तगर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरम्, नदीवृक्षः । पिण्डतगर इति कोङ्कणे प्रसिद्धः । तगरमूल इति ख्यातञ्च । तत्- पर्य्यायः । कालानुशारिवा २ वक्रम् ३ कुटि- लम् ४ शठम् ५ महोरगम् ६ नतम् ७ जिह्मम् ८ दीपनम् ९ तगरपादिकम् १० । इति रत्न- माला ॥ विनम्रम् ११ कुञ्चितम् १२ षण्ढम् १३ नहुषाख्यम् १४ दण्डहस्तम् १५ वर्हणम् १६ पिण्डीतगरकम् १७ पार्थिवम् १८ राजहर्ष- णम् १९ कालानुसारकम् २० क्षत्त्रम् २१ दीनम् २२ । अस्य गुणाः । शीतलत्वम् । तिक्त- त्वम् । दृष्टिदोषविषार्त्तिभूतोन्मादभयनाशित्वम् । पथ्यत्वञ्च ॥ आहुल्यवृक्षः । इति राजनिर्घण्टः ॥ गन्धद्रव्यविशेषः । तस्य पर्य्यायगुणाः । “कालानुसार्य्यं तगरं कठिनं लघु संनतम् । अपरं पिण्डतगरं दण्डहस्ति च वर्हणम् ॥ तगरद्बयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम् । विषापस्मारमृर्द्धाक्षिरोगदोषत्रयापहम् ॥” इति भावप्रकाशः ॥

तगरः, पुं, (तं क्रोडभागं गिरतीति । गॄ + अच् ।) पुष्पवृक्षविशेषः । टगर इति भाषा । तत्- पर्य्यायः । सितपुष्पः २ । कालपर्णः ३ कटु- च्छदः ४ । इति शब्दरत्नावली ॥ (यथा, महा- भारते । १३ । १०४ । ८५ । “प्रियङ्गुचन्दनाभ्याञ्च विल्वेन तगरेण च । पृथगेवानुलिम्पेत केशरेण च बुद्धिमान् ॥”) मदनवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगर¦ पु॰ तस्य क्रोडस्य गरः गॄ--अच्। (टगर) इति

१ वृक्षेशब्दर॰।

२ मदनवृक्षे राजनि॰। कोङ्गणप्रसिद्धे (पिण्ड-तगर) ख्याते,

३ वृक्षे न॰ रत्नमा॰।

४ तगरमूलजाते गन्धद्रव्येन॰।
“कालानुसार्य्यं तगरं कठिनं लघु तन्मतम्। अपरं पिण्डतगरं दण्डहस्ति च वर्हणम्। तगरद्वयमुष्णंस्यात् स्वादु स्निग्धं लघु स्मृतम्। विषापस्मारमूर्द्धाक्षिरोगदोषत्रयापहम्” भावप्र॰
“प्रियङ्गुचन्दनाभ्याञ्च विल्वेनतगरेण च” भा॰ अनु॰

१०

४ अ॰।
“तुल्यैः पत्र-[Page3203-b+ 38] तुरस्कबालतगरेगन्धः स्मरोद्दीपनः” वृ॰ स॰

७७ अ॰। तगरं पण्यमस्य कृसरा॰ ठन्। तगरिक तद्गन्धद्रव्य-विक्रेतरि त्रि॰।

४ आहुल्यकवृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगर¦ m. (-रः)
1. A shrub, (Tabernæmontana coronaria.)
2. A thorny shrub, (Vangueria spinosa.)
3. Another plant, commonly Tagara- mula. गॄ अच् | तस्य क्रोडस्य गरः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगरः [tagarḥ], A kind of plant; Mb.13.14.87. -रम्, तगरकम् A kind of perfume (Tabernaemontana coronaria) and a fragrant powder prepared from it; Nm.तगरिकः, -की A seller of Tagara powder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तगर n. ( m. L. )= रकKaus3. 16 MBh. xiii , 5042 Buddh. Sus3r. VarBr2S. lxxvii , 5 ff.

तगर n. = -पुरRomakas.

"https://sa.wiktionary.org/w/index.php?title=तगर&oldid=393671" इत्यस्माद् प्रतिप्राप्तम्