ज्ञेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेयम्, त्रि, (ज्ञायते इति । ज्ञा + कर्म्मणि यत् ।) ज्ञानयोग्यम् । ज्ञातव्यम् । यथा, -- “ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥ सर्व्वतः पाणिपादं तत् सर्व्वतोऽक्षिशिरोमुखम् । सर्व्वतः श्रुतिमल्लोके सर्व्वमावृत्य तिष्ठति ॥ सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् । असक्तं सर्व्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ वहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् । भूतभर्त्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य धिष्ठितम् ॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥” इति श्रीभगवद्गीतायां १३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय¦ त्रि॰ ज्ञा--कर्म्मणियत्। बोद्धव्ये। यथा व्याकरणादिपाणिन्यादेर्ज्ञेयैकदेशार्थमपि” शा॰ भा॰।

२ ज्ञातुं योग्येब्रह्मणि च।
“ज्ञेयं यत् तत् प्रवक्ष्यामि यद् ज्ञात्वाऽमृ-तमश्नुते। अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते। सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लिके सर्वमावृत्य तिष्ठति। सर्वेन्द्रियगुणाभासंसर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुण-भोक्तृ च। बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्। अवि-भक्तं विभक्तिषु विभक्तमिव च स्थितम्। भूतभर्त्तृ चतज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च। ज्योतिषामपि तज्ज्यो-तिस्तमसः परमुच्यते”।
“ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि-सर्वस्य धिष्ठितम्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय¦ mfn. (-यः-या-यं) To be known, what may be or ought to be known. E. ज्ञा, and कर्मणि यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय [jñēya], pot. p. [ज्ञा कर्मणि यत्]

To be invesitgated, or learnt or understood.

To be regarded as.

Perceptible, cognizable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय mfn. to be known( e.g. ज्ञेयो महा-र्णवोऽत्र, it should be known that there is here a great sea VarBr2S. xiv , 19 ; कथं न ज्ञेयम् अस्माभिर् निवर्तितुम्, how should we not know how to leave off Bhag. i , 39 ) Mn. Ya1jn5. R. etc.

ज्ञेय mfn. to be learnt or understood or ascertained or investigated or perceived or inquired about S3vetUp. i , 12 MBh. iii , 2737 Nal. etc.

"https://sa.wiktionary.org/w/index.php?title=ज्ञेय&oldid=389318" इत्यस्माद् प्रतिप्राप्तम्