तण्डुलीयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीयः, पुं, (तण्डुलाय हितः । तण्डुल + “विभाषा हविरपूपादिभ्यः ।” ५ । १ । ४ । इति छः ।) पत्रशाकविशेषः । क्षुदियानटिया इति चा~पानटिया इति च वङ्गभाषा । चवराइ इति अल्पमरुषा इति च हिन्दी भाषा । तत्- पर्य्यायः । अल्पमारिषः २ । इत्यमरः । २ । ४ । १३६ ॥ तण्डुलीकः ३ तण्डुलः ४ । इति शब्द- रत्नावली ॥ भण्डीरः ५ तण्डली ६ तण्डुलीयकः ७ ग्रन्थिलः ८ बहुवीर्य्यः ९ मेघनादः १० घन- स्वनः ११ सुशाकः १२ पथ्यशाकः १३ स्फूर्जथुः १४ स्वनिताह्वयः १५ वीरः १६ तण्डुलनामा १७ । अस्य गुणाः । शिशिरत्वम् । मधुरत्वम् । विष- पित्तदाहभ्रमनाशित्वम् । रुचिकारित्वम् । दीप- नत्वम् । पथ्यत्वञ्च । तद्दलगुणाः । हिमत्वम् । अर्शःपित्तरक्तविषकासविनाशित्वम् । ग्राहक- त्वम् । मधुरत्वम् । विपाके दाहशोषशमनत्वम् । रुचिदातृत्वञ्च । इति राजनिर्घण्टः ॥ विड- ङ्गम् । ताप्यम् । इति मेदिनी । ये, ११९ ॥ अस्य पर्य्यायगुणाः । “तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः । भण्डीरस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः ॥ तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित् । सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः ॥” तद्भेदः । जलतण्डुलीयं शास्त्रे कञ्चटमिति प्रसिद्धम् । “पानीयतण्डुलीयन्तु कञ्चटं समुदाहृतम् । कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=तण्डुलीयः&oldid=136945" इत्यस्माद् प्रतिप्राप्तम्