ज्येष्ठी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठी, स्त्री, गृहगोधा । जेठी इति टिक्टिकी इति च भाषा । तत्पर्य्यायः । मुषली २ मुसली ३ कुड्यमत्स्या ४ गृहगोधिका ५ मूली ६ टुक्- टुकी ७ शकुनज्ञा ८ गृहापिका ९ । इति शब्दरत्नावली ॥ तस्याः पतनफलं यथा, -- “निपतति यदि पल्ली दक्षिणाङ्गे नराणां स्वजनधनवियोगो लाभदा वामभागे । उरसि शिरसि पृष्ठे कण्ठदेशे च राज्यं करचरणहृदिस्था सर्व्वसौख्यं ददाति ॥” इति ज्योतिषम् ॥ दिग्विशेषे तस्य शब्दफलम् । “वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने ॥ ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=ज्येष्ठी&oldid=136456" इत्यस्माद् प्रतिप्राप्तम्