णाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णाथ, ऋ ङ आशिषि । दवैश्येऽर्थे । इति कवि- कल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-अकं च-सेट् ।) णोपदेशविधौ वर्ज्जनेऽप्याद्यस्य पाठः कस्य चिदनुरोधात् । ऋ, अननाथत् । ङ, प्रणाथते । दव उपतापः । आशीरिष्टार्थस्याशंसनम् । ङित्त्वेऽपि शपथाशीर्गत्यनुकारे इति नियमादा- भ्यामाशिषोऽन्यत्र परस्मैपदम् । नाथति शत्रुं बली उपतापयति इत्यर्थः । नाथते श्रियं लोकः आशंसत इत्यर्थः । नाथति धनी ईश्वरःस्यादि- त्यर्थः । नाथति भूपं भूमिं विप्रः प्रार्थयती- त्यर्थः । मार्गणैरथ तव प्रयोजनं नाथसे किमु न भूभृतः पतिमिति भारवौ । याचन- मप्याशंसाविशेषः । आशिषि नित्यमात्मने- पदमन्यत्र विभाषेति केचित् । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=णाथ&oldid=136856" इत्यस्माद् प्रतिप्राप्तम्