डमरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
डमरम्, क्ली, (मृ + भावे अप् । मरं पलायनं धातूनामनेकार्थत्वात् । डेन त्रासेन मरम् ।) भीत्या पलायनम् । तत्पर्य्यायः । शृगालिका २ विद्रवः ३ डिम्बः ४ । इति हारावली । ९९ ॥