डिण्डिमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिमः, पुं, (डिण्डीति शब्दं मातीति । मा + कः ।) वाद्यप्रभेदः । इत्यमरः । १ । ७ । ८ ॥ डेङ्गरीति ख्यातः । इति भरतः ॥ माहेश्वर- दण्डीति ख्यातः । इति सारसुन्दरी ॥ (यथा, महाभारते । ७ । १९३ । ४४ । “भेरीश्चाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः ॥” डिण्डिम इव आकृतिरस्त्यस्येति । अर्श आदित्वादच् ।) कृष्णपाकफलः । इति शब्द- चन्द्रिका ॥ पानी आमला इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=डिण्डिमः&oldid=136772" इत्यस्माद् प्रतिप्राप्तम्