डीनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डीनम्, क्ली, (डी नभोगतौ + भावे क्तः ।) पक्षि- गतिः । इति जटाधरः ॥ तद्भेदा यथा, -- “क्षणात् संपत्य निष्क्रम्य पक्षसम्पातमुच्यते । ऊर्द्ध्वाधोगतिसम्बन्धः समुदीर्णं प्रचक्षते ॥ संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् । षड्विंशतिरमी भेदाः पातानामिह दर्शिताः ॥ महाडीनं विहायैषां पातानां त्रिविधा गतिः । गतं तत्र यथोद्दिष्टं आगतं पुनरागमः ॥ प्रत्यावृत्तिः प्रतिगतिरिति षट् सप्तभिः स्मृताः । तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविंशतिः ॥” तद्यथा । उड्डीनं ऊर्द्ध्वगमनम् १ अवडीनं अधः- पतनम् २ प्रडीनं पतनवेगवत्ता ३ डीनं पतन- मात्रम् ४ निडीनं नीचैःपतनम् ५ संडीनं सम्यक्पतनम् ६ तिर्य्यग्डीनं तिर्य्यक्पतनम् ७ विडीनं विचित्रं पतनम् ८ परिडीनं सर्व्वतः पतनम् ९ पराडीनं परावृत्य गमनम् १० सुडीनं सुकुमारपातः ११ अभिडीनं आभि- मुख्येन पुनः पुनः पतनम् १२ महाडीनं क्षुद्र- पतनेन प्रत्यावृत्तिः १३ निडीनं भक्ष्यमाश्रयं वा पश्यतः पतनम् १४ अतिडीनं दीर्घपतनम् १५ अवडीनं अधःपतनम् १६ प्रडीनं अधःपतने वेगवत्ता १७ अवसंडीनं अधःपतने शोभन- वत्ता १८ डीनडीनकं पतनं निर्व्विशेषणं कुत्- सितञ्च १९ संडीनोड्डीनं शोभनमूर्द्ध्वगमनम् २० संडीनडीनं शोभनगगनमात्रम् २१ पुनर्डीनं तदेव सामान्यगमनम् २२ डीनावडीनकं तदे- वाधः कुत्सितञ्च २३ सम्पातं बहुभिः सह गमनम् २४ समुदीर्णं परस्परस्पर्द्धया गम- नम् २५ ततोऽन्यत् व्यतिरिक्तकं तस्मात् स्पर्द्धा- कृतादेत्यस्नेहकृतं पतनम् २६ । एतेषु षड्- विंशतिसंख्येषु पतनं एकं डीननामकं निर्व्वि- शेषणं पतनमात्रं सविशेषणानि पतनानि पञ्च- विंशतिसंख्यानि तत्र तानि सविशेषानि वक्ष्य- माणचतुर्भिर्विशेषणैर्विशिष्टानि इति शतं निर्व्वि- शेषञ्चैकमिति एकोत्तरं शतम् । तानि चत्वारि विशेषणानि यथा । गतं गमनमात्रम् । आमतं आगमनम् । प्रतिगतं गत्वैव पुनरागमनं आग- त्यैव पुनर्गमनञ्च । इति महाभारते । ८ । ४१ अः ॥ * ॥ आगमशास्त्रविशेषः । यथा, मुण्डमालातन्त्रे । “डामरं डमरं डीनं श्रुतं कालीविलासकम् । सप्तकोटिमहाग्रन्था मम वक्त्राद्बिनिर्गताः ॥”

"https://sa.wiktionary.org/w/index.php?title=डीनम्&oldid=136801" इत्यस्माद् प्रतिप्राप्तम्