ज्येष्ठाश्रमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठाश्रमी, [न्] पुं, (आश्रमोऽस्त्यस्य इति । आश्रम + इनिः । ज्येष्ठः श्रेष्ठ आश्रमी ।) “ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । चत्वार आश्रमाः प्रोक्ताः सर्व्वेगार्हस्थमूलकाः ॥” “यथा वायुं समाश्रित्य वर्त्तन्ते सर्व्वजन्तवः । तथा गार्हस्थमाश्रित्य वर्त्तन्ते सर्व्व आश्रमाः ॥” इति वचनाच्च गृहस्थाश्रमस्य सर्व्वाश्रमेषूत्कृष्ट- त्वात् तथात्वम् ।) गृहस्थः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=ज्येष्ठाश्रमी&oldid=136455" इत्यस्माद् प्रतिप्राप्तम्