ज्वालामालिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालामालिनी¦ स्त्री ज्वालानां शिखानां मालाऽस्त्यस्य इनिङीप्। देवीभेदे। तन्मन्त्रादिकं तन्त्रसारे उक्तं यथा
“ओंनमो भगवति! ज्वालामालिनि! गृध्रगणपरिवृते! हुंफट् स्वाहा”। तत्राङ्गन्यासः।
“ओं नमो हृदयं प्रोक्तंभगवतीति शिरः स्मृतम्। ज्वालामालिनीति च शिखागृध्नगणपरिवृते ततः। वर्म स्वाहास्त्रमित्युक्तं जाति-युक्तं न्यासेत्तनौ। प्रयोगस्तु ओं नमो हृदयाय नमइत्यादि
“अभुक्तो नियतञ्चैव जपेन्मन्त्रं जपाज्जयी। जपेदष्टसहस्रन्तु त्रयोविंशतिवासरान्। प्रत्यहं साधनेसिद्धिमाददाति न संशयः। स्मृतिमात्रेण वै मन्त्रीरिपून् सर्वान् विनाशयेत्”।

"https://sa.wiktionary.org/w/index.php?title=ज्वालामालिनी&oldid=390700" इत्यस्माद् प्रतिप्राप्तम्