तक्रमांसम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्रमांसम्, क्ली, (तक्रयोगेन पाचितं मांसम् ।) व्यञ्जनविशेषः । एख्नि इति पारस्य भाषा । तस्य पाकप्रकारो यथा, -- “पाकपात्रे घृतं दत्त्वा हरिद्राहिङ्गु भर्ज्जयेत् । छागादेः सकलस्यापि खण्डान्यष्टौ च भर्जयेत् ॥ मिद्धियोग्यं जलं दत्त्वा पचेम्मृदुतरं यथा । राजिकादियुते तक्रे मांसखण्डानि धारयेत् ॥” तस्य गुणाः । “तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम् । कफघ्नं पित्तलं किञ्चित् सर्व्वाहारस्य पाचनम् ॥” इति भावप्रकाशः ।

"https://sa.wiktionary.org/w/index.php?title=तक्रमांसम्&oldid=136888" इत्यस्माद् प्रतिप्राप्तम्