डप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डप, इ क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं उभं च-सकं-सेट् ।) मूर्द्धन्य- वर्गतृतीयादिः । इ क ङ, डम्पयते । ञ, डम्प- यति डम्पयते । अयमात्मनेपदीत्यन्ये । संहती राशीकरणम् । इति दुर्गादासः ॥

डप, क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-उभं च-सकं सेट् ।) मूर्द्धन्यवर्ग- तृतीयादिः । क ङ, डापयते । ञ, डापयति डापयते । पुनःपाठान्नेदनुबन्धः । अयं आत्मने- पदीत्यन्ये । संहती राशीकरणम् । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डप¦ संघाते (राशीकरणे) चु॰ आत्म॰अक॰ सक॰ सेट्। डाप-यते अडीडपत। चुरादित्वेऽपि डित्करणादफलवत्-कर्त्तर्य्यपि आत्म॰। तेनास्य ञित्करणसामर्थ्यात् पाक्षि-कचुरादित्वम् पक्षे भ्वादित्वम्। डपते अडपिष्ट।

डप¦ संहतौ उक्तौ डपवत् इदित्। डम्पयते अडिडम्पत। पक्षे भ्वा॰ डम्पते अडम्पिष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डप¦ r. 10th cl (डापयते) (इ) डपि r. 1st and 10th cls. (डम्प-ते डम्पयते) To collect, to accumulate, to heap together. संहतौ वा-चुरा-आत्म-अक-सक- सेट् पक्षे भ्वा |

"https://sa.wiktionary.org/w/index.php?title=डप&oldid=392385" इत्यस्माद् प्रतिप्राप्तम्