डामरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डामरः, पुं, शिवोक्तशास्त्रविशेषः । (यथा, काशीखण्डे । २९ । ७० । “डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥” “डामरो डामरकल्पो नवाक्षरदेवीमन्त्रस्य प्रतिपादको ग्रन्थो महाराष्ट्रे सुप्रसिद्धस्तत्रोक्तं प्रतिपादितं मन्त्रमयं महच्छरीरं यस्याः ॥” इति तट्टीका ॥) स तु षड्विधः । तेषां नामानि श्लोकसंख्याश्च यथा । योगडामरः २३,५३३ । शिवडामरः ११,००७ । दुर्गाडामरः ११,५०३ । सारस्वतडामरः ९,९०५ । ब्रह्म- डामरः ७,१०५ । गन्धर्व्वडामरः ६०,०६० । इति वाराहीतन्त्रम् ॥ डमरः । इत्यमर- टीकायां भरतः ॥ चमत्कारः । यथा । भूतानां डामरश्चमत्कारोऽत्रेति भूतडामरशब्दनिर्व्व- चने निबन्धकारः ॥ (गर्व्वः । आटोपः । यथा, गीतगोविन्दे । १२ । २२ । “मम रुचिरे चिकुरे कुरु मानद ! मानसज- ध्वजचामरे । रतिगलिते ललिते कुसुमानि शिखण्डि- शिखण्डकडामरे ॥” कोटचक्रविशेषः । यथा, समयामृते । “अथातः संप्रवक्ष्यामि कोटचक्रमिहाष्टधा ॥” इत्युपक्रम्य, -- “पञ्चमी गिरिकोटश्च षष्ठः कोटश्च डामरः ॥” इत्युक्तवान् ॥ अस्य विशेषविवृतिः चक्रशब्दे द्रष्टव्या ॥ * ॥ क्षेत्रपालविशेषः । यथा, प्रयोगसारे । “भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्त्तिताः ॥” इत्युपक्रम्य, -- “टङ्कपाणिस्तथा चान्यष्ठानबन्धुश्च डामरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=डामरः&oldid=136762" इत्यस्माद् प्रतिप्राप्तम्