ज्येष्ठः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठः, त्रि, (अयमेषामतिशयेन वृद्धः प्रशस्यो वा इति । वृद्ध वा प्रसस्य + इष्ठन् ततो ज्यादेशः ।) अतिवृद्धः । श्रेष्ठः । (यथा, महा- भारते । १३ । १४३ । ७ । “ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्बिजः ॥” ज्येष्ठानक्षत्रयुक्ता पौर्णमासीत्यण् इति ज्येष्ठी सा अस्मिन् मासीति पुनरण् संज्ञापूर्ब्बस्य विधरनित्यत्वान्न वृद्धिः ।) ज्यैष्ठमासि, पुं । इति मेदिनी । ठे, ५ ॥ अग्रजः । (यथा, रघुः । १२ । १९ । “दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराड्मुखः ॥”) अधिकवयाः । इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=ज्येष्ठः&oldid=136441" इत्यस्माद् प्रतिप्राप्तम्