ज्ञानवापी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानवापी, स्त्री, (ज्ञानस्य ज्ञानरूपोदकस्य वापी दीर्घिकेव ।) वाराणस्यन्तर्गततीर्थ- विशेषः । तदुत्पत्त्यादिर्यथा, -- अगस्त्य उवाच । “स्कन्द ! ज्ञानोदतीर्थस्य माहात्म्यं वद साम्प- तम् । ज्ञानवापीं प्रशंसन्ति यतः स्वर्गौकसोऽप्यलम् ॥ स्कन्द उवाच । घटोद्भव ! महाप्राज्ञ ! शृणु पापापनोदिनीम् । ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना ॥ अनादिसिद्धे संसारे पुरा दैवयुगे मुने ! । प्राप्तः कुतश्चिदीशानश्चरन् स्वैरमितस्ततः ॥ न वर्षन्ति यदाभ्राणि न प्रावर्त्तन्त निम्नगाः । जलाभिलाषो न यदा स्नानपानादिकर्म्मणि ॥ क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् । पृथिव्यां नरसञ्चारे वर्त्तमाने क्वचित् क्वचित् ॥ निर्व्वाणकमलाक्षेत्रं श्रीमदानन्दकाननम् ॥” “सुखसन्तानजनकं मोक्षसाधनसिद्धिदम् । प्रविश्य क्षेत्रमेतत् स ईशानो जटिलस्तदा । लसत्त्रिशूलविमलरश्मिजालसमाकुलः ॥ आलुलोके महालिङ्गं वैकुण्ठपरमेष्ठिनोः । महाहमहमिकायां प्रादुरास यदादितः ॥ ज्योतिर्म्मयीभिर्म्मालाभिः परितः परिवेष्टितम् ॥” “अस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छेत्यभवत्तदा । स्नापयामि महालिङ्गं कलसैः शीतलैर्जलैः । चखान च त्रिशूलेन दक्षिणाशोपकण्ठतः ॥ कण्डं प्रचण्डषेगेन रुद्रो रुद्रवपुर्धरः । पृथिव्यां वरुणाम्भांसि निष्क्रान्तानि तदा मुने ! ॥ भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता । तैर्जलैः स्नापयाञ्चक्रे त्वस्पृष्टैरन्यदेहिभिः ॥” “विश्वभर्त्तुरुमास्पर्शसुखातिसुखकारिभिः । महावभृथसुस्नानमहाशुद्धिविधायिभिः ॥ सहस्रधारैः कलसैः स ईशानो घटोद्भव ! । सहस्रकृत्वः स्नपयामास संहृष्टमानसः ॥ ततः प्रसन्नो भगवान् विश्वात्मा विश्वलोचनः । तमुवाच तदेशानं रुद्रं रुद्रवपुर्द्धरम् ॥ तव प्रसन्नोऽस्मीशान ! कर्म्मणानेन सुव्रत ! । गुरुणानन्यपूर्ब्बेण ममातिप्रीतिकारिणा ॥ ततस्त्वं जटिलेशान ! वरं ब्रूहि तपोधन ! । अदेयं न तवास्त्यद्य महोद्यमपरायण ! ॥ ईशान उवाच । यदि प्रसन्नो देवेश ! वरयोग्योऽस्माहं यदि । तदेतदतुलं तीर्थं तव नाम्नास्तु शङ्कर ! ॥ विश्वेश्वर उवाच । त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वःस्थितान्यपि । तेभ्योऽखिलेभ्यस्तीर्तेभ्यः शिवतीर्थमिदं परम् ॥ शिवं ज्ञानमिति ब्रूयुः शिवशब्दार्थचिन्तकाः । तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात् ॥ अतो ज्ञानोदनामैतत्तीर्थं त्रैलोक्यविश्रुतम् । अस्य दर्शनमात्रेण सव्वपापैः प्रमुच्यते ॥ ज्ञानोदतीर्थसंस्पर्शादश्वभेधफलं लभेत् । स्पर्शनाचमनाभ्याञ्च राजसूयाश्वमेधयोः ॥ फल्गुतीर्थे नरः स्नात्वा संतर्प्य तु पितामहान् । यत् फलं समवाप्नोति तदत्र श्राद्धकर्म्मणा ॥” “ज्ञानरूपोऽहमेवात्र द्रवमूर्त्तिं विधाय च । जाड्यविध्वंसनं कुर्य्यां कुर्य्यां ज्ञानोपदेशनम् ॥ इति दत्त्वा वरान् शम्भुस्तत्रैवान्तरधीयत । कृतकृत्यमिवात्मानं सोऽप्यमंस्त त्रिशूलभृत् ॥ ईशानो जटिलो रुद्रस्तत् प्राश्य परमोदकम् । अवाप्तवान् परं ज्ञानं येन निर्व्वृतिमाप्तवान् ॥” इति स्कान्दे काशीखण्डे ३३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानवापी¦ स्त्री काशीस्थे वापीरूपे तीर्थभेदे तदाविर्भवादिकथा काशी॰

१२ अ॰।
“घटोद्भव! महाप्राज्ञ! शृण पापापनोदिनीम्[Page3158-a+ 38] ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाऽधुना। अनादिसिद्धे संसारे पुरा देवयुगे मुने!। प्राप्तः कुत-शिदीशानश्चरन् स्वैरमितस्ततः। न वर्षन्ति यदाऽभ्राणिन प्रावर्त्तन्त निम्नगाः। जलाभिलाषो न यदा स्नान-पानादिकर्म्मणि। क्षीरस्वादूदयोरेव यदासीज्जल-दर्शनम्। पृथित्यां नरसञ्चारे वर्त्तमाने क्वचित् क्वचित्। निर्वाणकमलक्षेत्रं श्रीमदानन्दकाननम्। महाश्मशानंसर्वेषां वीजाना परमूषरम्। महाशयनसुप्तानां जन्तूनांप्रतिबोधकम्। संसारसागरावर्त्तपतज्जन्तुतरण्डकम्। यातायातातिसंखिन्नजन्तुविश्राममण्डपम्। अनेकजन्मगुणितकर्मसूत्रच्छिदक्षरम्। सच्चिदानन्दनिलयंपरं ब्रह्म रसायनम्। सुखसन्तानजनकं मोक्षसाधन-सिद्धिदम्। प्रविश्य क्षेत्रमेतत् स ईशानो जटिलस्तदा। लसत्त्रिशूलविमलरश्मिजालसमाकुलः। आलुलोकेमहालिङ्गं वैकुण्ठपरमेष्ठिनोः। महाहमहमिकायांप्रादुरास यदादितः। ज्योतिर्मयीभिर्मालाभिः परितःपरिवेष्टितम्। वृन्दर्वृन्दारकर्षीणां गणानाञ्च निर-न्तरम्। सिद्धानां योगिनां स्तोमैरर्च्यमानं निरन्तरम्। गीयमानञ्च गन्धर्वैः स्तूयमानञ्च चारणेः। अङ्गहारै-रप्सरोभिः सेव्यमानमनेकधा। नीराज्यमानं सततंनागीभिर्मणिदीपकैः। विद्याधरीकि{??}रीभिस्त्रिकालंकृतमण्डनम्। अमरीचमरीराजिवीज्यमानमित-स्ततः। तस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छा ह्यभवत्तढा। स्नपयामि महालिङ्गं कलसैः शीतलैर्जलैः। चस्वान च त्रिशूलेन दाक्षणांशोपकण्ठतः। कुण्डंप्रचण्डवेगेन रुद्रो रुद्रवपुर्धरः। पृथिव्यावरणाम्भांसिनिष्क्रान्तानि तदा मुने!। भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता। तैर्जलैः स्नपयाञ्चक्रे दुष्पृष्टैरन्यदेहिभिः। तुषारैर्जाद्धविनदैर्जंजपूकौ वहारि{??}इः। सम्भनोभि-रिवात्यच्छैरनच्छैर्व्योमवत्मेवत्। ज्योत्स्तावदुज्ज्बल-{??}यैः पावन्ते शम्भु नामवत्। पीयूषवत् स्वादुतरैःसुश्चस्पर्शैर्गवाङ्गवत्। निष्पापधीरकुम्ज्भीरैस्तरलैः पापि-शर्म्मवत्। विजिताब्जमहागन्धैः पाटलामोद-नोदिभिः। अदृष्टपर्वलोकानां मनोनयनहारिभिः। अज्ञानतापसन्तप्तप्राणिप्राणैकरक्षिभिः। पञ्चामृतानांकलसेः स्नपनातिफलप्रदैः। श्रद्धोपस्पर्शिहृदयलिङ्ग-त्रित्यहेतुभिः। अज्ञानतिमिरार्काभैर्ज्ञानदाननिदा-नकैः विश्वभर्त्तुरुमास्पर्शमुणातिसुखकारिभिः। [Page3158-b+ 38] महावभृथसुस्नातमहाशुद्धिविधायिभिः। सहस्रधाःरैकलसैः स ईशानो घटोद्धव!। सहस्रकृत्वः स्रपयामास संहृष्टमानसः। ततः प्रसन्नो भगवान् विश्वात्माविश्वलोचनः। तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम्। तव प्रसन्नोऽस्मीशान! कर्मणानेन सुवत!। गुरुणानन्य-पूर्वेण ममातिप्रीतिकारिणा। ततस्त्वं जटिलेशान वरंब्रूहि तपोधन!। अदेयं न तवास्त्यत्र महोद्यमपरा-यण। ईशान उवाच। यदि प्रसन्नोदेवेश! वरयोग्यो-ऽस्म्यहं यदि। तदेतदतुलं तीर्थं तव नाम्तास्तु शङ्कर। श्रीविश्वेश्वर उवाच। त्रैलोक्यां यानि तीर्थानि भू-र्भुवःस्वःस्थितान्यपि। तेभ्योऽखिलेभ्यस्तीर्थेभ्यः शिव-तीर्थमिदं परम्। शिवो ज्ञानमितिब्रूयुः शिवशब्दार्थ-चिन्तकाः। तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात। अतो ज्ञानोदनामैतत्तीर्थन्त्रैलोक्यविश्रुतम्। अस्यदर्शनमात्रेण सर्वपापैः प्रमुच्यते। ज्ञानोदतीर्थसंस्पर्शा-दश्वमेधफलं लभेत्। स्पर्शनाचमनाभ्याञ्च राजसूयाश्व-मेधयोः। फल्गुतीर्थे नरः स्नात्वा सन्तर्ष्य च पिता-महान्। यत् फलं समवाप्नोति तदत्र श्राद्धकर्मणा। गुरुपुष्यसिताष्टम्यां व्यतीपातो यदा भवेत्। तदात्रश्राद्धकरणाद्गयाकोटिफलं भवेत्। यत् फलं समवाप्नोतिपितॄन् सन्तर्प्य पुष्करे। तत्फलं कोटिगुणितं ज्ञानतीर्थेतिलोदकैः। सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति। यत्फलं पिण्डदानेन तज्ज्ञानोदे दिने दिने। पिण्ड-निर्वपनं येषां ज्ञानतीर्थे सुतेः कृतम्। मोदन्ते शिव-लोके ते यावदाहूतसंप्लवम्। अष्टम्याञ्च चतुर्दश्यामप-वार्सीं नरोत्तमः। प्रातः स्नात्वाऽथ पीत्वाम्भस्त्वन्तर्लिङ्गमयो भवेत्। एकादश्यामुपोष्याथ प्राशेदु यश्चुलुक-त्रयम्। हृदये तस्य जायन्ते त्रीणि लिङ्गान्यसंशयम्। ईशानतीर्थे यः स्तायाद्विशेषात् सोश्च्रवासरे। सन्तर्प्यदेवर्षिपितॄन् दत्त्वा दानं स्वशक्तितः। ततः समर्च्च्यश्रीलिङ्गं महासम्भारविस्तरैः। तत्रापि दत्त्वा नाना-र्थान् कृतकृत्यो भवेन्नरः। उपास्य सन्ध्यां जानोदे यत्पाप काललोपजम्। क्षणेन तदपाकृत्य ज्ञानवान्जायते नरः। शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदंशुभम। तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं स्मृतम्। स्यरणादपि पापौघा ज्ञानोदे क्षीयते ध्रुवम्। दर्शनात्स्पर्शनात् स्नानात् पानाद्धर्मादिसम्भवः। डाकिनी-शाकिनीभूतप्रेतवेतानराचसाः। ग्रहकस्माण्डखेटाङ्गाः[Page3159-a+ 38] कालकर्णीशिशुग्रहाः। व्यरापस्मारविस्फोटतृतीयक-चतुर्थकाः। सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्। ज्ञानोदतीर्थपानीयैर्लिङ्गं यः स्नपयेत् सुधीः। सर्व-तीर्थोदकैस्तेन ध्रुवं संस्तपितं भवेत्। ज्ञानरूपोऽह-मेवात्र द्रवमूर्त्तिं विधाय च। जाह्यविध्वंसनं कुर्य्या-कुर्य्यां ज्ञानोपदेशनम्”
“इति दत्त्वा वरान् शम्भुस्तत्रैवा-न्तरधीयत। कृतकृत्यमिवात्मानं सोऽप्यमंस्त त्रिशूलभृत्। ईशानो जटिलो रुद्रस्तत्पीत्वा परमोदकम्। अवाप्त-वान् परं ज्ञानं येन निर्वृतिमाप्तवान्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानवापी/ ज्ञान--वापी f. " knowledge-pool " , N. of a तीर्थ, Ka1s3i1Kh. xxxiii f.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानवापी&oldid=389084" इत्यस्माद् प्रतिप्राप्तम्