान

1।5।6।1।1

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञान¦ पु॰ विषयान् जानाति ज्ञः अनिति अनः कर्म्म॰।

१ जीवे। भावे ल्युट्।

२ बोधे न॰।

३ विशेषेण सामा-न्येन चाववोधे। वेदान्तिमते

४ षदार्थग्राहिकायां मनो-वृत्तौ, तच्च ज्ञानं नानाविधं यथा ज्ञानं द्विधा वस्तुमात्र-द्योतकं निर्विकल्पकम्। सविकल्पन्तु संज्ञादिद्योतकत्वा-दनेकधा। संकल्पसंशयम्रान्बिस्पृतिसादृश्यनिश्चयाः। ऊहोऽनध्यवसायश्च तथान्येऽनुभवा अपि”। इत्यादिभेदे-नानेकविधा भवन्तीत्यर्थः।

५ सम्यग्बोधे। न्यायमते

६ बुद्धिमात्रे
“बुद्धिस्तु द्विविधा मता। अनुभूतिः स्मृति-श्चैव” भाषा॰ तच्च प्रकारान्तरेण द्विविधं यथा
“अप्रमाच प्रमा चेति ज्ञानं द्विविधमुच्यते, तच्छून्ये तन्म-तिर्या स्यादप्रमा सा निरूपिता। तत्प्रपञ्चो विपर्य्यासःसंशयोऽपि प्रकीर्त्तितः। आद्यो देह आत्मबुद्धिःशङ्खादौ पीततामतिः। भवेन्निश्चयरूपा सा संशयोऽथप्रदर्श्यते। किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः। तदभावाऽप्रकारा धीस्तत्प्रकारा तु निश्चयः। स संशयोभवेद्या धीरेकत्राभावभावयोः। साधारणादिधर्मस्य ज्ञानंसंशयकारणम्। दोषोऽप्रमायाजनकः प्रमायास्तु गुणोभवेत्। वित्तदूरत्वादिरूपो दोषो नानाविधो मतः। प्रत्यक्षे तु विशेषेण विशेषणवता समम्। सन्निकर्षोगुणस्तु स्यादथ त्वनुमितौ गुणः। पक्षे साध्यविशिष्टे चपरामर्शोगुणो भवेत्। श्क्ये सादृश्यबुद्धिस्तु भवेदुपमितौगुणः। शाब्दबोधे योग्यतायास्तात्पर्य्यस्याथवा प्रमा। गुणः स्याद्, भ्रमभिन्नस्तु ज्ञानमत्रोच्यते प्रमा। अथ वातत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्। ज्ञानं यन्निर्विक-ल्पाख्यं तदतीन्द्रियमिष्यते। तत् प्रमा नाऽप्रमा नापिज्ञानं यन्निर्विकल्पकम्। प्रकारत्वादिशून्यं हि सम्बन्धान-वगाहि तत्” इति भाषा॰।

७ बुद्धिवृत्तिनिरोधरूपे योगे
“एकत्वं बुद्धिमनसोरिन्द्रियाणाञ्च सर्वशः। आत्मनो व्यापि-नस्तात! ज्ञानमेतदनुत्तमम्” इति भा॰ शा॰ मोक्षधर्मः। एक-त्वं बुद्धिमात्रेणावस्थानम् बुद्धिवृत्तिनिरोध इति यावत्।

८ देवताध्यानादौ

९ विवेकविज्ञाने शास्त्राचार्य्योपदेशजे पर-मात्मविषये साक्षान्मोक्षफले

१० आत्मनिश्चये तत्त्वज्ञानेवेदान्तिमते

११ जीवेश्वरजगद्भे दभ्रमाधिष्ठानभूते नित्य-स्वप्रकाशे सच्चिदानन्दरूपाद्वितीये परमार्थसत्ये,चैतन्ये। करणे ल्युट्।

१२ आत्मानात्मसर्वपदार्थाव-[Page3151-a+ 38] बोधने विवेकसामर्थ्ये।

१३ अहब्रह्मेत्युपासने। तच्चोपासनम्
“ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः। नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः। निविकारोनिराकारो निरवद्योऽहमव्ययः। नाहं देह इत्यादि। निरामयो निराभासो निर्विकल्पोऽहमाततः। नाह-मित्यादि। निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहंम-च्युतः। नाहमित्यादि। निर्भलो निश्चलोऽनन्तः शुद्धोऽह-मजरोऽमरः। नाहमित्यादि। वेदान्तशास्त्रोक्तं बोध्यम।

१४ शब्दयुक्तिभ्यामात्मनिश्चये।
“अमानित्वमदम्भित्वमहिंसाक्षान्तिरार्जवम्। आचार्य्यापामन शौचं स्थैर्य्यमात्म-विनिग्रहः। इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदःखदोषानुदर्शनम्। असक्तिर-नभिष्वङ्गः पुत्रदारगृहादिषु। नत्यञ्च समचित्तत्वमि-ष्टानिष्टोपपत्तिषु। मयि चानन्ययोगेन भक्तिरव्यभि-चारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि। अध्या-त्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतजज्ञानमितिप्रोक्तमज्ञानं यदतोऽन्यथा” इति गोताक्तार्थेषु

१५ ज्ञानसा-धनेषु। तच्च सात्त्विकादिभेदात् त्रिविधम्। यथा
“सर्व-भूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषुतज-ज्ञानं बिद्धि सात्त्विकम्”। (सात्त्विकं सर्वसंसारोच्छित्ति-कारणम्)।
“पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञान विद्धि राज-सम्। यत्तु कृतस्तवदेकस्मिन् कार्य्ये सक्तमहेतु-कम्। अतत्त्वार्थवदल्पञ्च तत् तामसमुदाहृतम्”। (राजसं तामसञ्च संसारकारणम्)। आत्मनःश्रवणमननाभ्यां परिनिष्पन्ने प्रमाणजन्यचतोवृत्त्यभि-व्यक्तसच्चिद्रूप

१६ परमात्मज्ञानसाधनशास्त्रादात्मतत्त्वस्याव-गमे आत्मसाक्षात्कारे
“लोकवासनया जन्तोः शास्त्र-वासनयापि च। देहवासनया ज्ञानं यथावन्नैव जायते। ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः”
“यथादशत-लप्रख्ये पश्यत्यात्मानमात्मनि” इति ब्रह्मसाक्षात्काररूप-ज्ञानहेतुरुक्तः।

१७ साङ्गवेदतदर्थविषयेऽवबोधे। महावा-क्यजन्याखण्डाकारायां

१८ बुद्धिवृत्तौ

१९ स्वस्वरूपस्फुरणे। सांख्यमते गुणपुरुषान्यताख्यातिरूपे

२० अध्यवसाये। ज्ञायतेऽनेन। ज्ञा--करणे ल्युट्।

२१ वेदे

२२ शास्त्रादौ च। तत्र प्रत्यक्षज्ञानोत्पत्तिप्रकारो मतभेदेन निरूप्यते। तत्रनैयायिकैः
“आत्मा मनसा युज्यते मन इन्द्रियेणैन्द्रियंविषयेण तस्मादध्यक्षम्” इत्युक्त दिशा प्रत्यक्षं जायते। [Page3151-b+ 38] व्याप्तिज्ञानपरामर्शोत्तरमनुमितिर्जायते। वृत्तिज्ञानसहकृ-तपदज्ञानजन्यपदाथौपस्थितौ शाब्दबोधो जायते। गवादौगोसादृश्यज्ञानेन गोसदृशो गवय इत्यादिना अतिदिष्ट-वाक्यार्थस्य स्मृतौ गवयो गवयवाच्य इत्यादि रीत्या उप-मितिज्ञानं जायते इत्यङ्गीकृतम्। केचित् बौद्धमेदाःबाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतयावभास इत्यङ्गी-चक्रुः” यथोक्तं सर्वद॰ स॰(
“बाह्यं ग्राह्यं नोपपद्यत एव विकल्पानुपपत्तेः। अर्थोज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, नपूर्वः उत्पन्नस्य स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात्। अथ मन्येथाः अतीत एवार्थोज्ञानग्राह्यः तज्जनकत्वादितितदपि बालभाषितं वर्त्तमानतावभासविरोधात् इन्द्रिया-देरपि ग्राह्यत्वप्रसङ्गाच्च। किञ्च ग्राह्यः किं परमाणुरूपो-ऽर्थः अवयविरूपो वा। न चरमः कृत्स्रैकदेशविकल्पा-दिना तन्निराकरणात्। न प्रथमः अतीन्द्रियत्वात् षट्केनयुगपद्योगस्य बाधकत्वाच्च। यथोक्तम्
“षट्केन युगप-द्योगात् परमाणोः षडं शता। तेषामप्येकदेशत्वे पिण्डः-स्यादनुमात्रकः” इति। तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्त-दात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदितिसिद्धम। तदुक्तम्
“नान्योऽनुभाव्यो बुद्ध्यास्ति तस्यानाञनवोऽपरः। ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रका-शते” इति। ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यतयेन वेदनेन, तत्ततो न भिद्यते यथा ज्ञानेनात्म, वेद्यन्तेतैश्चनीलादयः। भेदे हि सत्यधुना अनेनार्थस्य सम्ब-न्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्ते-रनियामकत्वात् यश्चायं ग्राह्यग्राहकसम्वित्तीनां पृथगव-भासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः। अत्राप्यनादिरविच्छिन्नप्रवाहा भेदवासनैव निमित्तम्। यथोक्तम्
“सहोपलम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रन्तिवि-ज्ञानैर्दृश्ये तेन्दाविबाद्वय” इति।
“अविभागोऽपि बुद्ध्यात्माविपर्य्यासितदर्शनैः। ग्राह्यग्राहकसम्वित्तिभेदवानिवलक्ष्यते” न च रसवीर्य्यविपाकादिसमानमाशामोद-कोपार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्ययेद-काकारविधुराया अपि बुद्धेर्व्यवहर्त्परिज्ञानानुरोधेनविभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपह-ताक्ष्णां केशेन्द्रनाडीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्या-द्व्यवस्थोपपत्तेः पर्य्यनुयोगायोगात। यथोक्तम्
“अवेद्य-वेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते। विभक्तलक्षणग्राह्य-[Page3152-a+ 38] ग्राहकाकारविप्लवा। तथा कृतव्ययस्थेयं केशादिज्ञानभे-दवत्। यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति”। तस्मादुबुद्धिरेवानादिवासनावशादनेकाकारावभासत इति” सिद्धम्। ”( तदेतन्मतं बौद्धविशेषैर्निराकृतं तदपि तत्रैवोक्तं यथा।
“अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तुजातं नास्तोतितदयुक्तं प्रमाणाभावात्। न च सहोपलम्भनियमःप्रमाणमिति वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभि-मतस्य तस्याप्रयोजकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात्। ननु भेदे सहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्नज्ञानस्यान्तर्मुखतया भेदेन प्रतिभासमानतया एकदेश-त्वैककालत्वलक्षणसहत्वनियमासम्भवाच्च नीलाद्यर्थस्यज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमितिप्रतिपत्तिः प्रत्ययादव्यतिरेकात्। अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति नच तत्राहमुल्लेख इति। यथोक्तम्” परिच्छेदान्तराद्योऽयंभागो बहिरिव स्थितः। ज्ञानस्याभेदिनो भेदपतिभासो-ऽप्युपप्लव” इति
“यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासत” इतिच। तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततया बहि-र्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवद-वभासत इति प्रेक्षावानाचक्षीत। भेदप्रतिभासस्य भ्रा-न्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेद-प्रतिभासस्य भ्रान्तत्वमिति परस्पराश्रयप्रसङ्गाच्च। अविसंवा-दान्नीलतादिकमेव संविदाना वाह्यमेवोपाददते जगत्युपे-क्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च। एवञ्चायमभेदबाधकोहेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतोबहि-र्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमिति भव-दीय एव वाणो भवन्तं प्रहरेत्। ”
“ननु ज्ञानाभिन्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत्तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञानेस्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानु-श्रेयतोपपत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहि-धाताम्
“भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतांविदुः। हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति”। तथा च यथा पुष्ट्या भोजनमनुभीयते यथा च भाषयादेशः, यथा वा सम्भ्रमेण स्नेहः, तथा ज्ञानाकारेण ज्ञेत-मनुमेयम्। तदुक्तम्
“अर्द्धेन घटयत्येनां न हि सुक्त्रा-र्द्धरूपताम्। तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूप-[Page3152-b+ 38] तेति”। न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्व-त्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं धटये-दिति च। तथाच बाह्यार्थसद्भावे प्रयोगः ये यस्मिन्सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः यथाअविवक्षति, अजिगमिषति मयि वचनगमनप्रतिभासाविवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथा च विवा-दाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचि-देव नीलाद्युल्लेखना इति। तत्रालयविज्ञानं नामाहमा-स्पदं विज्ञानं नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम्। यथो-क्तम्
“तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम्। तत्स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेदिति”। तस्मादा-लयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहे-तुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययःकादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम्। ”( वेदान्तिमते।
“बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतोघटम्। तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” इत्युक्तरीत्या प्रत्यक्षस्थले इन्द्रियादिप्रणाल्या अन्तःकरस्यविषयदेशगत्या तदाकारेण षरिणामरूपवृत्तौ सत्यां विष-यगताज्ञाननाशे अन्तःकरणवृत्त्यवच्छिन्नचैतन्येन विषय-स्फुरणरूपं पौरुषेयज्ञानं ज्ञायते। वृत्तिरूपज्ञानन्तु मनोधर्म इति भेदः। यथोक्तं वेदा॰ प॰

१ परिच्छेदे
“यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयाकारेण परि-णमते। स एव परिणामो वृत्तिरित्युच्यते। अनुमित्यादिस्थले तु अन्तःकरणस्य न वह्न्यादिदेशगमनं वह्न्यादेश्चक्षु-राद्यसन्निकर्षात् तथा चायं घट इत्यादिप्रत्यक्षथले घटा-देस्तदाकारवृत्तेश्च वहिरेकत्र देशे समवस्थानात् तदुभया-वच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तःकरणवृत्तिघटा-दिविषययोरेकदेशस्थितत्वेन भेदाजनकत्वात्। ” प्रत्यक्षेऽन्तःकरणवृत्तेः फलभेदस्तत्रैव

७ परि॰ दर्शितो यथा(
“सा चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं प्रतम्। तथाहि अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधि-ष्ठानचैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभान-प्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापर-तन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम्। एवं सति न सर्वदाघटादेर्भानप्रसङ्गः अनाघृतचैतन्यसम्बन्धस्यैव भानप्रयो-जकत्वात्। तस्य चावरणस्य सदातनत्वे कदाचिदपि[Page3153-a+ 38] चटभानं न स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं नचैतन्यमात्रं तद्भासकस्य तदनिवर्तकत्वात् नापि वृत्त्युप-हितचैतन्य परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्ष-व्यावृत्तवृत्तिविशेषस्य तदुपहितचैतन्यस्य वा आवरणभञ्जकत्वमित्यावरणाभिभवार्था वृत्तिरुच्यते। सम्बन्धार्थावृत्तिरित्यप्रं मतम्। तत्राविद्योपाधिकोजीवोऽपरि-च्छिन्नः स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारा-परोक्षवृत्तिविरहदशायां न घटाटिकमवभासयति घटा-दिना समं सम्बन्धाभावात् तत्तदाकारवृत्तिदशायां तुभासयति तदा सम्बन्धसत्त्वात्। ननु अविद्योपाधिकस्यजीवस्यापरिच्छिन्नस्य स्वतएव समस्तवस्तुसम्बद्धस्य वृत्ति-विरहदशायां सम्बन्धाभावाभिधानमसङ्गतम् असङ्गतत्वदृष्ट्या सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धोन स्यादिति चेत् उच्यते न हि वृत्तिविरहदशायांजीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामःकिन्तर्हि घटादिभानप्रयोजकं सम्बन्धविशेषम्। स चसम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्यव्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः। तथा हितैजसमन्तःकरणं खच्छद्रव्यत्वात् स्वतएव जीवचैतन्याभि-व्यञ्जनसमर्थं, घटादिकन्तु न तथा अस्वच्छद्रव्यत्वात्। खाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्यधर्मकतयावृत्त्युत्पादितचैतन्याभिव्यञ्जनयोग्यताश्रयतया च वृत्त्यु-दयानन्तरं चैतन्यमभिव्यनक्ति। तदुक्तं विवरणे
“अन्तः-करणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्या-भिव्यक्तियोग्यतामापादयतीति”। दृष्टञ्चास्वच्छद्रव्यस्यापिस्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वं यथा कुद्यादे-र्जलादिसंयोगदशायां मुखादिप्रतिविम्बग्राहिता। घटा-देरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बगृअहित्वं चैतन्यस्याभिव्यक्त-त्वञ्च तत्र प्रतिविम्बितत्वम्। एवंविधाभिव्यञ्जकत्वसिद्ध्य-र्थमेतदुवृत्तेरपरोक्षस्थले वहिर्निर्गमनाङ्गीकारः। परोक्ष-स्थले तु वह्न्यादेर्वृत्तिसंयोगाभावेन चैतन्यानभिव्यञ्जक-तया नापरोक्षत्वम्। ”( सांख्यादिमते अर्थाकारेण परिणताया वुद्धिवृत्तेश्चेतनेप्रतिविम्बनात् विषयप्र्काशरूपं ज्ञानम्। तत्र पौरुषेय-बोधे वृत्तिः करणं, वृत्तिरूपज्ञाने च इन्द्रियादिकरणमितिभेदः। यथोक्तं सा॰ प्र॰ सू॰ भाष्ययोः।
“द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा तत्सा-धकतमं यत् तत् त्रिविधं प्रमाणम्। ” सू॰
“असन्निकृष्टः[Page3153-b+ 38] प्रभातर्यनारूढोऽनधिगत इति यावत्। एवंभूतस्यार्थस्यवस्तुनः परिच्छित्तिरवधारणं प्रमा सा च द्वयोर्बुद्धिपुरु-षयोरुभयोरेव धर्मो भवतु। किं वैकतरमात्रस्योभयथैवतस्याः प्रमाया यत् साधकतमं फलायोगव्यवच्छिन्नं कारणंतत्प्रमाणं तच्च त्रिविधं वक्ष्यमाणरूपेणेत्यर्थः। स्मृतिव्या-वर्तनायानधिगतेति। भ्रमव्यावर्तनाय वस्त्विति। संशय-व्यावत्तनाय त्ववध्रणमिति। अत्र यदि प्रमारूपं फलंपुरुषनिष्ठमात्रमुच्यते तदा बुद्धिवृत्तिरेव प्रमाणम्। यदिच बुद्धिनिष्ठमात्रमुच्यते तदा तूक्तेन्द्रियसन्निकर्षादिरेवप्रमाणम्। पुरुषस्तु प्रमासाक्ष्येव न प्रमातेति। यदि चपौरुषेयबोधो बुद्धिवृत्तिश्चोभयमपि प्रमोच्यते तदा तूक्त-मुभयमेव प्रमाभेदेन प्रमाणं भवति। चक्षुरादिषु तुप्रमाणव्यवहारः परम्परयैव सर्वथेति भावः। पातञ्जल-भास्ये तु व्यासदेवैः पुरुषनिष्ठो बोधः प्रमेत्युक्तः पुरुषा-र्थमेव करणानां प्रवृत्त्या फलस्य पुरुषनिष्ठताया एवौ-चित्यात्। अतोऽत्रापि स एव मुख्यः सिद्धान्तः। न चपुरुषबोधस्वरूपस्य नित्यतया कथं फलत्वमिति वाच्यम्केवलस्य नित्यत्वेऽप्यर्थोपरागस्यैव फलत्वादिति। अत्रेयं प्रक्रिया। इन्द्रियप्रणालिकयार्थसन्निर्षेण लिङ्ग-ज्ञानादिना वादौ बुद्धेरर्थाकारा वृत्तिर्जायते तत्र चेन्द्रि-यसन्निकर्षजा प्रत्यक्षा वृत्तिरिन्द्रियविशिष्टबुद्ध्याश्रिता नय-नादिगतपित्तादिदोषैः पित्ताद्याकारवृत्त्युदयादिति विशेषः। सा च वृत्तिरर्थोपरक्ता प्रतिविम्बरूपेण पुरुषारूढा सतीभासते पुरुषस्यापरिणामितया बुद्धिवत् स्वतोऽर्थाकारत्वा-सम्भवात्। अर्थाकारताया एव चार्थग्रहणत्वात् अन्यस्यदुर्वचत्वादिति। तदेतद्वक्ष्यति
“कुसुमवच्च मणिः” जपा-स्फटिकयोरिव नोपरागः किन्त्वभिमान इति। योगसूत्रंच
“वृत्तिसारूप्यमितरत्रेति”। स्मृतिरपि।
“तस्मिंश्चिद्दर्पणेस्फारे समस्ता वस्तुदृष्टयः। इमास्ताः प्रतिविम्बन्तिसरसीव तटद्रुमाः” इति। योगभाष्यञ्च
“बुद्धेः प्रति-संवेदी पुरुष” इति प्रतिध्वनिवत् प्रतिसंवेदः संवेदन-प्रतिविम्बस्तस्याश्रय इत्यर्थः। एतेन पुरुषाणां कूट-स्थविभुचिद्रूपत्वेऽपि न सर्वदा सर्वाभासनप्रसङ्गःअसङ्गतस्य स्वतोऽर्थाकारत्वाभावात्। अर्थाकारतांविना च संयोगमात्रेणार्थग्रहणस्यातीन्द्रियादिस्थलेबुद्धावदृष्टत्वादिति। पुरुषे च स्वस्वबुद्धिवृत्तीनामेवप्रतिविम्बार्पणसामर्थ्यमिति फलवलात् कल्प्यते। यथारूपवतामेव जलादिषु प्रतिविम्बनसामर्थ्यं नेतरस्येति। [Page3154-a+ 38] रूपवत्त्वं च न सामान्यतः प्रतिविम्बप्रयोजकं शब्द-स्यापि प्रतिध्वनिरूपप्रतिविम्बदर्शनात्। न च शब्द-जन्यं शब्दान्तरमेव प्रतिध्वनिरिति वाच्यं स्फटिकलौ-हित्यादेरपि जपासन्निकर्षजन्यतापत्त्या प्रतिविम्ब-मिथ्यात्वसिद्धान्तक्षतेरिति। प्रतिविम्बश्च बद्धेरेव परि-णामविशेषो विम्बाकारो जलादिगत इति मन्तव्यम्। केचित् तु वृत्तौ प्रतिविम्बतं सदेव चैतन्यं वृत्तिंप्रकाशयति तथा वृत्तिगतप्रतिविम्ब एव वृत्तौ चैतन्य-विषयता न तु चैतन्ये वृत्तिप्रतिविम्बोऽस्तीत्याहुः। तदसत् उपदर्शितशास्त्रविरोधेन केवलतर्कस्याप्रयो-जकत्वात् विनिगमनाविरहेण वृत्तिचैतन्ययोरन्योन्य-विषयताख्यसम्बन्धरूपतयान्योन्यस्मिन्नन्योन्यप्रतिबिम्बसि-द्धेश्च। बाह्यस्थलेऽर्थाकारताया एव विषयतारूपत्वसिद्ध्या-न्तरेऽपि तत्तदर्थाकारताया एव विषयतात्वौचित्या-च्चेति। ये तु तार्किका ज्ञानस्य विषयतां नेच्छन्ति तन्मतेज्ञानव्यक्तीनामनुगमकधर्माभावेन घटविषयकं पटविषयकंज्ञानमित्याद्यनुगतव्यवहारानुपपत्तिः। केचित् तु ता-र्किका अनयैवानुपपत्त्या विषयतामतिरिक्तपदार्थमाहुः। तदप्यसत् अनुभूयमानानामर्थाकारतां विहाय विषय-तान्तरकल्पने गौरवादिति। ननु तथापि स्वस्वोपाधि-वृत्तिरूपैव वृत्तिचैतन्ययोरन्योन्यविषयतास्तु स्वोपाधि-वृत्तित्वेनैवानुगमादलमाकाराख्यप्रतिविम्बद्वयेनेति चेन्नप्रतिविम्बं विना स्वत्वस्यापि दुर्वचत्वात्। स्वत्वं हिस्वभुक्तवृत्तिवासनावत्त्वम्। भोगश्च ज्ञानम्। तथाच विषयतालक्षणम्य विषयसामग्रीधटितत्वेजात्मश्रयः। तस्मादचैतन्यचैतन्ययोरन्योन्यविषयतारूपोऽन्योन्यस्मिन्न-न्योन्यप्रतिविम्बः सिद्धः। अधिकन्तु योगवार्त्तिके द्रष्टव्य-मिति दिक्। अत्रायं प्रमात्रादिविभागः।
“प्रमाताचेतनः शुद्धः प्रमाणं वृत्तिरेव नः। प्रमार्थाकारवृत्तीनांचेतने प्रतिविम्बनम्। प्रतिविम्बितवृत्तीनां विषयो मेयउच्यते। साक्षाद्दर्शनरूपं च साक्षित्वं वक्ष्यति स्वयम्। अतः स्यात् कारणाभावाद्वुत्तेः साक्ष्येव चेतनः। विप्ण्वादेः सर्वसाक्षित्वं गौणं लिङ्गाद्यभावतः। ”
“ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे” देवीमा॰।
“कपाये कर्मभिः पक्वे ततो ज्ञानं प्रजायते” वेदा॰।

२४ पर-ब्रह्मणि च
“सत्थं ज्ञानमानन्दं ब्रह्म” श्रुतिः।

२५ विष्णौ
“सर्वज्ञः ज्ञानमुत्तयम्” विष्णु स॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञान¦ n. (-नं)
1. Knowledge in general.
2. Knowledge of a specific and religious kind, that which is derived from meditation, and the study of philosophy, which teaches man the devine nature and origin of his immaterial part, with the unreality of corporal en- joyments or worldly forms, and which, separating him during life from terrestrial objects, secures him, after death, a final eman- cipation from existence, and reunion with the universal spirit.
3. Cognizance, conscionsness.
4. The organ of intelligence, sense.
5. Learning. E. ज्ञा to know, aff. भावे ल्युट्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानम् [jñānam], [ज्ञा-भावे ल्युट्]

Knowing, understanding, becoming acquainted with, proficiency; सांख्यस्य योगस्य च ज्ञानम् Māl.1.7.

Knowledge, learning; तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञानेन शुध्यति Mb.12.24.2; बुद्धिर्ज्ञानेन शुध्यति Ms.5.19; ज्ञाने मौनं क्षमा शत्रौ R.1.22.

Consciousness, cognizance, knowledge; ज्ञानतो$ज्ञानतो वापि Ms.8.288 knowingly or unknowingly, consciously or unconsciously.

Sacred knowledge; especially, knowledge derived from meditation on the higher truths of religion and philosophy which teaches man how to understand his own nature and how he may be reunited to the Supreme Spirit (opp. कर्मन्); cf. ज्ञानयोग and कर्मयोग in Bg.3.3.

The organ of intelligence, sense, intellect; कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत Mb.12.54.18.

Conscience.

The Supreme spirit.

An epithet of Viṣṇu.

The Vedas taken collectively.

Means of knowing; औत्पक्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्˚ । MS.1.1.5.

An opinion, a view; बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते Mb.5.4.3. -Comp. -अग्निः knowledge-fire; ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते$र्जन Bg.4.37. -अनुत्पादः ignorance, folly. -अपोहः forgetfulness.

अभ्यासः study.

thinking, reflection. -आत्मन् a. all wise. -इन्द्रियम् an organ of perception; (these are five त्वच्, रसना, चक्षुस्, कर्ण and घ्राण- the skin, tongue, eye, ear and nose; see बुद्धीन्द्रिय under इन्द्रिय). -काण्डम् that inner or esoteric portion of Veda which refers to true spiritual knowledge, or knowledge of the Supreme spirit, as distinguished from the knowledge of ceremonial rites (opp. कर्मकाण्ड). -कृत a. done knowingly or intentionally. -गम्य a. attainable by the understanding. -घन m. pure or mere knowledge; निर्विशेषाय साम्याय नमो ज्ञानघनाय च Bhāg.8.3.12; तं त्वामहं ज्ञानघनं...कथं...परिभावयामि ibid 9.8.24. -चक्षुस् n. the eye of intelligence, the mind's eye, intellectual vision (opp. चर्मचक्षुस्); सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा Ms.2.8;4.24. (-m.) a wise and learned man.-तत्त्वम् true knowledge, knowledge of God. -तपस् n. penance consisting in the acquisition of true knowledge.-दः a preceptor. -दा an epithet of Sarasvatī. -दुर्बल a. wanting in knowledge. -निश्चयः certainty, ascertainment. -निष्ठ a. intent on acquiring true (spiritual) knowledge; ज्ञानिनिष्ठा द्विजाः केचित् Ms.3.134.

पतिः the Supreme spirit.

a teacher, preceptor. -पूर्व a. preceded by knowledge, well-considered; निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते Ms.12.89. -बोधिनी f. N. of a Vedāntic treatise. -मुद्र a. 'having the impress of wisdom', wise.-मूल a. founded on spiritual knowledge. -यज्ञः a man possessed of true or spiritual knowledge, philosopher.-योगः contemplation as the principal means of, attaining the Supreme spirit or acquiring true or spiritual knowledge; ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनाम् Bg.3.3.

लक्षणम्, णा indication, sign, a means of knowing or inferring.

(in logic) sign or proof of knowledge; subsequent derived from antecedent knowledge.

विज्ञानम् sacred and miscellaneous knowledge; तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिनाMs.18.41.

the Vedas with the supplementary branches of knowledge, such as medicine, arms &c. -वृद्ध advanced in knowledge; ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः Rām.2.45.8. -शास्त्रम् the science of fortune-telling.

साधनम् a means of acquiring true or spiritual knowledge.

an organ of perception.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञान n. knowing , becoming acquainted with , knowledge , ( esp. ) the higher knowledge (derived from meditation on the one Universal Spirit) S3a1n3khS3r. xiii Gobh. Mn. etc.

ज्ञान n. " knowledge about anything cognizance "See. -तस्and अ-( ज्ञानाद्अ-ज्ञानाद्वा, knowingly or ignorantly , xi , 233 )

ज्ञान n. conscience MBh.

ज्ञान n. = ने-न्द्रियKat2hUp. vi , 10

ज्ञान n. engaging in( gen. e.g. सर्पिषस्, " in sacrifice with clarified butter ") Pa1n2. 2-2 , 10 Va1rtt. Pat.

ज्ञान n. N. of a शक्तिRasik. xiv , 36 Ra1matUp. i , 90 Sch.

"https://sa.wiktionary.org/w/index.php?title=ज्ञान&oldid=454322" इत्यस्माद् पुनः प्राप्तिः