णम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णम, औ शब्दे । नतौ । इति कविकल्पद्रुमः । (भ्वां- परं-अकं-नतौ सकं अकं च अनिट् ।) औ, नन्ता । शब्दार्थो न भाषायाम् । नतिरिह नमस्कारो नम्रीभावश्च । नमति गुरुं लोकः । नमन्ति फलिनो वृक्षाः । अमन्तेऽप्यस्य ज्वल- ह्वलह्मलेत्यादिना केवलस्य ह्नस्वविकल्पनात् सोपसर्गस्यैव नित्यं ह्नस्वः । नमयति नामयति प्रणमयति । श्वपुच्छमवनामितं बधिरकर्णजापः कुतः । इत्यादौ अवनमनं अवनामः घञ् ततो अवनामं करोतीति ञौ रूपम् । इति दुर्गा- दासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णम¦ शब्दे अक॰ नतौ सक॰ भ्वा॰ पर॰ अनिट्। नमतिप्रणमति अनं सीत्। ननाम नेमतुः नेमिथ नमन्थ। नतः नतिः नामः नत्वा नन्ता नम्यः आनाम्यः। अस्यअमन्तत्वेन घटादित्वे प्राप्तेऽपि अनुपसर्गाद्वेति नियमात्वा तथात्वम्। नमयति नामयति उपसर्गात्तु उन्नमय-तीत्येव। नतिश्च स्वाकर्षबोधकव्यापारभेदः स च करशिरःसंयोगादिः स्वापकर्षबोधशालिनः कर्मता। नमति गुरुम्ढुण्ढिशब्दे उदा॰। ण्यग्भावे (नोया) अकर्म्म॰। ततःकर्मकर्त्तरि न यक्चिणौ नमते अनंस्त।
“सुम्नेभिरस्मेवसवो नमध्वम्” ऋ॰
७ ।
५६ ।
१७ ।
“एवे द्यूने युवतयोऽनमन्त”
१० ।
३० ।
६ । न्यग्भावे
“अनंसीद्भूर्भरेणास्य” भट्टिः।
“उन्नमति नमति वर्षति गर्ज्जति मेघः करोति तिमि-रौघप्त्। प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि” मृच्छ॰
“नतभ्रुवो नव्यजनापनेयः” उद्भटः
“पुष्पभारनतालता” रामा॰
२ ।
९६ अ॰।
“तवाभिधानाद् व्यथते[Page3194-b+ 38] नताननः” किरा॰। यङि नंनम्यते।
“नंनम्यमानाफलदित्सयेव” भट्टिः। अभि + आभिमुख्येन नमने।
“देवान् वै यज्ञो नाभ्यनमत्” अव + न्यग्भावे अधोभवने (नीचे नोअओया) अक॰।
“त्व-य्यादातुं जलमवनते” मेघ॰। णिच् अवनमयति
“अवनामितमेढ्रस्य मेढ्रे” सुश्रु॰।
“शिरः सुकृष्णोजग्राह स्वहस्तेनावनाम्य च” हरिवं॰
६९ अ॰। केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे” भ॰ आ॰
१३
४ अ॰। आर्षो न ह्रस्वः आम्बभावश्चार्षः। उद् + ऊर्द्धगतौ उच्चभवने उत्थाने च अक॰।
“उन्नम्योन्नम्यतत्रैव दरिद्राणां मनोरथाः। हृदयेषु विलियन्ते विध-वास्त्रीस्तनाविव” पञ्चत॰।
“स्थितः सर्वोन्नतेनोर्वीम्” रघुःअभि + उद् + आभिमुख्ये नोन्नतौ अक॰।
“अभ्युन्नताङ्गुष्ठ-नखप्रभाभिः” कुमा॰।
“अभ्युन्नता परस्तादवगाढाजघनगौरवात् पश्चात्” शुकु॰। उप + प्राप्तौ सक॰ स्वयमुपस्थितौ अक॰।
“यं सत्रियादीक्षोपनमेत”। अभ्याशो ह यदेनं साधवो धर्माआ च गच्छेयुरुपच नमेयुः” छा॰ उ॰।
“यदा तु पर-बाधयान्ध आत्मने नोपनमति” भाग॰
५ ।
१४ ।
१४ श्लो॰।
“मत्संयोगः कथमुपनमेत् स्वप्नजोऽपि प्रियायाः” मेघ॰।
“परलोकोपनतं जलाञ्जलिम्” कुमा॰। परि + तुल्यरूपसत्तया वस्तुनोऽन्यथाभवने अक॰ आत्म॰। यथादुग्धपरिणामः दधि मृत्परिणामः घटादिः।
“तथातैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशम्गत्वा घटादिविषयाकारेण परिणमते”
“समसत्ताककार्य्योत्पादः परिणामः इति” वेदा॰ प॰। कर्मकर्त्तरि आत्मनेपद-मित्यन्ये
“परिणामस्वभावा हि गुणा नापरिणम्यक्षणमवतिष्ठन्ते” सा॰ त॰ कौ॰। गजानां तिर्य्यग्धन्तप्रहारेसक॰।
“विष्के नागः पर्य्यणंसीत् स्व एव” माघः। पर्य्यणं-सीत् तिर्य्यक् प्रजहारेत्यर्थः।
“तिर्य्यग्दन्तप्रहारैस्तु गजःपरिणतो मतः” वैजयन्ती। शेषताप्राप्तौ अक॰।
“दिवसा परिणामरमणीयाः” शकु॰।
“ता एवौषधयःकालपरिणामात् परिणतवीर्य्या भवन्ति” सुश्रु॰। परि-पाके च
“आहारस्य सम्यक्परिणतस्य” सुश्रु॰ सम्यक्नमनेसक॰।
“यस्तं परिणमेच्च तत्” भा॰ उ॰
११
०७ । प्र + प्रकर्षेण नतौ।
“प्रणमेद्दण्डवड्मूमौ” भाग॰
६ ।
१९ ।
९ ।
“प्रणेमुर्भुवि मूर्द्धभिः” भाग॰
३ ।
३ ।
२८ ।
“उरसाशिरसा दृष्ट्या वचसा मनसा तथा। पद्भ्यां कराभ्यां[Page3195-a+ 38] जानुभ्यां प्रणामोऽष्टाङ्ग इष्यते” नृसिह पु॰ उक्तेनतिभेदे च। प्रति + प्रतीपनतौ। वि + विशेषेण नतौ। वि + परि + भावस्य विकारभेदे अक॰ आत्म॰
“घट्भावविकाराभवन्तीति वार्द्धायणिः। जायतेऽस्ति विपरिणमत वर्द्धतेअपक्षीयते नश्यतीति, जायत इति पूर्वभावस्यादिमाचष्टेनापरभावमाचष्टे नो प्रतिषेधति। अस्तीत्युत्पन्नस्य सत्त्व-स्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं,वर्द्धत इति स्वाङ्गाभ्युच्चगं, सांयौगिकानां वाङ्गानां, वर्द्धतेविजयेनेति वा, वर्द्धते शरीरेणेति वा। अपक्षीयत इत्ये-तेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिमा-चष्टे न पूर्वभावमाचष्टे न प्रतिषेधति” निरु॰
१ ।
२ । अन्यविभक्त्यन्ततया श्रुतस्य शब्दस्य अन्यविभक्त्यन्ततयापरिकल्पने
“कर्त्तरि शबित्यतः कर्तृग्रहणमनुवर्तते। तच्चप्रथमया विपरिणम्यते” पा॰ सू॰ व्याख्या।
“अर्थवशात्विभक्तेर्विपरिणामः” परिभाषा। सम् + सम्यग्नतौ।
“धीरः संनमेत बलीयसे” भा॰ उ॰
११
३० ।
“संनताः फलभारेण पुष्पभारेण च द्रुमाः” रामा॰ आ॰
३ ।
१६ अ॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
णम¦ r. 1st cl. (नमति)
1. To salute with reverence or respect.
2. To bow down or bent, to bow down in homage or worship.
3. To sound. With अव or आङ् or or सम् prefixed, To bend down, to decline. With प्र, to bow, to salute. With उत्, To lift up, to raise, to make straight or erect. शब्दे अक-नतौ सक भ्वा-पर-अनिट् |