ज्ञानलक्षणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानलक्षणा स्त्री, (ज्ञानं लक्षणं स्वरूपं यस्याः ।) त्रिविधालौकिकसन्निकर्षान्तर्गतसन्निकर्षः । तस्य लक्षणं यथा, -- “विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ॥” इति भाषापरिच्छेदे । ६५ ॥ अस्यार्थः । “तद्बिषयज्ञापकतद्बिषयज्ञानम् । यथा पूर्ब्बे घटादिज्ञाने सति पश्चात् घटादिज्ञानम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानलक्षणा¦ स्त्री ज्ञानं ज्ञानभेदो लक्षणं स्वरूपं यस्याः। न्यायमते अलौकिकप्रत्यक्षसाधने सन्निकर्षभेदे उपनय-शब्दे

१२

१५ पृ॰ विवृतिः। मथुरानाथेन तु अन्यथैवसामान्यलक्षणाज्ञानलक्षणयोर्भेदो दर्शितः यथा
“न च सामान्यप्रकारकज्ञानस्यैव सामान्यलक्षणात्वे ज्ञान-लक्षणासाभान्यलक्षणयोः कार्य्य कारणभावे को भेदः इतिवाच्यं कारणतावच्छेदकभेदेन कार्य्यतावच्छेदकभेदेनच भेदात्। सामान्यलक्षणायाः कार्य्यकारणभावास्तुतत्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताशालिज्ञानत्वेन, स्व-रूपतस्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्सम्ब-न्धावच्छिन्नघटत्वाद्याश्रयताशालिमुख्यविशेष्यकप्रत्यक्षत्वेन,यावत्त्वस्य कार्य्यतावच्छेदकाघटकत्वेऽपि विनिगमना-विरहेण सकलघटभानम्। समवायसम्बन्धेन घटत्व-प्रकारकज्ञानानन्तरं कालिकादिसम्बन्धेन घटत्वादिप्रका-रकनिखिलघटविषयकप्रत्यक्षस्य समवायसम्बन्धेन घटत्व-प्रकारेण घटत्ववतः कालादेः प्रत्यक्षस्य च वारणायसम्बन्धान्तर्भावः। घटत्वादिप्रकारकज्ञानं विनापि द्रव्यत्वादिसामान्यलक्षणया जायमाने द्रव्यत्वादिप्रकारकघटादिमुख्यविशेष्यकप्रत्यक्षे व्याभचारवारणाय कार्य्यता-वच्छेदके घटत्वादिप्रकारिताकेति। प्रकारित्वञ्चालौकिकंग्राह्यं तेन घटत्वादिपकारकज्ञानं विनापि द्रव्यत्वादि-विशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकोत्तरं द्रव्यत्वसामान्यलक्षणया जायमाने यावद्घटविशेष्यकप्रत्यक्षे-ऽलौकिकसन्निकर्षमर्य्यादया घटत्वप्रकारकं ग व्यभिचारः। न च तथापि कालिकादिसम्बन्धेन स्वरूपतो घटत्वादि-प्रकारकतुद्ध्यात्मकगवादिविशेष्यकसमवायसंसर्गकद्रव्यत्व-[Page3155-b+ 38] प्रकारकस्मरणोत्तरं द्रव्यत्वसामान्यलक्षणया जाय-माने याबद्धटमुख्यविशेष्यकप्रत्यक्षे उपनयमर्य्यादयासमवायसम्बन्धेन स्वरूपती घटत्वप्रकारके व्यभिचारइति वाच्यम्। यथोक्तकार्य्यकारणभावस्यैव बाधक-त्वेन तत्र समवायसम्बन्धेन घटत्वस्याप्रकारत्वात्। घटत्वप्रकारकज्ञानं विनाऽपि जातित्वरूपेण गोत्वादि-जात्यन्तरप्रकारकज्ञानाद् जायमाने जातिस्वरूपेण घट-त्वादिनिखिलजातिप्रकारकनिखिलजात्याश्रयप्रत्यक्षे व्य-भिचारवारणाय स्वरूपत इति घटत्वादिप्रकारि-ताविशेषणं यथोक्तकार्यकारणभावस्यैव बाधकत्वेन तत्रकथञ्चिदपि स्वरूपतो घटत्वादेरप्रकारत्वात्। कालिक-सम्बन्धेन स्वरूपतो घटत्वादिप्रकारकस्मरणादितो जाय-माने विशेष्ये विशेषणमिति रोत्या समवायसम्बन्धे न घटा-दिप्रकारकधटवदित्याद्युपनीतभाने व्यभिचारवारणायमुख्यविशेष्यत्वप्रवेशः। उपनीतभाने च घटो न मुख्यविशेष्यःबहिरिन्द्रियस्थले उपनीतं विशेषणतया भासते इति नि-यमात्। मुख्यविशेष्यत्वमप्यलौकिकं ग्राह्यं तेन कालि-कसम्बन्धेन स्वरूपतो घटत्वादिस्मरणलौकिकसन्निकर्षाभ्यांजायमाने लौकिकालौकिकोभयघटत्वप्रकारिताशाल्ययंघट इति घटमुख्यविशेष्यकलौकिकप्रत्यक्षे न व्यभिचारः। अथ तथापि कालिकसम्बन्धेन स्वरूपतो घटत्वप्रकारक-स्मरणाज्जायमाने समवायसम्बन्धेन घटत्वप्रकारकमुख्यवि-शेष्यकमानसोपनीतभाने व्यभिचारो मानसोपनीतं विशेष-णतयैव भासत इति नियमाभावात् तत्र कालिकसम्बन्धेनघटत्वप्रकारेण प्रत्यक्षं न तु समवायसम्बन्धेन घटत्वप्रका-रकमित्युक्तावपि घटवदिति घटादिस्मरणोत्तरं जायमानेपरम्परासम्बन्धेन घटत्वप्रकारकमानसोपनोतभाने व्यभि-चारो दुर्वारः तदनभ्युपगमे तादृशस्मरणोत्तरं निखिल-घटाश्रयसाक्षात्कारानुपपत्तेः द्रव्यत्वप्रकारकज्ञानस्याऽप्र-त्यासत्तित्वात् इति चेन्न लाघवात् यथोक्तरूपेण कार्य-कारणभावकल्पने यथोक्तमानसे घटादिर्न मुख्यविशेष्यःकिन्तु चक्रव्यूहवत् घटत्वपुटितो भवन्नेव भासत इत्येवकल्प्यते यथोक्तकार्य्यकारणभावस्यैव बाधकत्वात् तत्तदुप-नीतभानान्यत्वप्रवेशे गौरवात् सर्वत्रैव मानसोपनीतभानेउपनीतं अवश्यं मुख्यविशेष्यतया भासते इति नियमा-भावात्। असति बाधक एव मानसोपनीतस्य प्रकारत्व-विशेष्यत्वलक्षणद्विविधविषयत्वाभ्युपगमात्। एवं स्वण्ठ-शो दण्डपुरुषोभयविषयकसमूहालम्बनस्मरणानन्तरं जा-[Page3156-a+ 38] यमाने दण्डप्रकारकदण्डाश्रयप्रत्यक्षेऽपि पुरुषो न दण्डांशेमुख्यविशेषतया भासते अपि तु चक्रव्यूहवत् दण्ड-पुटितः पुरुषः पुरुषपुटितश्च दण्डो भसते इति कल्प्यते। न च तथापि योगजधर्माधीनविशिष्टज्ञानं प्रति विशेषण-ज्ञानस्याहेतुत्वनये सामान्यज्ञानं विनाऽपि जायमाने सामा-ष्यप्रकारकसामान्याश्रयमुख्यविशेष्यकप्रत्यक्षे व्यभिचारः। गोन्धजविशिष्टज्ञानं प्रति विशेषणज्ञानस्य हेतुत्वनयेऽपिधोनजधर्मेण सामान्यतदाश्रये उभयविषयकनिर्विकल्पकंत्त्वनयित्वा जनिते सामान्यप्रकारकभामान्याश्रयमुख्यवि-शेष्यकप्रत्यक्षे व्यभिचार इति वाच्यं योगजधर्मजन्यता-वच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्षविशेषणात्। ता-दृशयोगजज्ञाने सामान्याश्रयमुख्यविशेष्यतया भानेमानाभावाच्च। अपि च चक्रव्यूहवत् स्वप्रकारीभूतसा-मान्ये प्रकारीभूयैव भासते लाथवात्तथैव कल्पनात्। अतएव कालिकादिसम्बन्धेन स्वरूपतो घटत्वस्मरणानन्तरंविशेष्ये विशेषणमिति रीत्या कालिकादिसम्बन्धेनैवघटत्वप्रकारकं घटवदित्याकारकोपनीतभानं जायते न तुसमवायसम्बन्धेन घटत्वप्रकारकैत्युक्तावेव व्यभिचार-वारणस्सम्भवात् किं जात्यादिसामान्यलक्षणायाः कार्य-तावच्छेदके स्वरूपतः प्रकारताघटितमुख्यविशेष्यत्व-प्रवेशेन। न च तथाप्यत्र घटत्वमिति घटत्वविशेष्यकस्मर-णोत्तरं जायमाने विशेष्ये विशेषणमिति रीत्या घट-वदिदमित्याद्युपनीतभाने व्यभिचारवारणाय तदवश्यंनिवेशनीयमिति वाच्यं स्वरूपतो घटत्वविशिष्टबुद्धिं प्रति-स्वरूपतो विशेषणीभूतघटत्वविषयकज्ञानस्य हेतुतयातादृशस्मरणोत्तरं तादृशोपनीतभानासम्भवात् घटत्वत्व-घटकतयैव स्वरूपतो घटत्वज्ञानाभ्यु पगमेन व्यभिचार-स्यापि विरहादित्यस्मत्कृतपूर्वपपक्षोऽपि निरस्तः। घट-वदिति स्मरणोत्तरं जायमाने परम्परासम्बन्धेन घटत्व-घ्रकारकमानसोपनीतभाने यथोक्तरीत्या योगजधर्मजन्येघटत्वप्रकारकघटविशेष्यकप्रत्यक्षे च व्यभिचारवारणायतत्प्रवेशस्यावश्यकत्वात्। एतेनाभावत्वाद्यखण्डोषाधिरू-पसामान्यलक्षणाया अपि कार्य्यकारणभाबो व्याख्यातःजात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानञ्च न प्रत्यासत्तिरितिसामान्यपदार्थनिर्वचनावसर एव प्रतिपादितं नन्वेवंरूपेणकार्यकारणभावे जातित्वरूपेणैकजातिमात्रप्रकारकज्ञाना-नन्तरं जातित्वावछिन्नजातिप्रकारकनिखिलजात्या एवप्रत्वक्षं कथं स्पाज्ज्वात्यन्तराश्रयस्य ज्ञानप्रकारीभूतजाति-[Page3156-b+ 38] व्यक्तेराश्रयत्वाभावात् स्वरूपतो घटत्वादिप्रकारकत्वस्यकार्यतावच्छेदकत्वाच्चेति चेन्न जातित्वरूपेण जातिप्रका-रकलौकिकप्रत्यक्षदशायामन्ततो निर्धर्मितावच्छेदकस्यापिपरम्परासम्बन्धेन जातित्वघटकनित्यत्वादिघाटकीभूताभा-वत्वाद्यखण्डोपाधिपकारकज्ञानस्यावश्यकत्वात् तत एवसामान्यज्ञानात् जातित्वावच्छिन्नजातिमत्त्वरूपेण निखिल-जात्याश्रयस्य साक्षात्कारः जात्यन्तराश्रयस्यापि परम्परा-तम्बन्धेन तदाश्रयत्वात्। यत्र जातित्वरूपेण क्यत्किचुत्जातिप्रकारकशाब्दस्मृत्यादिधीस्तत्रापि मध्ये परम्परा-सम्बन्धेन ध्वं सत्वादिप्रकारकमानसोपनीतभानानन्तरमेवजातिमतः सर्वस्य प्रत्यक्षाभ्यु पगमात् क्षणविलम्बे क्षति-विरहात्। न च पम्परासम्बन्धेन ध्वं सत्वादिकज्ञान-स्यैव तत्प्रयासत्तित्वे ध्वं सत्ववदित्येव तज्ज्ञानं स्यात्न तु जातिमदिति सामान्यप्रकारज्ञानस्य मुख्यविशेष्येसामान्यप्रकारकज्ञानकत्वनियमादिति वाच्यं विशेषण-ज्ञानार्थं जातित्वघटकसामान्यलक्षणायाः मध्ये सकल-जातिविशेष्यकज्ञानस्यावश्यकत्वात् ज्ञानलक्षणयैव जाति-मदिति फलस्यापि सम्भवात् द्विविधविषयैस्यवेष्टत्वात्। एवंतद्व्यक्तित्वादिरूपेण घटत्वादिज्ञानानान्तर जायमाने तत्त-द्व्यक्तित्वरूपेण घटत्वादिप्रकारकत दाश्रयप्रत्यक्षेऽपि पर-म्परासम्बन्धेन तद्यक्तित्वप्रकारकज्ञानमेव प्रत्यासत्तिरतोघटत्वादिसामान्यलक्षणायाः कार्यदिशि तदसंग्रहो नदोषाय इति भट्टाचार्य्यानुयायिनः”। (
“ज्ञानलक्षणायाः कारणतावच्छेदकन्तु सामान्यतःसंसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वं घटत्वादि-प्रकारकज्ञानादिव घटत्वादिविषयकज्ञानादपि घटत्वादिप्रकारकोपनीतभानोदयात्। विनश्यदवस्थलौकिकसन्निकर्ष-जन्यघटघटत्वादिनिर्विकल्पकानन्तरमपि घटत्वादिप्रकार-कप्रत्यक्षापत्तिवारणाय संसर्गावच्छिन्नेति विषयताविशेष-णम्। केचित्तु ज्ञानलक्षणायाः सप्रकारकघटघटत्वादिज्ञा-नत्वं कारणतावच्छेदकं न चैवं विनश्यदवस्थलौकिकसन्निक-र्षजन्यद्रव्यत्वादिविशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकादपिप्रत्यक्षापत्तिरितिवाच्यम् इष्टत्वात् सर्वांशे निर्विकल्पकस्यैवप्रत्यासत्तित्वानभ्यु पगमादित्याहुस्तदसत् तथापि सर्बांशेनिर्विकल्पकादपि इष्टापत्तेः सुकरतया कारणतावच्छेदकेसप्रकारकत्वस्य उपादानस्यवैवर्थ्यात्। सविशेष्यकत्वसंसर्ग-कविषयतताशालित्वमादाय विनिगमनाविरहेण कार्य्य-कारणभावस्यापत्तेः। ज्ञानलक्षणायाः कार्य्यतावच्छेद-[Page3157-a+ 38] कन्तु घटत्वादिप्रकारकप्रत्यक्षत्वं घटत्वादिज्ञानं विनापिजायमाने सामान्यलक्षणाजन्यघटादिमुख्यविशेष्यकप्रत्यक्षे-व्यभिचारवारणाय विषयत्वमपहाय प्रकारिताप्रवेशः। प्रकारिता चालौकिकी ग्राह्या तेन निर्विकल्पकजन्यप्राथ-मिकतद्विशिष्टलौ किकप्रत्यक्षे न व्यभिचारः। न चैवं ज्ञान-लक्षणासन्निकर्षो लौकिकसन्निकर्षद्वयमेव यत्र वर्त्तते तत्रकोदृक् ज्ञानं स्यादिति वाच्यं तत्र लौकिकालौकिकोभय-तत्प्रकारिताकज्ञानस्यैव उत्पत्तेः बिषयतायाः साङ्कर्य्य-खादोषत्वात्। न च तत्प्रकारकज्ञानं विनापि जायमानेयोगजधर्मजतत्प्रकारकप्रत्यक्षे व्यभिचार इति वाच्यंयोगजधर्मजन्यतदवच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्ष-विशेषणात् तत्प्रकारकज्ञानं, विना योगजधर्मेणापि तत्-प्रकारकप्रत्यक्षजनात् योगजधर्मस्य निर्विकल्पकाजनक्-त्वात्। न च चक्षुःसंयोगजन्यनिर्विकल्पकसहकारेणयोगजधर्मजनिते तत्प्रकारकप्रत्यक्षे व्यभिचार इतिवाच्यम् तत्र निर्विकल्पकजनकीभूतचक्षुःसंयोगादि-सत्त्वे तत्प्रकारकलौकिकप्रत्यक्षस्यैव उत्पत्तेः अलौकि-कप्रत्यक्षजनकयोगजधर्मसत्त्वेऽपि यथोक्तकार्य्यकारण-भावस्यैव वाधकत्वेनालौकिकप्रत्यक्षस्यानुत्पत्तेः। नचैवं निर्विकल्पकोत्पत्तिकाले चक्षुःसंयोगादिनाशेतन्निर्विकल्पकसहकारेण योगजधर्म्मात्तत्प्रकारक-साक्षात्कारो न स्यादिति वाच्यम् इष्टापत्तेः। न चैवंतत्प्रकारकप्रत्यक्ष एव तज्ज्ञानस्य हेतुतया इदं रजतमितिशुक्तिविशेष्यकमानसभ्रमे शुक्तिज्ञानस्याहेतुतया शुक्ति-ज्ञानं विनापि तादृशभ्रमापत्तिरिति वाच्यं इदं रजतमितिशुक्तिविशेष्यकमानसभ्रमस्यापि शुक्तिज्ञानात्मकशुक्तिवि-शिष्टधीकारणसत्त्वेन यत्र कुत्रचिद्धर्मिणि शुक्तिप्रकारक-त्वनियमात्। शुक्तिज्ञानविरहस्थले शुक्तिप्रकारकज्ञान-सामान्यकारणविरहादेव तदभावात् विशेषसामग्रीसहि-ताया एव सामान्यसामग्र्याः फलोपधायकत्वात्। न चेदंरजतमिति शुक्तिविशेषय्कमानसभ्रमस्य न शुक्तिप्रकारक-त्वनियंमः शुक्तिप्रकारकज्ञानप्रतिबन्धकदोषसत्त्वे तत्रतस्याः योगाप्रकारत्वादिति वाच्यं शुक्तिमुख्यविशेष्य-कतादृशमानसभ्रमस्थले तादृशदोषे मानाभावात् लाघ-वाद्यथोक्तरूपेण ज्ञानलक्षणायाः कार्य्यकारणभाव-कल्पने फलबलेन तथैव कल्पनात्। न चैवं मातस्योपनी-तभाने उपनीतस्य गुख्यविशेष्यतया भाने मानाभावः। मुख्यविशेष्यकत्वस्य कार्य्यतानवच्छेदकतया सामग्र्यास्तत्र[Page3157-b+ 38] मानत्वासम्भवात् इति वाच्यं मुख्यविशेष्यत्वस्य कारणानियम्यतया वाधकासत्त्व एव मुख्यविशेष्यतया भानसम्भ-वात्, न चैवं मानसोपनीतभानवत् बहिरिन्द्रियजोपनी-तभानेऽप्युपनीतस्य प्रकारत्वमुख्यविशेष्यत्वलक्षणद्विविध-विषयतापत्तिरिति वाच्यं सामान्यलक्षणालौकिकसन्नि-कर्षन्यातिरिक्तस्य बहिरिन्द्रायिजतत्तन्मु ख्यविशेष्यकप्र-त्यक्षस्यानुभवासिद्धतया अलीकतथा यावद्घिशेषसामग्री-बाधादेव तदुबाधात् मानसस्य तत्तदतिरिक्तस्यापि इदंरजतमित्यात्युपनीतविशेष्यकभ्रमस्य उपनीतशुक्त्यादि-मुख्यविशेष्यकत्वमनुभवसिद्धमतोनालीकत्वं न च तथापिघटघटत्वादिनिर्विकल्पकोत्तरं जायमानेऽयं घट इत्यादि-विशिष्टप्रत्यक्षे घटत्वादेमुर्ख्यविशेष्यत्वापत्तिः लौकिक-सन्निकर्षरूपविशेषसामग्रीसत्त्वादिति वाच्यम् तथाप्यसति-बाधके घटाद्यंशे घटत्वादेः प्रकारत्ववन्मुख्यविशेष्यन्व-स्यापीष्टत्वादिति। केचित्तु संसर्गावच्छिन्नतद्विषयताशालि-ज्ञानत्वेन कारणता योगजधर्म्माजन्यसामान्यलक्षणाप्रत्या-सत्त्यजन्यतद्विषयकप्रक्षक्षत्वेन कार्यता तद्विषयता। चालौ-किकी ग्राह्या तेन तल्लौकिकप्रत्यक्षे न व्यभिचारः:। एवञ्चतद्विषयकप्रत्यक्षत्वमात्रस्य कार्य्यतावच्छेदकतया इदं रज-तमिति शुक्तिमुख्यविशेष्यकमानसभ्रमोऽपि न शुक्तिज्ञानंविना बहिरिन्द्रियजोपनीतभाने उपनीतस्य मुख्यवि-शेष्यत्वनिरासश्चोक्तक्रमेणेत्याहुरिति संक्षेपः। ” मीमांसकवेदान्तिभिस्तु अस्याः प्रत्यासत्तित्वं नाङ्गीकृतम्। यथोक्तं वेदा॰ प॰।
“न च ज्ञानं प्रत्यासत्तिः ज्ञानस्य प्रत्या-सत्तित्वे अनुमानमात्रोच्छेदप्रसङ्गः” इति। अस्यायमा। शयः वह्निव्याप्यधूमवान् परवत इति परामर्शात्मकज्ञानस्यअनुमितिहेतुतायाः सर्वैः स्वीकारात तजज्ञानस्य चवह्निविषयकत्वेन तदुत्तरं जायमानं वह्निमान् पर्वत इतिज्ञानमलौकिकप्रत्यक्षमेव स्वान्नानुमितिः न च समानवि-षयस्थले अनुमितिसामग्र्याः अलौकिकप्रत्यक्षसामग्र्याःप्रतिबन्धकत्वेन नालौकिकप्रत्यक्षमपि तु अनुमिति-र्भबिष्यतीति चेन्न तादृशप्रतिबध्यप्रतिबन्धकभावकल्पन-स्याप्रामाणिकत्वात्। अतएव इदं रजतमिति ज्ञान-मनिर्वचनीयरजतविषयकं न देशान्तरस्थानुभूतरजतविषयकमुपनयमर्य्यादया ज्ञानमिति स्थितम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानलक्षणा/ ज्ञान--लक्षणा f. " knowledge-marked " , (in logic) intuitive knowledge of anything actually not perceivable by the senses Bha1sha1p.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानलक्षणा&oldid=389070" इत्यस्माद् प्रतिप्राप्तम्