ज्योतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिः, [स्] क्ली, (ज्युतृ दीप्तौ + इसिः । यद्बा, द्युत दीप्तौ + “द्युतेरिसिन्नादेश्च जः ।” उणां । २ । १११ । इति इसिन् दस्य च जः ।) दृष्टिः । नक्षत्रम् । (यथा, “ज्योतींष्यग्निञ्चामेध्यमशस्तञ्च नाभिवीक्षेत ॥” इति चरके सूत्रस्थानेऽष्टमे- ऽध्याये ॥) प्रकाशः । इति मेदिनी । से, २३ ॥

ज्योतिः, [स्] पुं, (ज्योतते इति । ज्युतृ + कर्त्तरि इसिः । द्युत + इसिन् वा ।) अग्निः । (यथा, -- “तस्यान्तरेण नाभेस्तु ज्योतिः स्थानं ध्रुवं स्मृतम् । तदा धमति वातस्तु देहस्तेनास्य वर्द्धते ॥” इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥) सूर्य्यः । इति मेदिनी । से, २२ ॥ मेथिका । इति राजनिर्घण्टः ॥ (विष्णः । यथा, महाभारते १३ । १४९ । ७९ । “स्वक्षः स्वङ्गः शतानन्दी नन्दिर्ज्योतिगणेश्वरः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिः in comp. for तिस्.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिः&oldid=389814" इत्यस्माद् प्रतिप्राप्तम्