ज्वर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वर, म रोगे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) ज्वरति जनो धातुवैषम्यात् । म, ज्वरयति । इति दुर्गादासः ॥
ज्वरः, पुं, (ज्वरति जीर्णो भवत्यनेन । ज्वर + करणे घञ् भावे घञ् वा । संज्ञापूर्ब्बक- त्वात् वृद्ध्यभावः ।) ज्वरणम् । स्वनामख्यात- रोगः । तत्पर्य्यायः । जूर्त्तिः २ । इत्यमरः । ३ । २ । ३९ ॥ ज्वरिः ३ आतङ्कः ४ रोगपृष्ठः ५ महागदः ६ । इति राजनिर्घण्टः ॥ तापकः ७ सन्तापः ८ । इति शब्दरत्नावली ॥ * ॥ पाकाच्चोक्तलक्षणाभावेन कषायत्वाभावात् ॥ * ॥ तरुणज्वरे कषायस्य दोषमाह । “दोषा वृद्धाः कषायेण स्तम्भितास्तरुणे ज्वरे । स्तम्भ्यन्ते न विपच्यन्ते कुर्व्वन्ति विषमज्वरम् ॥ कषायेण स्तम्भिताः प्रवृत्तये निवारिताः । यत आह कषायरसगुणान् । कषायः स्तम्भनः शीतो रूक्षः पित्तकफापहः । इत्यादि । स्तम्भ्यन्ते आध्मानं कुर्व्वन्ति । न विपच्यन्ते सुखेन न विपच्यन्ते दुःखं दत्त्वा विलम्बेन विप- च्यन्ते इति यावत् ॥ अन्यच्च । “न च्यवन्ते न पच्यन्ते कषायैः स्तम्भिता मलाः । तिर्य्यग्विमार्गगा वाते घोरं कुर्य्युर्नवज्वरम् ॥ * ॥ अनुपस्थितदोषाणां वमनं तरुणे ज्वरे । हृद्रोगं श्वासमानाहमोहञ्च कुरुते भृशम् ॥” अस्यायमर्थः । कफादिदोषोपस्थितौ स्वयमेव चेद्भवति वमनं न तद्दोषाय । अनुपस्थित- दोषाणान्तु तरुणे ज्वरे वमनं यत्नकृतं हृद्रो- गादीन् करोतीत्यर्थः । एतेन वचनेन तरुणे ज्वरे यत्नाद् वमनं निषिद्धम् ॥ * ॥ अवस्थाविशेषे तदपि कर्त्तव्यमित्याह । “सद्यो भुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते । वमनं वमनार्हस्य शस्तमित्याह वाग्भटः ॥” वमनं वेति विकल्पो लङ्घनापेक्षया वमनार्हस्ये- त्यनेन गर्भिण्यतिकृशातिवृद्ध्यादिनिरासः । वाग्- भटोऽत्र वृद्धवाग्भटः ॥ “वमितं लङ्घयेत् प्राज्ञो लङ्घितं न तु वामयेत् । वमनं क्लेशबाहुल्याद्धन्याल्लङ्घनकर्षितम् । न कार्य्यं गुर्व्विणीबालवृद्धदुर्ब्बलभीरुभिः ॥” अनशनमिति शेषः । अनेन वचनेन गुर्व्विण्या- दीनामनशननिषेधात् ज्वरे सामे पाचनं निरामे शमनं पथ्यान्नमण्डादिकञ्च दद्यात् ॥ * ॥ पाचनशमनयोर्ल्लक्षणमाह । “यत् पचत्याममाहारं पचेदामरसञ्च यत् । यदपक्वान् पचेद्दोषांस्तद्धि पाचनमुच्यते ॥ न शोधयति यद्दोषान् समान्नोदीरयत्यपि । समीकरोति संवृद्धांस्तत् संशमनमुच्यते ॥”
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वर पुं।
ज्वरः
समानार्थक:ज्वर
2।6।56।1।2
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः। श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः। अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
ज्वर पुं।
ज्वरणम्
समानार्थक:ज्वर,जूर्ति
3।2।38।2।5
निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि। जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वर¦ रोगे भ्वा॰ पर॰ अक॰ सेट्। ज्वरति अज्वारीत्। मित्। ज्वरयति ते।
ज्वर¦ पु॰ ज्वर + भावे थ। स्वनामख्याते रोगभेदे। ज्वरस्योद्भवनिदानादि भावप्र॰ उक्तं यथा।
“दक्षायमानसंक्रुद्धरुद्रनिःश्वाससम्भवः। ज्वरोऽष्टधापृथग्द्वश्वसङ्घातागन्तुजः स्मृतः। अस्थायमर्थः। दक्ष-कर्तृको योऽपमानस्तेन संक्रुद्धो यो रुद्रस्तस्य यो निः-श्वासस्तस्मात्सम्भव ऊत्पत्तिर्यस्य स ज्वरः। क्रुद्धरुद्रनिः-श्वाससम्भूतत्वेन ज्वरः स्वभावात्पैत्तिक इति बोध्यते। यत उक्तं चरकेण, क्रोधात्पित्तमित्यादि तेन सर्वज्वरेषुपित्तोपशमकारिणो चिकित्सा कर्तव्या अतएव वाग्भटः
“उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना। तस्मात्पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकम्” रुद्र-सम्भूतत्वेन ज्वरस्य देवतात्मकत्वात् पूजार्हत्वं चोपदर्शि-तम् अतएव वैदेहः
“ज्वरः संपूनैवार्पि सह-सैवोपशाम्यतीति”। मूर्त्तिरप्यस्योक्ता सुश्रुतेन
“रुद्र-कोपाग्निसंमूतः सर्वभूतप्रतापनः। त्रिपाद्भस्मप्रहरणस्त्रि-शिराः सुमहोदरः। वैयाघ्रचर्मवसनः कपिलो माल्य-विग्रहः। पिङ्गेक्षणो ह्रस्वजङ्घो बीभत्स्यो बलवान्म-हान्। पुरुषो लोकनाशर्थमसौ ज्वर इति स्थितः। तैस्तैर्नामभिरन्येषां सत्वानां परिकीर्त्त्यते। जन्मादौनिधने चैव प्रायोविशति देहिनम्। ऋते देवमनुष्याभ्यांनान्यो विषहते हि तम्” तस्य ज्वरस्य संख्यारूपां संपा-प्तिमाह ज्वरोऽष्टधेति। अष्टत्वं विवृणोति पृथगितिवातिकः पैत्तिकः श्लैष्मिकशैति त्र्यः। द्वन्यजाश्च त्रयःवातपैत्तिकः वातश्लैष्मिकः पित्तश्लैष्मिकश्चेति। सङ्घातजःसन्निपातिक एकः।
“द्व्युस्यणैकोस्त्वणैः षट् स्थुहीऽनमध्या-धिकैश्च षट्। समश्चैको विकारास्ते सन्निपातास्त्रयोदश” इति चरके त्रयोदश सन्निपाता उक्तास्ते यथा। वातोल्वणः पित्तोल्वणः। कफोल्वणः। वातपित्तो-ल्वणः। वातश्लेष्मोल्वणः पित्तश्लेष्मोल्वणः। एवं षट्। अधिकवातो मध्यपित्तो हीनकफः। अधिकवातो मध्य-कफो हीनपित्तः। अधिककफो मध्यपित्तो हीनवातश्चेतिषट्। त्र्युलवण एकः एवं त्रयोदश। अत्र तु त्रिदोष-जत्वेन साम्यात्सान्निपातिक एक एव गणितः। आगन्तुजइति। अत्रागन्तुशब्देनाभिधातादयो हेतव उच्यन्ते। [Page3166-a+ 38] कुत्रचिद्व्याधयः कार्थकारणयोरभेदोपचारात् आग-न्तुजा अभिधाताद्यनेककारणयोगादनेक भवन्ति। तथा-प्यागन्तुजत्वेन साम्यादागन्तुजोऽप्यत्रैक एव गणितः। नन्वागन्तुजेऽपि ज्वरे वातादिलक्षणदर्शनादागन्तुजः कथंदोषजाद्भिन्नः उच्यते, उत्तरकालं दोषोत्पत्तेः। तथाच चरके
“आगन्तुजो हि व्यथापूर्वं जायते पश्चाद्भि-न्नैर्दोषैरनुबध्यते” इति। अथ ज्वरस्य विप्रकृष्टकारणक-थनपूर्बिका अम्प्राप्तिमाह
“मिथ्याहारविहाराभ्यां दोषाह्यामाशयाश्रयाः। वहिर्न्निरस्य कोष्टाग्निं ज्वरदाः स्थूर-सानुगाः”। मिथ्याहारविहाराभ्यां अनुचिताहारचे-ष्टाभ्यां हेतुभूताभ्यां दोषाः वातपित्तकफाः आमाशया-श्रयाः आमाशयं गता रसानुगाः रसदूषकाः बहिर्नि-रस्य कोष्टाग्निं कोष्टगताग्नेरूष्माणम् न तु समस्त-वग्निं तदा दोषपाकासम्भवः स्यात्। बहिः प्रक्षिप्यज्वरदाः स्युर्ज्वरकांरिणो भवेयुरित्यर्थः। अथ ज्वरस्यसामान्यं विशिष्टञ्च पूर्वरूपमाह
“श्रमोऽरतिर्विवरणत्वंवैरस्यं नयनप्लवः। इच्छाद्वेषो मुहुश्चापि शीतवाता-तपादिषु। जृम्भाऽङ्गमर्द्दो गुरुता रोमहर्षोऽरुचिस्तमः। अप्रहर्षश्च शीतञ्च भवन्त्युत्पत्स्यति ज्वरे। सामान्यतोविशेषात्तु जृम्भात्यर्थं समीरणात्। पित्तान्नयनयोर्द्दाहःकफान्नान्नाभिनन्दनम्!” श्रमो व्यापार’ विनैव, अरति-रस्वस्थचित्तत्वम् विवर्णत्वं म्लानगात्रता। वैरस्यं मुख्य-स्याऽप्रकृतरसता। नयनप्लवः नयनयोरश्रुपूर्णत्वम्। शीतवातातपादिषु मुहुरिच्छाद्वेषौ। आदिशब्दाज्ज्वलनेजले च। यत उक्तं चरकेण
“ज्वलनातपवातेषु भक्ति-द्वेषावनिश्चिताविति”। शयनादिष्वित्यन्ये। अङ्गमर्द्दोऽङ्ग-मोटनम्। गुरुता गात्रस्य। तोमहर्षः रोमाञ्चता। अरुचिर्भोज्ये, तमः तमोमग्नस्येव ज्ञानम्। अप्रहर्षःहर्षाभावः। शीतं लगति चकाराद्वलहानिः उपदेश-द्वेषादयोऽपि भवन्ति। तृतीयश्लोकस्थम् सामान्यत इतिपूर्वश्लोकाभ्यां सम्बन्धनीयम्। तेन सामान्यतो ज्वर उत्प-त्स्थति भविष्यति श्रमादयः पूर्वमेव भवन्तीत्यर्थः। उत्पत्स्थतीत्यात्मनेपदिनोऽपि तङभाव आर्षत्वात्। वि-शेषात् उच्यते। समीरणात् ज्वरे उत्पत्स्यति अतिशयेनजृम्भा भवति। पित्तज्वरे उत्पत्स्यति अत्यर्थनयोर्दाहोभवति। कफज्वरे उत्पत्स्यति अत्थर्थेन नान्नाभिनन्दनम्अन्नाकाङ्क्षा न भवति। जृम्भादयो भवन्ति यतः सामा-न्यधर्माक्रान्तो विशिंष्टोधर्मोभवति। द्वन्द्वजपूर्वरूपमाह,[Page3166-b+ 38]
“रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्दजं विदुः। अन्यतराभ्यांजृम्भानेत्रदाहाभ्याम्। जृम्भान्नारुचिभ्यां नेत्रदाहान्ना-रुचिभ्यां वा संसृष्टैरूपैः श्रमादिभिः द्वन्द्वजं द्विदोषजंपूर्वरूपं विदुः। त्रिदोषजपूर्वरूपमाह,
“सर्वलिङ्गसमा-वायः सर्वदीषप्रकोपजे। सर्वरूपजे सर्वरूपे सर्वलिङ्गसम-वायः। अतिशयितजृम्भानेत्रदाहान्नारुचिसहितानांश्रमादीनां समवायो भवति। अथ ज्वरस्य सामान्यलक्षण-माह,
“स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा। युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते। ताप इतिवक्तव्ये सन्तापाभिधानं देहेन्द्रियमनसां सन्तापबोधना-र्थम्। यत उक्तं चरकेण ज्वरविशेषणम्।
“देहेन्द्रिय-मनस्तापीति”। तत्र देहसन्तापो देहेन्द्रियोष्णता। इन्द्रि-यसन्ताप इन्द्रियवैकृत्यम्। यत उक्तम्
“इन्द्रियाणां तुवैकृत्यं यत्र सन्तापलक्षणम्। वैचित्त्यमरतिर्ग्लानिर्म्मनः-सन्तापलक्षणम् इति”। सर्वाङ्गग्रहणम् सर्वेषामङ्गानांवेदनया ग्रहणं सर्वाण्यङ्गानि स्तम्भनगृहीतानीव वाभवन्ति। युगपदिति। मिलितमेतल्लक्षणम्। प्रत्येकस्यव्यभिचारात्। यथा स्वेदावरोधः कुष्ठपुर्वरूपे। तथासन्तापो दाहव्याधौ। तथा सर्वाङ्गग्रहणं सर्वाङ्गरो-गाख्यवातव्याधौ। प्रस्वेदानिर्गमनपक्षे कारणमाह।
“रुणद्धि चाप्यपां धातुं यस्मात्तस्माज्जरातुरः। भवत्य-त्युष्णगात्रश्च स्विद्यते न च सर्वशः। तस्माज्ज्वरोऽत्रभवति सर्वशः स्विद्यते न च”। सुश्रुते उत्तरतन्त्रे च तत्र विशेष उक्तो यथा
“ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्। कर्मणालभते यस्माद्देवत्वं मानुषादपि। पुनश्चैव च्युतः स्वर्गा-न्मानुष्यमनुवर्त्तते। तस्मात्ते देवभागेन सहन्ते मानुषाज्वरम्। शेषाः सर्वे विपद्यन्ते तैर्य्यग्योना ज्वरार्दिताः। स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा। विकारायुगपद्यस्मिन् ज्वरह् स परिकीर्तितः। दोषैः पृथक् सम-स्तैश्च द्वन्द्वैरागन्तुरेव च। अनेककारणोत्पन्नः स्मृतस्त्वष्ट-विधो ज्वरः। दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रको-पनैः। व्याप्य देहमशेषेण ज्वरमापादयन्ति हि। दुष्टाःस्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा। सहिता रसमागत्यरसस्वेदप्रवाहिणाम्। स्रोतसां मार्यमावृत्त्य मन्दीकृत्यहुताशनम्। गिरस्य वहिरूष्माणम् पक्तिस्थानाच्च केवलम्। शरीरं समाभव्याप्य स्वकालेषु ज्वरागमम्। जनयन्त्यथवृद्धिश्च स्ववर्णञ्च त्वगादिषु। मिथ्यातियुक्तैरपि च[Page3167-a+ 38] स्नेहाद्यैः कर्मभिर्नृणाम्। विविधादभिघाताच्च रोगो-त्थानात् प्रपाकतः। श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्त्तुपर्य्ययात्। अओषधीपुष्पगन्धाच्च शोकान्नक्षत्र-पीडनात्। अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया। स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः। स्तन्याव-तरणे चैव ज्वरो दोषैः प्रवर्त्तते। तैर्वेगवद्भिर्बहुधासमुद्भ्रान्तैर्विमार्गकैः। विक्षिप्यमाणोऽन्तरग्निर्भवत्याशुबहिश्चरः। रुणद्धि चाप्यपान्धातुं यस्मात्तस्माज्ज्वरा-तुरः। भवत्यत्युष्णगात्रश्च न च स्विद्यति सर्वशः। श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः। इच्छाद्वेषौमुहुश्चापि शीतवातातपादिषु। जृम्भाङ्गमर्दो गुरुतारोमहर्षोऽरुचिस्तमः। अप्रहर्षश्च शीतञ्च भवत्युत्पत्स्यतिज्वरे। सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात्। पित्तान्नयनयोर्दाहः कफान्नाभिनन्दनम्। सर्वलिङ्ग-समावायः सर्वदोषप्रकोपजे। द्वयोर्द्धयोस्तु रूपेण संसृष्टंद्वन्द्वजं विदुः। वेपथुर्विषमो वेगः कण्ठोष्ठमुखशोषणम्। निद्रानाशः क्षवः स्तम्भो गात्राणां रौक्ष्यमेव च। शिरो-हृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता। जृम्भाध्मानं तथाशूलं भवत्यनिलजे ज्वरे। वेगस्तीक्ष्णोऽतिसारश्च निन्द्रा-ल्पत्वं तथा वमिः। कण्ठौष्ठमुखनासानां पाकः स्वेदश्चजायते। प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा। पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च। गौरवंशीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता। स्रोतोरोधो रुग-ल्पत्वं प्रसेको मधुरास्यता। नात्युष्णगात्रता च्छर्दिरङ्ग-सादोऽविपाकता। प्रतिश्यायोऽरुचिः कासः कफजेऽ-क्ष्णोश्च शुक्लता। निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ता-ङ्गताऽरुचिः। तृष्णा मोहो मदः स्तम्भो दाहः शीतंहृदिव्यथा। पक्तिश्चिरेण दोषाणामुन्मादः श्यावद-न्तता। रसना परुषा कृष्णा सन्धिमूर्द्धास्थिजा रुजः। निर्भुग्नकलुषे नेत्रे कर्णौ शब्दरुगन्वितौ। प्रलापःस्रोतसां पाकः कूजनं चेतनाच्युतिः। स्वेदमूत्रपुरोषा-णामल्पशः सुचिरात् सृतिः। सर्वजे सर्वलिङ्गानि विशेष-ञ्चात्र मे शृणु। नात्यु ष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षीहतस्वरः। खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः। सास्रनिर्भुग्नहृदयो भक्तद्वेषी हतप्रभः। श्वसन् निप-तितः शेते प्रलापोपद्रवैर्युतः। तमभिन्यासमित्याहु-र्हतौजसमथापरे। सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः। निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम्। संन्यस्त-[Page3167-b+ 38] गात्रं संन्यासं विद्यात्सर्बात्मके ज्वरे। ओजोविस्रंसतेयस्य पित्तानिलसमुच्छ्रयात्। स गात्रस्तम्भशीताभ्यांशयने स्यादचेतनः। अपि जाग्रत् स्वपतु जन्तुस्तन्द्रालुश्चप्रलापवान्। संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः। ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक्। सप्तमेदिवसे प्राप्ते दशमे द्वादशेऽपि वा। पुनर्धोरतरो भूत्वाप्रशमं याति हन्ति वा। द्विदोषोच्छ्रायलिङ्गास्तु द्वन्वजा-स्त्रिविधाः स्मृताः। जृम्भाध्मानमदोत्कम्पपर्वभेदपरि-क्षयाः। तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके। शूलकासकफोत्क्लेशशीतवेपथुपीनसाः। गौरबारुचि-विष्टम्भा वातश्लेष्मसहृद्भवे। शीतदाहारुचिस्तम्भस्वेद-मोहमदभ्रमाः। कासाङ्गसादहृल्लासा भवन्ति कफ-पैत्तिके। क्षामाणां ज्वरमुक्तानां मिथ्याहारविहारि-रिणाम्। दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः। सन्ततान्येद्युषत्र्याख्यचातुर्थान् सप्रलेपकान्। कफस्थान-विभागेन यथासङ्घ्यं करोति हि। अहोरात्रादहो-रात्रात् स्थानात् स्थानं प्रपद्यते। ततश्चामाशयं प्राप्यघोरं कुर्य्याज्ज्वरं नृणाम्। तथा प्रलेपको ज्ञेयः शोषिणांप्राणनाशनः। दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोष-कृत्। कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा। विपर्य्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान्। परोहेतुः स्वभावो वा विषमे कैश्चिदीरितः। आगन्तुश्चानु-बन्धो हि प्रायशो विषमज्वरे। वाताधिकत्वात् प्रवदन्तितज्ज्ञास्तृतीयकञ्चापि चतुर्थकञ्च। औपात्यके मद्यसमु-द्भवे च हेतु ज्वरे पित्तकृतं वदन्ति। प्रलेपकं वातबला-सकञ्च कफाधिकत्वेन वदन्ति तज्ज्ञाः। मूर्च्छानुबन्धा-विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु। त्वक्स्थौश्लेष्मानिलौ शीतमादौ जनयतो ज्वरे। तयोः प्रशा-न्तयोः पित्तमन्ते दाहं करोति च। करोत्यादौ तथापित्तं त्वक्स्थं दाहमतीव च। तस्मिन् प्रशान्ते त्वितरौकुरुतः शीतमन्ततः। द्वावेतौ दाहशीतादी ज्वरौ संस-र्गजौ स्मृतौ। दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमःस्मृतः। प्रसक्तश्चाभिधातोत्थश्चेतनाप्रभवस्तु यः। रा-त्र्यह्नोः षट्सु कालेषु कीर्त्तितेषु यथा पुरा। प्रसह्यविषमोऽभ्येति मानवं बहुध ज्वरः। स चापि विषमोदेहं न कदादिद्विमुञ्चति। ग्लानिगौरवकाश्र्येभ्यः सयस्मान्न प्रमुच्यते। वेगे तु समतिक्रान्ते गतोऽयमितिलक्ष्यते। धात्वन्तरस्थो लीनत्वान्न सोक्ष्म्यादुपलभ्यते। [Page3168-a+ 38] अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः। दोषोऽ-ल्पोऽनिलसंभूतो ज्वरोत्सृष्टस्य वा पुनः। धातुमन्यतमंप्राप्य करोति विषमज्वरम्। सन्तरं रसरक्तस्थः सोऽन्येद्युःपिशिताश्रितः। मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतःपुनः। कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम्। केचिद्भूताभिषङ्गोत्थं ब्रुवतेविषमज्वरम्। सप्ताहं वा दशाहंवा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते। अहोरात्रे सन्ततको द्वौ कालाषनु-वर्तते। अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते। तृतीय-कस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः। वातेनोद्धूयमानस्तुयथा पूर्येत सागरः। वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वैज्वरान्। यथा वेगागमे वेलां छादयित्वा महोदधेः। वेगहानौ तदेवाम्भस्तत्रैवान्तर्निधीयते। दोषवेगोदयंतद्वदुदीर्येत ज्वरोऽस्यवै। तेमहानौ प्रशाम्येत यथाम्भःसागरे तथा। विविधेनाभिधातेन ज्वरो यःसंप्रवर्तते। यथा दोषप्रकोपन्तु तथा मन्ये त तं ज्वरम्। श्यावास्यताविषकृते दाहातीसारहृद्ग्रहाः। अभक्तरुक्पिपासाच तोदो मूर्च्छा बलक्षयः। अओषधौगन्धजे मूर्च्छा शिरो-रुक्क्षवथुस्तथा। कामजे चित्तविभ्रंशस्तन्द्रालस्यमभक्त-रुक। हृदये वेदना चाशु गात्रञ्च परिशुष्यति। भयात् प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः। अभिचारा-भिशापाभ्यां मोहस्तृष्णाभिजायते। भूताभिषङ्गादु-द्वेगहास्यकम्पनरोदनम्। श्रमक्षयाभिघातेभ्यो देहिनांकुपितोऽनिलः। पूरयित्वाखिलं देहं ज्वरमापादयेद्-भृशम्। रोगाणां तु समुत्थानाद्विदाहागन्तुतुस्तथा। ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः। दोषाणां सतु लिङ्गानि कदाचिन्नातिवर्तते। गम्भीरस्तु ज्वरो ज्ञेयोह्यन्तर्दाहेन तृष्णया। आनद्धत्वेन चात्यर्थं श्वास-कासोद्गमेन च। हतप्रभेन्द्रियं क्षमं दुरात्मानमुप-द्रुतम्। गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्। हीनमध्याधिकैर्दोषैस्त्रिसप्तद्धादशाहिकः। ज्वरवेगो भवे-त्तीव्रो यथापूर्बं सुखक्रियः। इति ज्वराः समाख्याताकर्मेदानीं प्रवक्ष्यते”। ज्वरभेदे क्रियाभेदः सुश्रु॰ उ॰ त॰ उक्तो यथा
“ज्वरस्य पूर्वरूपेप्रुवर्त्तमानेषु बुद्धिमान्। पाययेत घृतंज्वच्छं ततः स लभते सुखम्। विधिर्मारुतजेष्वेषपत्तिकेष विरेचनम। मृदु प्रच्छर्दनं तद्वत्कफजेषु विधी-यते। सर्बं द्विदोषजेषूक्तं यथादोषं विकल्पयेत्। [Page3168-b+ 38] अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना। रूप-प्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत्। प्रव्यक्तरूपेषुहितमेकान्तेनापतर्पणम्। आमाशयस्थे दोषे तु सोत्-क्लेशे वमनं परम्। आनद्धः स्तिमितैर्द्दोषैर्य्यावन्तं काल-मातुरः। कुर्य्यादनशनं तावत्ततः संसर्गमाचरेत्। नलङ्घयेन्मारुतजे क्षयजे मानसे तथा। अलङ्घ्याश्चापिये पूर्बं द्विव्रणीये प्रकोर्त्तिताः। अनवस्थितदोषाग्नेर्ल्ल-ङ्घनं दोषपाचनम्। ज्वरघ्नं दीपनं काङ्क्षारुचिलाघव-कारकम्। सूष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहंलघुम्। प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम्। बलक्षयस्तृषाशोषस्तन्द्रानिद्राभ्रमक्लमाः। उपद्रवाश्चश्वासाद्याः सम्भवन्त्यतिलङ्घनात्। दीपनं कफविच्छेदिपित्तवातानुलोमनम्। कफवातज्वरार्त्तेभ्यो हितमुष्णाम्बुतृट्च्छिदम्। तद्धि मादवकृद्दोषस्रोतसां शीतमन्यथा। सेव्यमानेन तोयेन ज्वरः शीतेन वर्द्धते। पित्तमद्यविषो-त्थेषु शीतलं तिक्तकैः शृतम्। गाङ्गेयनागरोशीरपर्प-टोदीच्यचन्दनैः। दीपनी साचनी लध्वी ज्वरार्त्तानांज्वरापहा। अन्नकाले हिता पेया यथास्वम्पाचनैःकृता। बहुदोषस्य मन्दाग्नेः सप्तरात्रात्परं ज्वरे। लङ्घनान्ते यवागूभिर्यदा दोषो न पच्यते। तदा तं मुख-वैरस्यतृष्णारोचकनाशनैः। कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैःसमुपाचरेत्। पञ्चमूलीकषायन्तु पाचनं पवनज्वरे। सक्षौद्रं प्रैत्तिके मुस्तकटुकेन्द्रयवैः कृतम्। पिप्पल्यादि-कषायन्तु कफजे परिपाचनम्। द्वन्द्वजेषु तु संसृष्टंदद्यादथ विवर्जयेत्। पीताम्बुर्लङ्घितोभुक्तो जीर्णीक्षीणः पिपासितः। मृदौ ज्वरे लघौ देहे प्रचलेषुमलेषु च। पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्। दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्। हृदयोद्वेष्टनंतन्द्रालालास्रुतिररोचकम्। दोषाप्रवृत्तिरालस्यंविबन्धो बहुमूत्रता। गुरूदरत्वसस्वेदो न पक्तिः शकृ-तोऽरतिः। स्वापः स्तम्भो गुरुत्वस्य गात्राणां वह्निमा-र्दवम्। मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवान् ज्वरः। लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः। सप्तरात्रात्परंकेचिन्मन्यन्ते देयमौषधम्। दशरात्रात्परं केचिद्दातव्य-मिति निश्चिताः। पौत्तिके वा ज्वरे देयमल्पकालसमु-त्थिते। अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः। भोषजंह्यामदोषस्य भूयो ज्वलयति ज्वरम्। शोधनं शमनीयन्तुकरोति विषमज्वरम्। च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं[Page3169-a+ 38] सदा। अतिप्रवर्त्तमानञ्च माधयेदतिसारवत्। यदाकोष्ठानुगाः प्रक्वाविबद्धाः स्रोतसां मलाः। अचिरज्वरि-तस्यापि तदा दद्याद्विरेचनम्। पक्वोह्यनिर्हृतोदोषोदेहे तिष्ठन् महात्ययम्। विषमं वा ज्वरं कुर्य्याद्बल-व्यापदमेब च। तस्मान्निर्हरणं कार्य्यं दोषाणां वमना-दिभिः। प्राक्कर्म्म वमनं चास्य कार्य्यमास्थापनं तथा। विरेचनं तथा कुर्य्याच्छिरसश्च विरेचनम्। क्रमेणबलिने देयं वमनं श्लैष्मिके ज्वरे। पित्तप्राये विरेकस्तुकार्य्यः प्रशिथिलाशये। सरुजेऽनिलजे कार्य्यं सोदा-वर्त्ते निरूहणम्। कटीपृष्ठग्रहार्त्तस्य दीप्ताग्नेरनुवा-सनम्। शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम्। कफाभि-पन्ने शिरसि कार्य्यं मूर्द्धविरेचनम्। दुर्बलस्य समाध्मा-तमुदरं सरुजं दिहेत्। दारुहैमवतीकुष्ठशताह्वाहिङ्गु-सैन्धवैः। अम्लपिष्टैः सुखोष्णैश्च पवने तूर्द्ध्वमागते। रुद्धमूत्रपुरीषाय गुदे वर्त्तिं निधापयेत्। पिप्पलीपि-प्पलीमूलयवानीचष्यसाधिताम्। पाययेत यवागूं वामारुताद्यनुलोमनीम्। शुद्धस्योभयतो यस्य ज्वरः शान्तिंन गच्छति। सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत्। कृशञ्चैवाल्पदोषञ्च शमनीयैरुपाचरेत्। उपवासैर्बलस्थन्तुज्वरे सन्तर्पणोत्थिते। क्लिन्नां यवागूं मन्दाग्निं तृषार्त्तंपाययेन्नरम्। तृट्च्छर्दिदाहघर्मार्त्तं मद्यपं लाजतर्प-णम्। सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम्। उप-पासश्रमकृते क्षीणे वाताधिके ज्वरे। दीप्ताग्निं मोजये-त्प्राज्ञो नरं मांसरसौदनम्। मुद्गयूषौदनञ्चापि हितंकफसमुत्थिते। स एव सितया युक्तः शीतः पित्त-ज्वरे हितः। दाडिमामलमुद्गानां युषश्चानिलपैत्तिके। ह्रस्वमूलकयूषेण भोजयेत्कफवातिके। पटोलनिम्बयूषस्तुपथ्यः पित्तकप्रात्मके। दाहच्छर्दियुतं क्षामं निरन्नंनृष्णयार्दितम्। सिताक्षौद्रयुतं लाजतर्पणं पाययेत च। कफपित्तपरीतस्य ग्रोष्मेऽसृक्पित्तनस्तथा। मद्यनित्यस्यन हिता यवाहूस्तमुपाचरेत्। यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वारसैर्हितैः। मद्यं पुराणं मन्दाग्वेर्य्यवान्नोपहितं हि-तम्। सव्योषं वितरेत्तक्रं कफारोचकपीडिते। कृशोऽल्प-दोषो दीनश्च नरो जीर्णज्वरार्दितः। विबद्धः सृष्टदोषश्चरूक्षः पित्तानिलज्वरी। पिपासार्त्तः सदाहो वा षयसास सुखी भवेत्। तदेव तु पयः पीतं तरुणे हन्ति मा-तवम्। सर्वज्वरेषु सप्ताहं मात्रावद्भोजनं हितम्। वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम्। ज्वरितो[Page3169-b+ 38] हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्। अन्नकाले ह्यभुञ्जानःक्षीयते म्रियतेऽथ वा। गुर्वभिष्यन्द्यकाले च ज्वरीनाद्यात्कथञ्चन। न तु तस्याहितं भुक्तमायुषे वा सुखायवा। सततं विषमं वापि क्षीणस्य सुचिरोत्थितम्। ज्वरंसंभोजनैः पथ्यैर्लघुभिः समुपाचरेत्। मुद्गान्मसूरांश्च-णकान् कुलत्थान् समकुष्ठकान्। आहारकाले यूषार्थंज्वरिताय प्रदापयेत्। लाबान् कपिञ्जलानेणान् पृषतान्शरभान् शशान्। कालपुच्छान् कुरङ्गांश्च तथैव मृगमा-त्रकाम्। मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत्। सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरीस्तथा। गुरूष्ण-त्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः। ज्वरितानां प्र-कोपन्तु यदा याति समीरणः। तदैतेऽपि हि शस्यन्तेमात्राकालोपपादिताः। परिषेकावगाहांश्च स्नेहान्संशोधनानि च। स्तानाभ्यङ्गदिवास्नप्नशीतव्यायामयो-षितः। न भजेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत्। त्यक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः। प्रत्यापन्नोदहेद्देहं शुष्कं वृक्षमिवानलः। तस्मात्कार्य्यः परीहारोज्वरमुक्तेन जन्तुना। यावन्न प्रकृतिस्थः स्याद्दोषतःप्राणतस्तथा। ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः। निषण्णं भोजयेत् तस्मान्मूत्रोच्चारौ च कारयेत्। अरो-चके गात्रसादे वैवर्ण्येऽङ्गमलादिषु। शान्तज्वरोऽपिशोध्यः स्यादनुबन्धभयान्नरः। न जातु तर्पयेत् प्राज्ञःसहसा ज्वरकर्शितम्। तेन सन्दूषितो ह्यस्य पुनरेव भवे-ज्ज्वरः। चिकिस्तेच्च ज्वरान् सर्वान्निमित्तानां विप-र्य्ययैः। श्रमक्षयाभिघातोत्थे मूलव्याधिमुपात्तरेत्। स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः। तत्र संश-मनं कुर्य्याद्यथादोषं विधानवित्”। ( अत्र विशेषो गरुड पुरा॰
१५
२ अ॰ उक्तो यथा।
“ज्वरोरोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः। क्रोधाद्दक्षाध्वरध्वंसो रुद्रोर्द्धनयनोद्भवः। तत्सन्तापोग्रोहमयः सन्तापात्माऽपचारजः। विविधैर्नामभिः क्रूरोनानायोनिषु वर्तते। पाकलो गजेष्वभितापो वाजिष्व-लर्कः कुक्कुरेषु। ईन्द्रमदो जलदेऽप्सु नीलिका ज्योति-रौषधिषु भूस्यामूषरो नाम। हृल्लासश्छर्दनं कासःस्तम्भः शैत्यं त्वगादिषु। अङ्गेषु शीतपिडकामात्रोदर्दः कफोद्भवे। काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेववा। निदानोक्तानुपशयो विपरीतोपशायिता। अरु-चिश्चाविपाकश्च स्तम्भमालस्यमेव च। हृद्दाहश्च विपा-[Page3170-a+ 38] कश्च तन्द्राङ्कालस्य मेव च। वस्तिर्विसर्गविलया दोषा-णामप्रवर्तनम्। लालाप्रसेको हृल्लासः क्षुन्नाशो रसदंमुखम्। यच्च सुष्ठुगुरुत्वञ्च गात्राणां बहुमूत्रता। नविजीर्णा न वा ग्लानिर्ज्वरस्यामस्य लक्षणम्। क्षुत्-क्षामता लघुत्वञ्च गात्राणां ज्वरमार्दवम्। दोषप्रवृत्ति-रष्टाहो निरापज्वरलक्षणम्। यथास्वलिङ्गं संसर्गे ज्व-रसंसर्गजोऽपि बा। शिरोऽर्तिमूर्छावमिदेहदाहकण्ठास्यशोषारुचिपर्वभेदाः। उन्निद्रता संभ्रमरोमहर्षा जृम्भातिवाक्त्वं पवनात् स पित्तात्। तापहान्थरुचिपर्वशिरो-रुक् पीनसश्वसनकासविबन्धाः। शीतजाड्यतिमिर-भ्रमितन्द्राः श्लेष्मवातजनितज्वरलिङ्गम्। शीतस्तम्भस्वेददाहव्यवस्था तृष्णाकासः श्लेष्मपित्तप्रवृत्तिः। मोहस्तन्द्रालिप्नतिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्त-ज्वरस्य। सर्वजो लक्षणैः सर्वैर्द्दाहोऽत्र च मुहुर्मुहुः। तद्वच्छीतं महानिद्रा दिवा जागरणं निशि। सदा वानैव वा निद्रा महास्वेदोऽति नैव वा। गीतनर्तन-हास्यादिप्रकृतेहाप्रवर्तनम्। साश्रुणी कलुषे रक्तेमग्ने लुसितपश्गणी। अक्षिणी पिण्डिका पार्श्वमूर्द्ध-पर्व्वास्थिरुग्म्भ्रमः। सस्वनौ सरुजौ कर्णौ महास्वेदोऽतिनैव वा। परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्निभा। रक्तपित्तकफे जिह्वा लोचने शिरसोऽतितृट्। कीटानांश्यावरक्तानां मुण्डलानाञ्च दर्शनम्। हृद्व्यथा मलसंसर्गःप्रवृत्तिरल्पशोऽति वा। स्निग्धास्यता बलभ्रंशः स्वरसादःप्रलापिता। दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्। सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्। वायुनाकफरुद्धेन पित्तमन्तः सुपीडितम्। व्यवायित्वाच्चसौख्याच्च बहिर्मार्गं प्रपद्यते। तेन हारिद्रनेत्रत्वंसन्निपातोद्भवे ज्वरे। दोषे पिवृद्धे नष्टेऽग्नौ सर्व-संपूर्णलक्षणः। असाध्यः सोऽन्यथा कृच्छ्रो भवे-द्वैकल्पदोऽपि वा। अन्यश्च सन्निपातोत्थो यत्रपित्तं पृथक् स्थितम्। त्वचि कोष्ठे च वा दाहंविदधाति पुरोऽनु वा। तद्वद्वातकफौ शीतं दाहादि-र्दुस्तरस्तयोः। शीतादौ तत्र पित्तेन कफे स्थन्दित-शोषिते। शीते शान्तेऽष्टके मूर्च्छा मदस्तृष्णा चजायते। दाहादौ पुनरन्ते स्थुस्तन्त्रास्वेदवमिक्रमाः। आगन्तुरभिघाताभिषङ्गशापाभिचारतः। चतुर्द्धा तुकृतच्छेदोदाहाद्यैरभिघातजः। श्रमाच्च तस्मिन् पवनःप्रायो रक्तं प्रदूपयन्। सव्यथाशोकवैवर्ण्यं सरुजं[Page3170-b+ 38] कुरुते ज्वरम्। ग्रहावेशौषधिविषक्रोधभीशोककामजः। अभिषङ्गाद् ग्रहेणास्मिन्नकस्मात्त्रासरोदने। औष-धी गन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः। विषात् मूर्च्छा-तिसारास्यश्यावता दाहतृड्भ्रमः। क्रोधात् कम्पःशिरोरुक् च प्रलापो भयशोकजे। कामाद्भ्रमोऽरु-चिर्द्दाहो ह्रीनिद्राधीधृतिक्षयः। ग्रहादौ सन्नि-पातस्य रूपादौ मरुतस्तयोः। कोपः कोपेऽपि पित्तस्ययौ तु शापाभिचारजौ। सन्निपातज्वरौ धोरौ ताव-सह्यतमौ मतौ। तत्राभिचारिकैर्मन्त्रैर्हूषमानस्यतप्यते। पूर्वञ्चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः। सदाहमूर्च्छैर्ग्रस्तस्थ प्रत्यहं वर्द्धते ज्वरः। इति ज्वरो-ऽष्टधा दृष्टः समासाद्विविधस्तु सः। शारीरो मानसःसौम्यस्तीक्ष्णोऽन्तर्वहिराश्रयः। प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः। पूर्वं शरीरे शारीरे तापोमनसि मानसे। पवने योगवाहित्वाच्छीतं श्लेष्मयुतेभवेत्। दाहः पित्तयुते मिश्रं मिश्रेऽन्तःसंश्रये पुनः। ज्वरोऽधिकं विकाराः स्थुरन्तःक्षोभो मलग्रहः। वहिरेव वहिर्वेगे तापोऽपि च सुसाधितः। वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्। वैकृतोऽन्यःमृदुः साध्यः प्रायश्च प्राकृतोऽनिलात्। वर्सासु मारुतोदुष्टः पित्तश्लेष्मान्वितो ज्वरम्। कुर्य्यात् पित्तञ्च शरदितस्य चानुबलः कफः। तत् प्रकृत्या निसर्गाच्च तत्रनानशनाद्भयम्। कफो वसन्ते तमपि वातपित्तं भवेदनु। बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः। सर्वथाविकृतिज्ञाने प्रागसाध्य उदाहृतः। ज्वरोक्पद्रवतीक्ष्णत्वमग्लानि-र्बहुमूत्रता। न प्रवृत्ति र्न विजीर्णा न क्षुत् सामज्वरा-कृतिः। ज्वरवेगेऽधिका तृष्णा प्रलापः श्वसनं भ्रमः। मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्। जीर्णता-मविपर्य्यासात् सप्तरात्रञ्च लङ्घनात्। ज्वरः पञ्चविधःप्रोक्तोमलकालबलाबलात्। प्रायशः सन्निपातेन भूयसा-ऽप्युपदृश्यते। सन्ततः सततोऽन्योद्युस्तृतीयकचतुर्थकौ। धातुमूत्रशकृद्वाहिस्रोतसाव्यापिनो मलाः। तापयन्त-स्तनूं सर्वां तुल्यदृष्थादिबर्द्धिताः। बलिनो गुरवस्तद्व-द्विशेषेण रसान्विताः। सततं निष्प्रतिद्वन्द्वा ज्वरं कुर्य्युः-सुदुःसहम्। मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपये-त्ततः। सर्वाकाररसादीनां शुद्ध्याऽशुद्ध्यापि वा क्रमात्। वातपित्तकफैः सप्तदशद्वादशवासरान्। प्रायोऽनुयातिमर्य्यादां मोक्षय च बधाय च। इत्यग्निवेशस्य मतं[Page3171-a+ 38] हारीतस्य पुनः स्मृतिः। द्विमुण। सप्तमी (चतुर्दशी) या चनवम्येकादशी तथा। एषा त्रिदोषमर्य्यादा मोक्षाय च ब-धाय च। शुद्ध्यशुद्द्यै ज्वरः कालं दीर्घमप्यत्र वर्तते। कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम्। अल्पोऽपि दोषो दुष्ट्यादेर्लब्धान्यतमतो बलम्। स प्रत्यनीकोविषमं यस्माद्वृद्धिक्षयान्वितः। सोऽरिपक्षो ज्वरं कुर्य्या-द्विषमक्षयवृद्धिभाग्। दोषः प्रवर्तते तेषां स्वे कालेज्वरयन् बली। निवर्तते पुनश्चैव प्रत्यनीकबलाबलः। क्षीणदोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते। लीन-त्वात् कार्श्यवैवर्ण्यजाड्यादीनादधाति सः। आसन्नविवृतास्यत्वात् स्रोतसां रसवाहिनाम्। आशु सवैस्यवपुषो व्याप्तिर्द्दोषेण जायते। सन्ततः सततस्तेन विप-रीतो विपर्य्ययात्। विषमो विषमारम्भः क्षपाकालेनसङ्गवान्। दोषो रक्ताशयः प्रायः करोति सन्ततंज्वरम्। अहोरत्रस्य सन्धिः स्यात् सकृदन्येद्युराश्रितः। तस्मिन्मासवहा नाडी मेदोनाडी तृतीयके। ग्राही-पित्तानिलान् मूर्द्ध्नस्त्रिकस्य कफपित्ततः। स पृष्ठस्या-निलकफात् स चैकाहान्तरः स्मृतः। चतुर्थको मलै-र्मेदोमज्जास्थ्यन्यतरस्थिते। मज्जामूत्ररैत्यपरः प्रभा-वमनुदर्शयेत्। द्विविधं कफेन जङ्वाभ्यां सपूर्वंशिरसोऽनिलात्। अस्थिमज्जोरूपगते चातुर्थकविप-र्य्ययः। तिधा त्र्यहं ज्वरयति दिनमेकञ्च मुञ्चति। बलाबलेन दोषाणामनुचेष्टादिजन्मनाम्। पक्वानामवि-पर्य्यासात् सप्तरात्रन्तु लङ्घयेत्। ज्वरः स्यात् मनस-स्तद्वत् कर्मणश्च तदा तदा। गम्भीरधातुचारित्वात् सन्नि-पातेन सम्भवात्। तुल्यो भूयिष्ठदोषाणां दुश्चिकित्स्यश्चतुर्थकः। सूक्ष्मात् सूक्ष्मतरास्येषु दूराद्दूरतरेषु च। दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत्। याति देहञ्चनाशेषं सन्तापादीन् करोत्यतः। क्रमो थत्नेन विच्छिन्नःसन्तापो लक्ष्यते ज्वरः। विषमो विषमारम्भः क्षपाका-लानुसारवान्। यथोत्तरं मन्दमतिर्मन्दशक्तिर्यथायथम्। कालेनांप्नोति सदृशान् स रसादींस्तथा तथा। दोषो ज्वर-यति क्रुद्धश्चिराच्चिरतरेण च। भूमौ स्थितं जलैः सिक्तंकालमेव प्रतीक्षते। अङ्कुराय यथा वीजं दोषवीजंभवेत्तथा। वेगं कृत्वा विषं यद्वदाशये नीयते बलम्। कुप्यत्याप्तबलं भूयः काले दोषविषं तथा। एवं ज्वराःप्रवर्त्तन्ते विषमाः सन्ततादयः। उत्क्लेशो गौरवं दैन्यंभङ्गोऽङ्गानां विजृम्भणम्। अरोचको वमिः श्वासः सर्व-[Page3171-b+ 38] स्मिन्रसगे जवरे। रक्तनिषोदलं तृष्णा अक्ष्णोस्तु पिडलो-द्गमः। दाहरागभ्रममदप्रलावो रक्तसंश्रिते। तृड्{??}स्पष्टवर्च्चस्कमन्तर्द्दाहो भ्रमस्तथा। दौर्बल्यं गात्रविक्षेपोमांसस्थे मेदसि स्थिते। स्वेदोऽतितृष्णा वमनं दौर्{??}चासहिष्णुता। प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेड-नम्। दोषप्रवृत्तिरूर्द्धाधःश्वासाङ्गक्षेपकूजनम्। अन्त-र्द्दाहो बहिःशैत्यं श्वासो हिक्का च मज्जगे। तमसोदर्शनं मर्म्मच्छेदनं स्तब्धमेढ्रता। शुक्रप्रवृत्तिर्मृत्यु वजायते शुक्रसंश्रये। उत्तरोत्तरदुःसाध्याः पञ्चान्येते विपर्य्यये। प्रलिम्पन्निव गात्राणि श्लेष्मणा गौर-वेण च। मन्दज्वरः प्रलापस्तु स शीतः स्यात् प्रलेपकः। नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण गच्छति। स्त-ब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः। हरिद्राभेदवर्णा-भस्तद्वल्लेपः प्रमेहति। स वै हारिद्रको नाम ज्वरभे-दोऽन्तकः स्मृतः। कफवातौ समौ यत्र हीनपित्तस्यदेहिनः। तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजोज्वरः। दिवकरापितवले व्यायापामाच्च विशोषिते। शरीरेनियतस्थाता ज्वरः स्यात् पौर्वरात्रिकः। आमाश्येयदा दुष्टे श्लेष्मपित्ते ह्यधःस्तिते। तदार्द्धं शीतलंदेहे त्वर्द्धं चोष्णं प्रजायते। काये पित्तं यदा दुष्टंश्लेष्मा चान्ते व्यवस्थितः। उष्णत्वं तेन देहस्य शो{??}करपादयोः। रसरक्ताश्रयः साध्यो मांसमेदोगतश्च यः। अस्थिमज्जागतः कृच्छ्रस्तैस्तैः साङ्गैर्हतप्रभः। वि-संज्ञो ज्वरवेगार्त्तः सक्रोध इव वीक्ष्यते। सदोष्णशब्दञ्चशकृदुद्रवं मुञ्चति वेगवत्। देहो लघुर्व्यपगतक्लभमीह-तापः पाको मुखे करणसौष्ठबमव्यथत्वम्। स्वेदः क्षपःप्रकृतिगामिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वर-लक्षणानि”। ( माधवकरनिदाने वातिकादीनां लक्षणभेद उक्तस्तत्रवातिकस्य लक्षणं यथा
“वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्। निद्रानाशः क्षवः-स्तम्भो गात्राणां रौक्ष्यमेब च। शिरोह्वद्गात्ररुग्वक्लवैरस्यंगाढविट्कता। शूलाध्माने जृम्भणञ्च भवत्यनिलजे ज्वरे। पैत्तिकस्य लक्षणं यथा
“वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः। कण्ठौष्ठसुखनासाना पाकः स्वेदस जायते। प्रलापो वक्त्रकटुतामूर्च्छा दाहो मदस्तृषा। पीतविण्मूत्रनेत्रत्वं पैत्तिकेभ्रम एव च”। [Page3172-a+ 38] कफनिमित्तजस्य माधवकरनिदानोक्तं लक्षणं यथा
“स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता। शुक्ल-मूत्रपुरीषत्वं स्तम्भस्तप्तिरथापि च। गौरवं शीतमुत्क्लेदोरोमहर्षोऽतिनिद्रता। प्रतिश्यायोऽरुचिः कासः कफजे-ऽक्ष्णोश्च शुक्लता”। वातपैत्तिकस्य लक्षणं यथा
“तृष्णा मूर्च्छा भ्रमो दाहःस्वप्ननाशः शिरोरुजा। कण्ठास्यशोषो वमथूरोमहर्षो-ऽरुचिस्तमः। पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः। वातश्लैष्मिकस्य लक्षणं यथा
“स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च। शिरोग्रहःप्रतिश्यायः कासः स्वेदाप्रवर्त्तनम्। सन्तापो मध्यवेगश्चवातश्ले ष्मज्वराकृतिः”। पित्तश्लैष्मिकस्य लक्षणंयथा
“लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा। मुहु-र्दाहो मुहुःशीतं पित्तश्लेष्मज्वराकृतिः”। सान्निपातिकस्य लक्षणं यथा
“क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा। सास्रावेकलुषे रक्ते निमग्ने चापि लोचने। स्वखनौसरुजौ कर्णौ कण्ठः शूकैरिवावृतः। तन्द्रा मोहःप्रलापश्च कासः श्वासोऽरुचिर्भ्रमः। परिदग्धा खर-स्पर्शा जिह्वा त्रस्ताङ्गता परम्। ष्ठीवनं रक्तपित्तस्यकफेनोन्मिश्रितस्य च। शिरसो लोटनं तृष्णा निद्रा-नाशो हृदि व्यथा। खेदमूत्रपुरीषाणां चिराद्दर्शन-मल्पशः। कृशत्वं नातिगात्राणां सततं कण्ठकूजनम्। कीटानां श्यावरक्तानां मण्डलानाञ्च दर्शनम्। मूकत्वंस्रोतसां पाको गुरुत्वमुदरस्य च। चिरात् पाकश्चदोषाणां सन्निपातज्वराकृतिः”। असाध्यस्य सान्निपातिकस्य तस्य लक्षणं यथा
“दोषे विरुद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः। सन्नि-पातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा। सप्तमे दिवसेप्राप्ते दशमे द्वादशेऽपि वा। पुनर्घोरतरोभूत्वा प्रशमंयाति हन्ति वा। सप्तमी द्विगुणा (चतुर्द्दशी) चैवनवम्येकादशी तथा। एषा त्र्दोषमर्य्यादा मोक्षाय चबधाय च। सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः। ( शोथः संजायते तेन कश्चिदेव प्रमुच्यते”। जीर्णस्य लक्षणं यथा
“त्रिसप्ताहव्यतीतस्तु ज्वरोयस्तनुतां गतः। प्लीहाग्नि-सादं कुरुते स जीर्ण इति उच्यते”। [Page3172-b+ 38] आमन्तोर्लक्षणं यथा
“अभिघाताभिचाराभ्यामभिषङ्गा भ-शापतः। आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत्”। विषभक्षणजागन्तुकस्य तस्य लक्षणं यथा
“श्यवास्यता विषकृते तथातीसार एव च। भक्तारुचिःपिपासा च तोदश्च सह मूर्च्छया”। ओषधीगन्धजस्य कामजस्य च तस्य लक्षणं यथा।
“औषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा। कामजे चित्तविभ्रं शस्तन्द्रालस्यमभोजनम्”। भवादिजस्य लक्षणं यथा
“भयात् प्रलापः शोकाच्चभवेत् कोपाच्च वेपथुः। अभिचाराभिशापाभ्यां मोह-स्तृष्णा च जायते। भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम्। कामशोकभयाद्वायुः क्रोधात् पित्तं त्रयो-मलाः। भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः”। विषमज्वरस्य संप्राप्तिर्यथा
“दोषोऽल्पिऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः। धातु-मन्यतमं प्राप्य करोति विषमज्वरम्”। सन्ततादिज्वराणां प्रतिनियतं धातवोदूष्यास्तथा हि
“सन्तती रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः। मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः। कुर्याच्चातुर्थकंघोरमन्तकं रोगसङ्करम्। सप्ताहं वा दशाहं वा द्वाद-शाहमथापि वा। सन्तत्या योऽविसर्गी स्यात् सन्ततःस निगद्यते। अहोरात्रे सन्ततको द्वौ कालावनुव-र्त्तते। अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्त्तते। तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः। केचिद्भूताभिषङ्गोत्थंब्रुवते विषमज्वरम्। कफपित्तात् एकग्राही पृष्ठाद्वातकफात्मकः। वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः। चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः। जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः। विषम-ज्वर एवान्यश्चातुर्थकविपर्य्ययः। मध्ये अहनी ज्वरय-त्यादावन्ते च मुञ्चति”। वातबलासकलक्षणं
“नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति। स्तब्धाङ्गःश्लेष्मभूयिष्ठो नरो वातबलासकी”। प्रलेपकलक्षणं यथा
“प्रलिम्पन्निव गात्राणि धर्मेण गौरवेण वा। मन्दज्वरोविलेपी च सशीतः स्यात् प्रलेपकः”। विषमज्वरविशेषाः।
“विदग्धेऽन्नरसे देहे श्लेद्मपित्ते व्यवस्थिते। तेनार्द्धं[Page3173-a+ 38] शीतलं देहे चार्द्धञ्चोष्णं प्रजायते। काये दुष्टं यदापित्तं श्लेष्मा चान्ते व्यवस्थितः। तेनोष्णत्वं शरीरस्य शी-तत्वं हस्तपादयोः” अत्र मतान्तरम्।
“काये श्लेष्मायदा दुष्टः पित्तञ्चान्ते व्यवस्थितम्। शीतत्वं तेन गात्रा-णामुष्णत्वं हस्तपादयोः”। शीतपूर्वोज्वरो यथा।
“त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे। तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च”। दाहपूर्वो ज्वरो यथा।
“करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च। तस्मिन् प्रशान्ते हीतरौ कुरुतः शीतमन्ततः। द्वावेतौदाहशीतादी ज्वरौ संसर्गजौ स्मृतौ। दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः”। वातादिज्वराणां धातुविशेषदुष्यतया रसादिगतदोषजज्वराणां लक्षणानि
“गुरुता हृदयोत्क्लेशः सदनं छर्द्यऽरोचकौ। रसस्थेन्यज्ज्वरे लिङ्गं दैन्यञ्चास्योपजायते”
१ । रक्तनिष्ठीवनंदाहो मोहश्छर्दनविभ्रमौ। प्रलापः पिडका तृष्णारक्तप्राप्ते ज्वरे नृणाम्
२ । पिण्डकोद्वेष्टनं तृष्णा दुष्टमूत्र-पुरीषता। ऊष्मान्तर्दाहविक्षेपौ ग्लानिःस्यान्मांसगे ज्वरे
३ । भृशं स्वेद स्तृषा मूर्च्छा प्रलापश्छर्दिरेव च। दौर्गन्ध्या-रोच कौ ग्लानिर्मेदःस्थे चासहिष्णुता
४ । भेदोऽस्थ्नांकूजनं श्वासो विरेकश्छर्दिरेव च। विक्षेपणञ्च गात्राणामेतदस्थिगते ज्वरे
५ । तमः प्रवेशनं हिक्का कासः शैत्यंवमिस्तथा। अन्तर्द्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे
६ । मरणं प्राप्नुयात् तत्र शुक्रस्थानगते ज्वरे
७ । शेफसःस्तब्धतामोक्षा शुक्रस्थे तु विशेषतः”। ऋतुभेदे प्राकृतादिज्वरविशेषो यथा(
“वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्। वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः। वर्षासुमारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्। कुर्य्यात्पित्तञ्च शरदि तस्य चानुबलः कफः। तत् प्रकृत्या विद-ध्याच्च तत्र नानशनाद्भयम्। कफो वसन्ते तमपि वात-पित्तं भवेदनु। काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा। अन्तर्वेगज्वरलक्षणम्।
“अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। सन्ध्यस्थि-शूलमस्वेदो दोषवृद्धौ विनिग्रहः। अन्तर्वेगस्य लिङ्गानिज्वरस्यैतानि लक्षयेत्”। [Page3173-b+ 38] बहिर्वेगज्वरलक्षणम्
“सन्तापोऽभ्यधिको वाह्यस्तृष्णादीनाञ्चमार्दवम्। बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च”। आमज्वरलक्षणम्
“लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः। तन्द्रालस्या-विपाकास्यवैरस्यं गुरुगात्रता। क्षुन्नाशो बहुमूत्रत्वंस्तब्धता बलवान् ज्वरः। आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम्। भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्। पच्यमानज्वरस्य लक्षणं यथा
“ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। मलप्र-वृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्”। पक्वज्वरस्य लक्षणम्(
“क्षुत्क्षामता लघुत्वञ्चगात्राणां ज्वरमार्दवम्। दोष-प्रवृत्तिरष्टाहो निरामज्वरलक्षणम्”। साध्यज्वरस्य लक्षणं यथा
“बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः”। असाध्यज्वरलक्षणं यथा।
“हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः। ज्वरःप्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः। ज्वरक्षीणस्य शूनस्यगम्भीरो दैर्ध्यरात्रिकः। असाध्यो वलवान् यश्च केश-सीमन्तकृज्ज्वरः”। गम्भीरस्य लक्षणं यथा
“गम्भीरस्तु ज्वरो ज्ञेयोह्यन्तर्दाहोन तृष्णया। आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेव च। आरम्भाद्विषमो यस्तु यश्च वा दैर्घ्यरात्रिकः। क्षीणस्यचातिरूक्षस्य गम्भीरोयस्य हन्ति तम्। विसंज्ञस्ताम्यतेयस्तु शेते निपतितोऽपि वा। शीतार्दितोऽन्तरुष्णश्च ज्वरेणम्रियते नरः। यो हृष्टरोमा रक्ताक्षो हृदिसंधातशूलवान्। वक्त्रेण चैवोच्छसिति तं ज्वरो हन्ति मानवम्। हिक्का-श्वासतृषायुक्तं मूढविम्रान्तलोचनम्। सन्ततोच्छ्वासिनंक्षीणं नरं क्षपयति ज्वरः। हतप्रभेन्द्रियक्षाममरोचक-निपीडितम्। गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्जयेत्”। ज्वरस्योपद्रवा रक्षितोक्ताः यथा
“श्वासोमूर्च्छाऽरुचिश्छर्दिस्तृष्णातीसारविड्ग्रहाः। हि-क्काकासोऽङ्गमेदश्च ज्वरस्योपद्रवा दश”। ज्वरमुक्तिपूर्वरूपम्।
“दाहः स्वेदो भ्रमस्तष्णा कम्प-विडभिसंज्ञिता। कूजनञ्चास्यवैगन्ध्यमाकृतिर्ज्वरमोक्षणे”।
“ज्वरमुक्तलक्षणं
“स्वेदो लघुत्वं शिरसः कण्डूपाकोमुखस्यच। क्षवथुश्चान्नलिप्सा च ज्वरमुक्तस्य लक्षणम्”। सुश्रुतगारुडाद्युक्ताद् विशेषज्ञापनाय पृथगुपन्यासः। [Page3174-a+ 38] ज्वरितस्य वर्ज्याबर्ज्यानि भावप्र॰ उक्तानि यथा
“सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत्। निर्वात-मायुषो वृद्धिमारोग्यं कुरुते यतः। व्यजनस्यानिलस्तृष्णास्वेदमूर्च्छाश्रमापहः। तालवेत्रभबो वात-स्त्रिदोषशमनो मतः। वंशव्यजनजः सोष्णो रक्तपित्तप्रकोपनः। चामरो वस्त्रसंभूतो मायूरो वेत्रजस्तथा। एते दोषजिता वाताः स्तिग्धा हृद्याः सुपूजिताः। नषज्वरी भवेद्यत्नाद्गुरूष्णवसनावृतः। यथर्तुपक्वपानीयंपिवेत् किञ्चिन्निवारयन्। विनापि भेषजैर्व्याधिः पथ्यादेवनिवर्तते। न तु पथ्यविहीनस्य भेषजानां शतैरपि। ततो ज्वरे वर्जनीयान्याह सुश्रुतः
“परिषेकान् प्रदे-हांश्च स्नेहान् संशोधनानि च। दिवास्वप्नं व्यवायञ्चव्यायामं शिशिरं जलम्। क्रोधप्रवातभोज्यांश्च वर्जये-त्तरुणज्वरी”। परिषेकः स्तानादिः, प्रदेहोऽनुलेपना-भ्यङ्गादिः। परिषेकादिसेवने दोषमाह तत्रैव(
“शोषं छर्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम्। प्राप्तोत्युपद्रवानेतान् परिषेकादिसेवनात्”। आदि-शब्देन प्रदेहादयो गृह्यन्ते। हारीतेन प्रत्येकं सेवनेकलसुक्तञ्च
“व्यायामज्ज्वरसंवृद्धिर्त्यवायात स्तम्भमूर्च्छनम्। मृतिश्च स्नेहपानाद्यैर्मूर्च्छा छर्दिर्मदोऽरुचिः। गुर्वन्नभो-जनात् स्वप्नाद्विष्टम्भो दोषकोपनम्। अग्निसादः खर-त्वञ्च स्रोतसां च प्रवर्तनम्”। मृतिरिति व्यवायादित्यत्रसंवध्यते। स्वप्नात् दिवास्वापात्, ज्वरमुक्तावपि वर्ज्यमाह।
“सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च। असा-त्म्यान्नानि पानानि विरुद्धाध्यशनानि च। व्यायाम-मतिचेष्टां वाऽभ्यङ्गं स्नानञ्च वर्जयेत्। तेन ज्वरः शमंयाति शान्तश्च न पुनर्भवेत्”। ज्वरी लङ्घनं कुर्य्यादित्याहचरको वाग्भटश्च
“आमाशयस्थो हत्वाग्निं सामोमार्गान् पिधापयन्। विदधाति ज्वरं दोषस्तस्माल्लङ्घन-माचरेत्”। तथा
“ज्वराद्रौ लङ्घनं प्रोक्तं ज्वरमध्येतु पाचनम्। ज्वरान्ते भोषजं दद्याज्ज्वरमुक्ते विरे-चनम्। त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्। दोषेऽपि लङ्घनं पथ्य मध्ये लङ्घनपाचनम्। प्रभूतेशोभनं तच्च मूलादुन्मूलयेन्मलान्”। चक्रदत्तश्च
“तरुणंतु ज्वर पूर्वं लङ्घनेन क्षयं नयेत्। आमदोषमलिङ्गाद्वालङ्घयेत्तं यथाविधि,। अन्यच्च
“वातः पचति सप्तहात्पित्तं तु दशमिर्दिनैः। श्लेष्माद्वादशभिर्धस्रैः पच्यतेवदतां वर!।
“लङ्घनं लङ्घनीयस्तु कुर्य्याद्दोषानुरूपतः। [Page3174-b+ 38] त्रिरात्रमेकरात्रं वाऽहोरात्रमथ वा ज्वरे। निर्वात-सेवनात् स्वेदाल्लङ्घनादुष्णवारिणः। पानादामज्वरेक्षीणे पश्चादौषधमाचरेत्”। आत्रेयेणोक्तम्
“ज्वरादौलङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्। ज्वरान्ते भेषजंदद्याज्ज्वरमुक्ते विरेचनम्। दोषशेषस्य पाकार्थमग्नेःसन्धुक्षणाय च। लङ्घितश्चाप्यदोषश्चेत् यवागूपानमा-चरेत्। शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत्। पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने। अत्यर्थंलङ्घितं दृष्ट्वा तस्य सन्तर्पणे हितम्। द्राक्षादाडिमखर्जूरपियालैः सपरूषकैः। तर्पणार्हस्य कर्तव्यन्तर्पणंज्वरशान्तये”। अत्र लङ्घनशब्देनानशनमुच्यते। यतआह सुश्रुतः
“अनद्धःस्तिमितैर्दोषैर्यावन्तं कालमातुरः। तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत्”। आनद्धःस्तिमितै-र्दोषैः सम्बन्द्धः। संसर्गं औषधान्नादिप्रसङ्गम्। यत्रआह चरकः
“चतुःप्रकारा संशुद्धिः पिपासारोध-प्तारुतो। पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्। चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम्। निरूहणं च व-स्तिश्च शिरोविरेचनं तथा। तत्वनुवासनं कार्य्यं तस्यवृंहणत्वात्। अत्र लङ्घनं कर्शनमित्यर्थः। तथा च सुश्रुतः
“शरीरलाघवकरं यद्द्रव्यं कर्म वा पुनः। तं लङ्घन-मिति ज्ञेयं वृंहणं तु पृथग्विधम्”। लङ्घनात्कर्शनादन्यत्शरीरपोषकमित्यर्थः। ननु
“आनद्धः स्तिमितैर्दोषैरित्यादिपूर्वोक्तमुश्रुतवचनात्सामान्यतो ज्वरिणा यथाऽनशगरूपंलङ्घनं क्रियते। तथा चतुःप्रकारा संशुद्धिः इत्यादिचरकवचनाद्वमनादिरूपं लङ्घनं सर्वैर्ज्वरिभिः कथं नक्रियते। तत्रोच्यते वमनादिकमंवस्थाविशषषु क्रियतेनतु सर्वज्वरेषु तथा च सुश्रुतः
“सोत्क्लेशे बलेने देयंवमनं श्लैष्मिकज्वरे। पित्तप्राये विरेकस्तु कार्यः प्रशि-थिलाशये। सरुजे नीरुजे कार्य्यं सोदावर्त्ते निरूहणम्-कफाभिपन्ने शिरसि कार्य्यं मूर्द्धविरेचनम्”। अपिचसर्वज्वरिभिः पिपासानिग्रहो न कार्य्यः। यत आहहारीतः।
“तृष्णा गरीयसी धोरा सद्यः प्राणविना-शिनी। तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम्”। अतोऽवस्थाविशेष एव पिपासासहनं ज्वरिभिर्मारुतसेवनंन कार्य्यम् सुश्रुतेन प्रवातसेवनस्य सर्वथा निषिद्ध-त्वात्। अतो मारुतसेवनमप्यवस्थाविशेष एव युक्तम्। लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते। तदा तुमुखवैरस्यतृष्णारोचकनाशनैः। ज्वरघ्नैः पाचनैर्हृद्यैः[Page3175-a+ 38] कषायैः समुपाचरेत्” इत्यत्र लङ्घनपाचनयोः स्फुटएव भेदः। व्यायामोऽपि न कार्य्यस्तस्यातिनिषिद्ध-त्वात् अवस्थाविशेषे पुनः पार्श्वपरिवर्तनादिरूपःसोऽपि कर्त्तव्यः तस्माच्चतुःप्रकारा संशुद्धिरित्यादिश्लोकेलङ्घनपदं कर्शनपर्य्यायमिति निर्णीतम्। अनशनरूपस्यलङ्घनस्य फलमाह
“लङ्घनेन क्षयं नीते दोषे सन्धु-क्षितेऽनले। विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते”। लङ्घनेन अनशनेन प्रवृद्धे दोषे क्षयन्नीते। यत आह
“आहारं पचति शिखी दोषानाहारवर्जितः”। पचतीतिसन्धुक्षितेऽनले आच्छादकदोषे क्षीणेऽग्नौ प्रदीप्ते यथो-क्तसंप्राप्तिसामग्रीविघटनात् विज्वरत्वं शरीरस्य गौरवा-भावेन लघुत्वम्। क्षुत् बुभुक्षा च जायते इत्यर्थः। अन्यच्चाह सुश्रुतः
“अनवस्थितदोषाग्नेर्लङ्घनं दोष-पाचनम्। ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारणम्”। अनवस्थितदोषाग्नेः स्वस्थानादितो गतोदोषोऽग्निश्चयस्य तस्य ज्वरिणः काङ्क्षा अन्नाभिलाषः, रुचिः लङ्घने-नामपाकान्मु खशोषादिनाशे मुखस्य यत्प्रकृतत्वं सैवरुचिः शोभा।
“रुचिः स्त्री दीप्तिशोभायामभीष्टार्था-भिलाषयोरिति” मेदिनीकारः” सम्यक्वृतस्य लङ्घनस्यलक्षणमाह
“वातमूत्रपूरीषाणां विसर्गे गात्रलाघवे। हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते। स्वेदे जातेऽरुचौ चापि क्षुत्पिपासासहोदये। कृतं लङ्घनमाद्देश्यंनिर्व्यथे चान्तरात्मनि”। हृदयस्य शुद्धिरनवरोधः उद्गार-शुद्धिः सधूमाम्लोद्गाराभावः। कण्ठस्य शुद्धिः कफानव-लिप्तत्वम्। आस्यशुद्धिः मुखस्य प्रकृतरसत्वम्। तन्द्राक्लमेतन्द्रा च क्लमश्च तस्मिं स्तन्द्रा निद्रा क्लमोऽत्र ग्लानिः। क्षुत्पिपासासहोदये क्षुत्पिपासयोः सह युगपदुदये,अन्तरात्मनि मनसि। एतानि लक्षनानि मिलितन्येवसम्यक्कृतं लङ्घनं बोधयन्ति नतु प्रत्येकम्। हीनस्यलङ्घनस्य लक्षणमाह
“कफोत्क्लेशः सहृल्लासष्ठीवनंच मुहुर्मुहुः। कण्ठस्य हृदयाशुद्धिस्तन्द्रा स्याद्धीनलङ्घने”। उपस्थितवमनत्वमिव कफोत्क्लेशः कफस्यवमनायोपस्थितिः। हृल्लासष्टीवनं हृदयात्कफनिर्गमः। अतिशयितस्य लङ्घनस्य लक्षणमाह
“पर्वभेदोऽङ्गमर्दश्चकासः शोषो मुखस्य च। क्षुत्प्रणाशोऽरुचिस्तृष्णादौर्बल्यं श्रोत्रनेत्रयोः। मनसः संभ्रमोऽभीक्ष्णमूर्द्धवात-स्तमो हृदि। देहाग्निर्बलहानिश्च लङ्घनेऽतिकृते भवेत्। अरतिर्बलहानिश्च लङ्घनेऽतिकृते भवेत्”। कर्णनेत्रयोः[Page3175-b+ 38] दौर्बल्यं स्वविषयग्रहणासामर्थ्यम्। मनसः संभ्रमःभ्रान्तिः। ऊर्द्धवातः उद्गारबाहुल्यम्। हृदि तमःअन्धकारप्रविष्टस्येवाज्ञानम्। वलरक्षणेन लङ्घनं कार-येदित्याह
“वलाविरोधिना चैनं लङ्घनेनोपादयेत्। बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः” अयमर्थः। एनं रोगिणं वलाविरोधिना अनतिबलक्षयकारिणालङ्घनेन उपपादयेत् कुत इति चेत्तत्राह। यदर्थ-मस्मै आरोग्याय अयं क्रियाक्रमः चिकित्सोपक्रमः। तत आरोग्यं बलाधिष्ठानं बलाश्रयमित्यर्थः। केषा-ञ्चिदनशनस्य निषेधमाह सुश्रुतः”
“तद्धि मारुततृष्णा-क्षुत्सुखशोषभ्रमान्वितैः। न कार्य्यं गुर्विणीबालवृद्धदुर्बलभीरुभिः। न क्षयाध्वश्रमक्रोधकामशोषचिर-ज्वरी”। तत् अनशनम् उल्वणमारुतयुक्तेन ज्वरिणान कार्य्यं सारुतोऽत्र निरामोबोद्धव्यः। सामे मारुतेलङ्घनं कार्य्य मेव यत आह तन्त्रान्तरे
“अवश्यमेबकुर्वीत ज्वरी सामे समीरणे। लङ्घनं ह्यामपाकार्थं नतदूर्द्ध्वं यथा कफे”। तदूर्द्ध्वं आमपाकादूर्द्ध्वम्। अत-एवोक्तम्
“कफपित्ते द्रवौ धातू सहेते लङ्घनं बहु। आमक्षयादूर्द्ध्वमपि वायुर्न सहते क्षणम्”। आमस्यलक्षणमाह
“आहारस्य रसः सारो यो न पक्वोऽग्नि-लाघवात्। आमसंज्ञाज्ञ लभते बहुव्याधिसमाश्रयः”। तन्त्रान्तरे तु
“आममन्नरसं केचित् केचित्तु मल-सञ्चयम्। प्रथमं दोषदुष्टिं वा केचिदामं प्रचक्षते। अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम्। सादनं सर्व-गात्राणामाममत्यामशब्दितः। तेनामेन समायुक्ताः दोषादुष्याश्च तादृशाः। तदुद्भवा आमयाश्च साम इति बुधैःस्मृताः”। तत्र सामस्य वातस्य लक्षणमाह,
“वायुःसामो विबद्धान्तिः सादतन्द्रान्त्रकूजनैः। वेदनाशोथनिस्तोदैः क्रमशोऽङ्गानि पीडयेत्। विचरेद्युगपच्चापिगृह्णाति कुपितो भृशम्। स्नेहाद्यैर्वृद्धिमायाति मेघःसूर्य्योदये निशि”। विचरेदु युगपत् वायुरामश्चैककालंविचरेत् कुपितः सामो वायुः भृशमतिशयेनगृह्णात्यङ्गानीत्यर्थः। वातस्य तस्यैव निरामस्य लक्षण-माह
“निरामो विशदो रूक्षो निर्गन्धोऽत्यल्पवेदनः। विपरीतगुणैः शान्तिः स्तिग्धैर्जातिविशेषतः”। ( अथ प्रसङ्गात्सामस्य पित्तस्य लक्षणमाह
“पित्तं सामंभवेदम्लं दुर्गन्धं हरितं गुरु। अम्लिकाकण्ठहृद्दाहकरंश्यावं तथा स्थिरम्”। अम्लिका अम्बिलता (चुकीति)[Page3176-a+ 38] लोक। पित्तस्य तस्य निरामस्य लक्षणमाह।
“निरामंपित्तमाताम्रमत्युष्णं कटुकं सरम्। दुर्गन्धि रुचिकृद्वह्निब-जवर्द्धनमीरितम्”। ( अथ सामकफस्य लक्षणमाह
“आलस्यतन्द्राहृद-याविशुद्धिर्दोषाप्रवृत्त्या विड्मूत्रतामिः। गुरूदर-त्वास्नचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति। आम-ञ्जयेल्लङ्घनकोष्णपेयालध्वन्नसूपौदनतिक्तयूषैः। विरूक्ष-णस्वेदनपाचनैश्च संशोधनैरूर्द्ध्वमधस्तथैव। तद्धि मारु-नतृष्णायां लङ्घनं कार्य्यमेव च”। तथा मुखशोष-भ्रमावपिनिरामयोरेव विवक्षितौ सामयोस्तु तयोर्ल्लङ्घनंकार्य्यमेव, गुर्विणीबालवृद्धादिभिरपि निरामैरेव नैवलङ्घनं कार्य सामैः पुनस्तैरपि लङ्घनं कार्य्यमेव।
“क्षये धातुक्षये राजयक्ष्मणि च वातजे ज्वरे लङ्घनं नकार्य्यम्। ज्वरी लङ्घनेऽपि जलं पिबेदित्याह सुश्रुतः।
“तृषितो मोहमायाति मोहात् प्राणान्विमुञ्चति। अतःसर्वास्ववस्थासु न क्वचिद्वारि वर्जयेत्”। हारीतेनोक्तम्
“तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी। तस्मा-द्देयं तृषार्त्ताय पानीयं प्राणधारणम्”। अवश्यं पेय-मपि जलं ज्वरी किञ्चिद्वारयन् पिवेत्। यत आह सुश्रुतएव।
“जीविनां जीवनं जीवो जगत्सर्वं तु तन्मयम्। अतोऽत्यन्तनिषेधेन न क्वचिद्वारि वारयेत्”। जीवनं जलंक्वचिन्न वारयेदेव तथा च,
“ज्वरे नेत्रामये कुष्ठेमन्देऽग्नावुदरे तथा। अरोचके प्रतिश्याये प्रसेके श्वयथौक्षये। व्रणे च मधुमेहे च षानीयं मन्दमाचरेत्”। मुखप्रसेके अल्पं पिवेत् मन्दमाचरेत् पिबेत्। यतआह
“अतियोगेन सलिलं तृष्यतोऽपि प्रयोजितम्। प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः”। तच्च जलंनवज्वरी शीतलं न पिबेदित्याह सुश्रुतः
“नवज्वरेप्रतिश्याये पार्श्वशूले गलग्रहे। सद्यःशुद्धौ तथा-ध्माने व्याधौ वातकफोद्भवे। अरुचिग्रहणीगुल्मश्वास-कासेषु विद्रधौ। हिक्कायां स्नेहपाने च शीतं वारिविवर्जयेत्”। अन्यच्च वर्ज्यमाह स एव
“सेव्यमानेन शीतेनज्वरस्तोयेन वर्द्धते”। अत्र शीतं जलं अक्वथितं निषिद्ध्वम्। तथा सति क्वथितमायातम्। तत्र क्वथितस्य विधिर्गु-णश्च
“क्वाय्यमानं तु निर्वेगं निष्फेनं निर्मलं चयत्। तत्तोयं क्वथितं ज्ञेयं दोषघ्नं पाचनं लघु”। शनैः क्वथितस्य विधानमाह सुश्रुतः
“वातश्लेष्मज्वरार्त्तायहितमुष्णाम्बु तृष्यते। दीपनं स्यात्तु कफजे वातपि-[Page3176-b+ 38] त्तानुलोमनम्। तद्धि मार्दवकृद्दोषस्रोतसां शीतम-न्यथा”। वाग्भटश्च
“तृष्णायां प्राप्तमुष्नाम्बुपिबेद्वातकफज्वरे। तत्कफं विलयं नीत्वा तृष्णामाशुनिवर्त्तयेत्। उदीर्य्य चाग्निं स्रोतांसि मृदूकृत्य विशो-धयेत्। वातपित्तकफस्वेदशकृण्मूत्राणि सारयेत्। अथोष्णोदकस्य लक्षणं गुणाश्च
“क्वाथ्यमानन्तु निर्वेगंनिष्फेनं निर्मलं तथा। अर्द्धावशिष्टं यत्तोयं तदुष्णो-दकमुच्यते। ज्वरकासकफश्वासपित्तवाताममेदसाम्। नाशनं पाचनञ्चैव पथ्यमुष्णोदकं सदा”। अथर्त्तुभेदे जलस्य पाकभेदः।
“त्रिपादशेषं सलिलंग्रीष्मे शरदि शस्यते”।
“अन्ये तु निदाधे त्वर्द्ध्वपादोनंपादहीनन्तु शारदम्। हिमेऽर्द्धशेषं शिशिरी तथावर्षावसन्तयोः। शिशिरे च वसन्ते च हिमे चार्द्धावशे-षितम्। अष्टमांशावशेषन्तु वारि वर्षासु शस्यते। ” ज्वरविषये कश्चिदस्यावर्ज्यादिगेदः चक्रदत्त उक्तो यथा(
“ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लधु। श्लेष्म-क्षये विवृद्धोष्मा बलवाननलस्तदा। गुर्वभिष्यन्द्यकालेच ज्वरी नाद्यात् कथञ्चन। न हि तस्याहितं भुक्त-सायुषे वा सुखाय वा। लङ्घनं स्वेअनं काये यवाग्व-स्तिक्तको रसः। पाचनान्यविपक्वानां दोषाणां तरुणेज्वरे। आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः। मध्यंद्वादशरात्रन्तु पुराणमत उत्तरम्। पाचनीयं शमनीयंकषायं पाययेत् तु तम्। ज्वरितं षडहेऽतीतेलध्वन्नं प्रतिभोजयेत्। सप्ताहात् परतोऽस्तब्धे सामेस्यात् पाचनं ज्वरे। निरामे शमनं लब्धे सामे नौषध-माचरेत्। लालाप्रसेको हल्लासहृदयाशुद्ध्यरोचकाः। तन्त्रालस्याविपाकास्यवैरस्यं गुरुगात्रता। क्षुन्नाशो बहु-मूत्रं च स्तब्धता बलवान् ज्वरः। आमज्वरस्य लिङ्गानिन दद्यात् तत्र भेपजम्। भेषजं ह्यामदोषस्य भूयोज्वलयति ज्वरम्। मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषुच। पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्”। तेन ज्वरो नानाविधः ऐकाहिकादिः नवज्वरः जीर्ण-ज्वरः विषमज्वरादिश्च उक्तवाक्येभ्योज्ञेयः। नक्षत्रभेदे ज्वरोत्पत्तौ मृत्युतद्भोगकालभेदाः महुर्त्तचि॰पी॰ धा॰ उक्ता यथा(
“स्वातीन्द्रपूर्वाशिवसर्पभे मृतिर्ज्वरेऽक्न्त्यमैत्रे स्थिरतामवेद्रुजः। याम्यश्रवोवारुणतक्षभे शिवाघस्रा हि पक्षो द्व्य-धिपार्कवासवे। मूलाग्निदास्रे नव पित्र्यभे नखा बुध्न्या-[Page3177-a+ 38] र्यमेज्यादितिधातृभे नगाः” मासोऽब्जवैश्वेऽथ यमाहिमूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः। मु॰ चि॰(
“स्वातीति। इन्द्रो ज्येष्ठा पूर्वास्तिस्रः शिव आर्द्रासार्पभम् अश्लेषा। एषु भेषु ज्वरे पुंसः स्त्रियो वा ज्वरो-त्पत्तौ मृतिरेव स्यात् उक्तञ्च वसिष्ठेन”
“पूर्वात्रयस्वाति-भुजङ्गरौद्रसुरेश्वरर्क्षेषु च यस्य रोगः। स्याद्रक्षितुं देव-चिकित्सकोऽपि क्षिताबशक्तः स्वलु रोगिणं तम्” देव-चिकित्सको देववैद्यो धन्वन्तरिः। अथान्त्यमैत्रे रेवत्य-नुराधयोर्ज्वरोत्पत्तौ रुजो रोगस्य स्थिरता भवेत् बहु-कालेन रोगनिवृत्तिः स्यादित्यर्थः। तथा भरण्यादिन-क्षत्रचतुष्के शेवा एकादश घस्रादिवसाः रोगस्थैर्यंस्यात्तदनन्तरं रोगमुक्तिरिति सर्वत्र व्याख्येवम्। द्व्यधिपंविशाखा अर्को हस्तः वासबं धनिष्ठा एषु त्रिषु भेषुपक्षः पञ्चदश दिवसा रोगस्थैर्यस्य। मूलाग्निदास्रेमूलकृत्तिकाश्विनीषु त्रिषु नव दिवसाः पित्र्यभे मघायांनखा विंशतिर्दिवसाः नामैकदेशै नामग्रहणमिति न्या-येन बुध्न्योऽहिर्बुध्न्य उत्तराभाद्रपदा अर्यमोत्तरा-फाल्गुनी। ईज्यादितिधातृमानि प्रसिद्धानि एषु पञ्चसुभेषु नगाः सप्त दिवसाः। अब्जवैश्वे मृगोत्तराषाढयोर्द्वयो-र्मासस्त्रिंशद्दिनानि रोगस्थैर्यं ततो रोगनिवृत्तिः यदाह
“कृच्छ्रात् स्फुटं प्राणिति मित्रपौष्णे धिष्ण्ये चमासाच्छ-शिविश्वधिष्ण्ये। रोगस्य मुक्तिः पितृदेवधिष्ण्ये वारैर्भवे-द्विं शतिभिश्च नूनम्” प्राणिति जीवतीत्यर्थः।
“पक्षाद्वसुद्वी-शकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात्। तोयेशचित्रान्तकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च। पुष्येत्वहिर्बुध्न्य पुनर्वसौ च ब्रध्न्यार्यपक्षेषु च सप्तरात्रात्। ( अत्र शीघ्रं रोगविमिक्तये संक्षिप्ता शान्तिरप्यभिहितावसिष्ठे न
“ऋक्षिशरूपं कनकेन कृत्वा तल्लिङ्गमन्ध्वैश्च सु-गन्धिपुष्पैः। वस्त्राक्षतैर्गुग्गुलुधुपदीपनैवेद्यताम्बूल-फलैश्च सम्यक्। पूजां च कृत्वामयनाशनाय द्विजायदद्यादतुलं शिवाय” आमयो रोगः। अतुलममरिमित-द्रव्यम् प्रत्येकनक्षत्रशान्तिर्विशदा नक्षत्रशान्त्यध्याये वसि-ष्ठेनोक्ता सा तत एव सम्यबधार्य्या”। भैषज्यर॰ अन्यथा तद्भोगकाल उक्तो यथा
“कृत्तिकायां यदा व्याधिरुत्पन्नो भवति स्वयम्। नवरात्रंभवेत् पीडा त्रिरात्रं रोहिणीषु च। मृगशीर्षे पञ्च-रात्रमार्द्रायां मुच्यतेऽसुभिः। पुनर्वसौ तथा पुष्यै सप्त-रात्रेण मोचनम्। नवरात्रं तथाऽश्लेषे श्मशानान्तं[Page3177-b+ 38] मघासु च। द्वौ मासौ पूर्वफल्गुन्यामुत्तरासु त्रिपञ्च-कम्। हस्ते च सप्तमे मोक्षश्चित्रायामर्द्धमासकम्। मासद्वयं तथा स्वात्यां विशाखे दिनविशतिः। मित्रेचैव दशाहानि ज्येष्ठायामर्द्धमासकम्। मूलेन जायतेमोक्षः पूर्वाषाढे त्रिपञ्चकम्। उत्तरे दिनविंशत्या द्वौमासौ श्रवणे तथा। धनिष्ठायामर्द्धमासो वारुणे चदशाहकम्। पूर्वभाद्रपदे देवि! ऊनविंशतिवासरान्। त्रिपक्षञ्चाहिव्रध्न्ये च रेवत्यां दशरात्रकम्। अहोरात्रंतथाश्विन्यां भरण्यान्तु गतायुषः। एवं क्रमेण जानी-यान्नक्षत्रेषु यथोचितम्”। रोगिणस्ताराशुद्ध्यिशुद्धिभ्यां भोगकालभेदव्यवस्था। ( तिथिनक्षत्रवारयोगभेदे ज्वरोत्पत्तौ मु॰ चि॰ मृत्यु-रुक्तो यथा। (
“रौद्राहिशाक्राम्बुपयाम्यपूर्वाद्विदैववस्वग्निषु पाप-वारे। रिक्ताहरिस्कन्ददिने च रोगे शीघ्रं भवेद्रोगि-जनस्य मृत्युः” मु॰ चि॰। (
“रौद्रादीनि भानि प्रसिद्धानि पापवाराः सूर्यभौम-शनयः रिक्ताः प्रसिद्धाः हरिर्द्वादशी सकन्ददिनं षष्ठीएतास्तिथयः एवंविधे विशिष्टयोगे यस्य रोगोत्पत्ति-र्भवेत्तस्य रोगिजनस्य शीघ्रं मृत्युर्भवेत्। उक्तं च दैबज्ञमनोहरे
“उरगवरुणरुद्रावासवेन्द्रत्रिपूर्वायमदहनवि-शाखाः पापवारेण युक्ताः। तिथिषु नवमिषष्ठीद्वादशीवा चतुर्थी सहजमरणयोगो रोगिणां कालहेतुः” इतिचतुर्थीग्रहणं चतुर्दश्युपलक्षकं मत्वा मूले रिक्ताग्रहणंकृतम् अतएवाह वसिष्ठः
“अश्लेषार्द्रात्रिपूर्वायमवरुणम-रुच्छक्रतारानलाः स्थुर्द्वादश्यां स्कन्दरिक्तातिथिषु चरविजार्कारवारेषु येषाम्। रोगः संजायते ते यमुपुर-मचिरात् प्राप्नुवन्त्येव चन्द्रे जन्मन्यष्टाख्यबन्धुव्ययभवन-गते मृत्युलग्ने च राशाविति” पी॰ धा॰!अस्य प्रतिप्रसवः
“यद्यत्र चन्द्रस्तस्यैव गोचरे चाशुभप्रदः। तदा नूनं भवेन्मृत्युः सुधासंसिक्तदेहिन”। इति दीपि-काटीकाधृतवाक्यम्
२ ज्वराधिष्ठातृदेवभेदे च रौद्रज्वरदेवस्य वैष्णवज्वरदेवेनयुद्धादिकथा हरिवं॰
१८
१ अ॰
“भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात्। ज्वरस्त्रि-पादस्तिशिराः षड्भुजो नवलोचनः। भस्मप्रहरणोरौद्रः कालान्तकयमोपमः। नदन्मेघसहस्रस्य तुल्यो नि-र्वातनिस्वनः। निश्वसन् जृम्भमाणश्च निद्रान्विततनुर्भृ-[Page3178-a+ 38] शम्। नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन् भ्रमन्मुहुः। संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन्। हलायुध-मभिक्रुद्धः साक्षेपमिदमब्रवीत्”। तेन बलरामस्याभिभवेततस्तस्य कृष्णेन सह युद्धे पराजयकथा
१८
२ अ॰(
“मृत इत्यभिविज्ञाय ज्वरं शत्रुनिसूदनः। कृष्णोभुजबलात्तन्तुचिक्षेपाथ महीतले। मुक्तमात्रस्तु बाहुभ्यांकृष्णदेहं विवेश सः। अमुक्त्व विग्रहन्तस्य कृष्णस्याप्रति-मौजसः। स ह्याविष्टस्तदा तेन ज्वरेणाप्रतिमौजसा। कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्त्तत। जृम्भतेश्वसते चैव स्खलते च पुनः पुनः। रोमाञ्चोत्थितगात्रस्तुनिद्रया चाभिभूयते। ततः स्थैर्य्यं समालम्ब्य कृष्णःपरपुरञ्जयः। विकुर्वाणो महायोगी जृम्भमाणः पुनः पुनः। ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः। सोऽसृजज्ज्वर-मयं तु पूर्वज्वरविनाशनम्। धोरं वैष्णवमत्युग्रं सर्वप्रा-णिभयङ्करम्। स सृष्टमात्रस्ते जस्वी बलवान् भीमवि-क्रमः। कृष्णज्वरो ज्वरं पूर्वं गृहीत्वा स्वेन तेजसा। कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः। ततस्तंपरमक्रुद्धो वासुदेवो महाबलः। स्वगात्रात् स्वज्वरेणैवनिरक्रामयत् वीर्य्यवान्। आविध्य भूतले चैनं शतधाकर्त्तुमुद्यतः। व्याधोषयज्ज्वरस्तत्र भोः परित्रातुमर्हसि। आविध्यमाने तस्मिंस्तु कृष्णेणामिततेजसा। अशरीराततो वाणी तमुवचान्तरीक्षगा। कृष्ण! कृष्ण! महा-बाहो! यदूनां नन्दिवर्द्धन!। मा बधीर्ज्वरमेतं तुरक्ष-णीयस्त्वयाऽनथ!। इत्येवमुक्ते वचने तं मुमोच हरिःस्वयम्। भूतभव्यभविष्यस्य जगतः परमो गुरुः। कृष्णस्यपादयोर्मूर्ध्ना शरणं स गतो ज्वरः। प्रणम्य च हृषी-केशं ज्वरो वाक्यमथाब्रवीत्। शृणुष्व मम गोविन्द!विज्ञाप्यं यदुनन्दन!। यो मे मनोरथो देव! तं त्वं कुरुमहाभुज!। अहमेको ज्वरस्तात! नान्यो लोके ज्वरोभवेत्। त्वत्प्रसादाद्धि देवेश! वरमेतं वृणोम्यहम्। देवउवाच। एवम्भवतु भद्रं ते यथा त्वं ज्वर! काङ्क्षसे। वरार्थिनां वरो देयो भवांश्च शरणागतः। एक एव ज्वरोलोकेभवानस्तु यथा पुरा। योऽयं मया ज्वरः सृष्टो मय्ये-वैष प्रलीयताम्। वैशम्पायन उवाच। एवमुक्ते तु वचनेज्वरं प्रति महायशाः। कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्य-मुवाच ह। कृष्ण उवाच। शृणुष्व ज्वर! सन्देशं यथालोके चरिष्यसि। सर्वजातिषुविन्यस्तस्तथा स्थावरजङ्गमे। त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे। चतुष्प-[Page3178-b+ 38] दान् भजैकेन द्वितीयेन च स्थावरान्। तृतीयो यश्च तेभागी मानुषेषुपपत्स्यते। त्रिधाभूतं वपुः कृत्वा पक्षिषुत्वंभवज्वर!। चतुर्थो यस्तृतीयस्य भविष्यति च तेध्रुवम्। एकान्ततश्चतुर्भागः खोरकश्च चतुर्थकः। मानुषेष्वेकपादेनवस त्वं प्रविभज्य वै। जातिष्वथावशेषेषु निवस त्वंशृणुष्व मे। वृक्षेषु कीटरूपेण तथा सग्कोचपत्रकः। पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च। पद्मिनीषुहिमं भूत्वा पृथिव्यामपि चोषरः। अपान्तु नीलिकांभूयाः शिखोद्भेदश्च वर्हिणाम्। गैरिकः पर्वतेष्वेव मत्-प्रसादाद्भविष्यसि। गोष्वपस्मारको भूत्वा खोरकश्चभविष्यसि। एवं विविधरूपेण भविष्यसि महीतले। दर्शनात् स्पर्शनाच्चैव प्राणिनां बधमेष्यसि। ऋते देव-मनुष्यांश्च नान्यस्त्वां विषहिष्यते”। ज्वराश्च नानादेवसृष्टा यथोक्तं हरिवं॰
१६
८ अ॰
“पिता-महमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः। कुमारस्कन्दजा-श्चैव ज्वरावै वैष्णवादयः”
“स्वेद्यमामज्वरं प्राज्ञः को-ऽम्भसा परिषिञ्चति” माघः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वर¦ r. 1st cl. (ज्वरति) To be diseased, to be feverish, &c. भ्वा-प-अक |
ज्वर¦ m. (-रः)
1. Fever, intermitting or continued.
2. Mental Pain, affli- ction, Distress. E. ज्वर to be feverish, affix भावेघ |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वर [jvara], a. [ज्वर् भावे थ]
Heated, feverish.
Excited, inflamed.
रः Fever, feverish heat (in medicine); स्वेद्यमानज्वरं प्राज्ञः को$म्भसा परिषिञ्चति Śi.2.54; also used fig.; दर्पज्वरः, मदनज्वरः, मदज्वरः &c.
Fever of the soul, mental pain, affliction, distress, grief, sorrow; व्येतु ते मनसो ज्वरः Rām.; मनसस्तदुपस्थिते ज्वरे R.8.84; Bg.3. 3. -रा Fever. -Comp. -अग्निः the paroxysm of fever.-अङ्कुशः a febrifuge. -अन्तकः Cathartocarpus fistula.-अरिः 'febrifuge', cocculus cordifolius. -क्षयः antifebrile. -गण्डः N. of a disease; जलोदरे तृषारोगे ज्वरगण्डे विषूचके Mb.12.33.6. -प्रतीकारः cure of fever, febrifuge.-हन्त्री 'febrifuge', Rubia Munjsta. -हर a. febrifuge.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वर m. ( g. वृषा-दि)fever (differing according to the different दोषस्or humors of the body supposed to be affected by it ; " leader and king of all diseases " Sus3r. ) MBh. etc.
ज्वर m. fever of the soul , mental pain , affliction , grief ib.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--one of the ११ Rudras. वा. ६६. ६९.
(II)--2 different kinds of, वैष्णव, माहेश्वर. Vi. V. ३३. १४-18.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
JVARA : (Jvaram) (Fever).
1) General information. A fearful being. It is stated in the Purāṇas that living beings catch fever owing to the activities of this monster.
2) The origin of jvara. Once Śiva and Pārvatī were talking with each other in the Holy Bath called Jyotiṣ- kam on mount Mahāmeru. On that day Dakṣa had performed a sacrifice at Gaṅgādvāra. Śiva alone was not invited. Seeing the Gods Brahmā and the others going to that place through the sky, Pārvatī asked Śiva what the matter was. Śiva explained everything to Pārvatī, who became very sorry because her husband had not been invited. Śiva grew uneasy at the sorrow of his wife. A drop of sweat fell down from his third eye. A fearful monster with the lustre of fire arose from that drop of sweat. That figure is described as follows:
“A terrible monster, with dwarfish figure, staring eyes, green moustaches, hair standing erect on head and body covered with hair all over, looking like a combi- nation of hawk and owl, with jet-black colour, wearing a blood-coloured cloth.” (M.B. Śānti Parva, Chap- ter 283).
“With three legs, three heads, six hands and nine eyes, comes Jvara the terrible monster, as fierce as Yama the god of death and fearful like a thousand clouds with thunderbolt, gaping and sighing, with tight body and horrible face, rendered so by many eyes.” (M.B. Viṣṇu Parva, Chapter 122).
To this uncouth figure Śiva gave the name Jvara, who dashed away and entered into all devas (gods). Brahmā and the others caught fever and were laid up. At last they all came to Śiva. Hearing their request Śiva divided Jvara into several parts and separated them from devas and entered them into other living beings, and ordered that, headache for elephants, green coverings for water, shedding of skin for snakes, hoof-rot for cows, sore-throat for horses, feather-sprouting for peacocks, sore-eye for cuckoo, hiccough for parrot, weariness for tigers and fever for men will be caused by Jvara.
It was the time of the terrorization of Vṛtrāsura. Jvara caught hold of that Asura also. It was at this time that Indra used his thunderbolt and killed Vṛtrāsura. (M.B. Śānti Parva, Chapter 283; M.B. Viṣṇu Parva, Chapter 122).
_______________________________
*4th word in right half of page 359 (+offset) in original book.