झगझगायमानः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
झगझगायमानः, त्रि, (झगझग इवाचरतीति । झगझग + “कर्त्तुः क्यङ् सलोपश्च ।” ३ । १ । ११ । इति क्यङ् ततः शानच् ।) चाकचिक्ययुक्तः । झक्झकिया इति भाषा । यथा, -- “मयूरवरगामिनीं सुरदशुद्धवर्णोत्कटां रणक्वणितघण्टिकां निशितशक्तिहस्तोद्यताम् । प्रभानिकररश्मिभिर्झगझगायमानांशुकां नयामि गुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम् ॥” इति देवीपुराणे रुरुवधे मातृस्तवनामाध्यायः ॥