तण्डुलपरीक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलपरीक्षा, स्त्री, (तण्डुलेन परीक्षा ।) नव- विधदिव्यान्तर्गतदिव्यविशेषः । चालपडा इति भाषा । तद्विधानं यथाह पितामहः । “चौर्य्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः । तण्डुलान् कारयेच्छुक्लांच्छालेर्न्नान्यस्य कस्य चित् ॥ मृण्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः । स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ॥ प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् । तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्त्रिधा ॥ भूर्ज्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु । शोणितं दृश्यते यस्य हनुस्तालु च शीर्य्यते ॥ गात्रञ्च कम्पते यस्य तमशुद्धं विनिर्द्दिशेत् ॥” स्नानोदकेन देवतास्नानोदकेन । तथा च कात्यायनः । “देवतास्नानपानीयस्निग्धतण्डुलभक्षणे । शुद्धनिष्ठीवनात् शुद्धो नियम्योऽशुचिरन्यथा ॥” शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठी- वयेत् प्राड्विवाकः इति । निष्ठीवयेदिति ण्यन्तात् सिद्धम् । तुलानिरूपितं सर्व्वदिव्यसाधारणञ्च धर्म्मवाहनादिहवनान्तं पूर्ब्बवदिहापि कर्त्तव्यम् ॥ शिरोरोपितपत्रलेख्यमन्त्रादि यथा, -- “तञ्चार्थमभियुक्तस्य लेखयित्वा तु पत्रके । मन्त्रेणानेन सहितं कुर्य्यात्तस्य शिरोगतम् ॥ आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्म्मो हि जानाति नरस्य वृत्तम् ॥” इति दिव्यतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलपरीक्षा¦ स्त्री तण्डुलेन परीक्षा। दिव्यभेदे तद्विधानंवीरमि॰ उक्तं यथा पितामहः
“तण्डुलानां प्रवक्ष्यामि विधिम्भक्षणचोदितम्। चोर्य्येतु तण्डुला देया नान्यत्रेति विनिश्चयः” इति। चौर्य्य-ग्रहणमर्थविवादप्रदर्शनार्थम्
“तदर्थार्थस्य तण्डुलाः” इतिघनविवादे कात्यायनेनोक्तत्वात्। पूर्वेद्युर्यत्कर्त्तव्यं तत्सएवाह
“तण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्यकस्यचित्। मृण्मये भाजने कृत्वा आदित्यस्याग्रतःशुचिः। स्नानोदकेन सम्मिश्रान् रात्रौ तत्रैव वासयेत्। आवाहनादिपूर्वन्तु कृत्वा रात्रौ विधानतः” इति। शुचिःप्राड्विपाकः सूर्य्यस्थाने धर्माबाहनादिहोमान्तं सर्व-दिव्यसाधारणविधिं कृत्वा आदित्यस्नानोदकेन शुक्लान्शालितण्डुलानाप्लाव्य रात्रावेवं कृत्वा तथैव प्रातःकाल-पर्य्यन्तं स्थापयेदित्यर्थः। स्नानोदकं देवताया इत्याहकात्यायनः
“देवतास्नानपानीयं दिग्धतण्डुलभक्षणे” इति। प्रातः कर्त्तव्यमपि स एवाह
“प्रभाते कारिणेदेया आदित्याभिमुखाय त्विति”। कारिणे शोध्याय। देयाः तण्डुला इत्यनुषङ्गः। भक्षणञ्च सोपवासेन सूर्य्या-लयमध्य एव कर्त्तव्यमित्याह वृहस्पतिः
“सोपवासःसूय्यगेहे तण्डुलान् भक्षयेच्छुचिरिति”। शोध्यानुष्ठेय-मनुवादव्याजेन दर्शयति पितामहः
“प्राङ्मुखोपोषितंस्नातं शिरोरोपितपत्रकम्। तण्डुलान् भक्षयित्वा तुपत्रे निष्ठीवयेत्ततः” इति। भक्षयित्वा भक्षणं कारयित्वाहेतुमतोणिजन्तस्य भक्षेरयं प्रयोगः। पत्रे विशेषं सएवाह
“भुर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य त्विति”। शुद्ध्यशुद्यवधारणोपायं स एवाह
“शोणितं दृश्यते यस्य[Page3208-b+ 38] हनुस्तालु च शीर्यते। गात्रञ्च कम्पते यस्य तमशुद्धंविनिर्दिशेत्” इति। वृहस्पतिरपि
“शुद्धः स्याच्छुक्ल-निष्ठीवी रक्तमिश्रे तु दोषभागिति”। कात्यायनोऽपि
“शुक्लनिष्ठीवनाच्छुद्धो नियम्योऽशुचिरन्यथेति”।
“अपोग्निरुदकञ्चैव विषङ्कोषस्तथैव च। तण्डुलाश्चैवदिव्यानि सप्तमस्तप्तमाषकः। ” इति पितामहस्मृतिः।
“तण्डुलाश्चैव कोषश्च शङ्कास्वेव न संशयः” इतिमिताक्षराधृतस्मृतिः।

"https://sa.wiktionary.org/w/index.php?title=तण्डुलपरीक्षा&oldid=394155" इत्यस्माद् प्रतिप्राप्तम्