ढुण्ढिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ढुण्ढिः, पुं, (ढुढ्यतेऽसौ भक्तैरिति । ढुण्ढ अन्वे- षणे + इन् ।) गणेशः । तन्नामकरणं यथा, -- गणेशं प्रति शिववाक्यम् । “अन्वेषणे ढुढिरयं प्रथितोऽस्ति धातुः सर्व्वार्थढुण्ढिततया भव ढुण्ढिनामा । काशीप्रवेशमपि को लभतेऽत्र देही तोषं विना तव विनायक ! ढुण्ढिराज ! ॥” तन्माहात्म्यं यथा, -- “ढुण्ढे ! प्रणम्य पुरतस्तव पादपद्मं यो मां नमस्यति पुमानिह काशिवासी । तत्कर्णमूलमधिगम्य पुरादिशामि तत्किञ्चिदत्र न पुनर्भवतास्ति येन ॥” “यः प्रत्यहं नमति ढुण्ढिविनायक ! त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसङ्घः । नो तस्य जातु जगतीतलवर्त्ति वस्तु दुष्प्रापमत्र परत्र च किञ्च नापि ॥” “प्रथमं ढुण्ढिराजोऽसि मम दक्षिणतो मनाक् । आढुण्ढ्य सर्व्वभक्तेभ्यः सर्व्वार्थान् संप्रयच्छसि ॥” तस्य यात्राविधानं यथा, -- “माघशुक्लचतुर्थ्यान्तु नक्तं व्रतपरायणाः । ये त्वां ढुण्ढेऽर्च्चयिष्यन्ति तेऽर्च्च्याः स्युरसुरद्बि- षाम् ॥ विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् । शुक्लां शुक्लतिलैर्ब्बद्धान् प्राश्नीयाल्लड्डुकान् व्रती ॥ कार्य्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः । तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुण्ढे ! सर्व्वोपसर्गहृत् ॥ तां यात्रां नात्र यः कुर्य्यान्निवेद्य तिललड्डु- कान् । उपसर्गसहस्रैस्तु स हन्तव्यो ! ममाज्ञया ॥ होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः । तस्यां चतुर्थ्यां मन्त्रज्ञस्तस्य मन्त्रः प्रसेत्स्यति ॥” इति काशीखण्डे । ५० अध्याये ॥
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ढुण्ढिः [ḍhuṇḍhiḥ], An epithet of Gaṇeśa. ण