सामग्री पर जाएँ

तत्पुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तत्पुरुष¦
“तत्पुरुषः” इत्यधिकृत्य पा॰ विहिते

१ समासमेदे
“उत्तरपदार्थप्रधानस्तत्पुरुष इति तस्य लक्षणंप्रायिकम् अर्द्धपिप्पल्यादि तत्पुरुषे उत्तरपदार्थप्राधा-न्याभावात् अव्याप्तिः पूर्वपदप्राधान्याच्चाव्ययीभावत्वा-पत्तेरतिव्याप्तिश्च यथोक्तं वाक्यपदीये
“समासस्तु चतु-र्द्धेति प्रायोवादस्तथाऽपरः। योऽयं पूर्वपदार्थादिप्राधान्यविषयःस च”
“अयमर्थः समासः अव्ययीभावतत्पु-रुषद्वन्द्वबहुघ्रीहि भेदात् चतुर्द्धा। तत्र पूर्वपदार्थप्रधानो-ऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थ-प्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुब्रीहिः इत्यादिलक्षणमपि प्रायिकम्। उन्मत्तगङ्गं सूपप्रति अर्द्ध-पिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभिचा-रात्। तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थ-प्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याद्बहुब्रीहिलक्षणातिव्याप्तिश्च
“अन्यपदार्थे च संज्ञायामिति” (अव्य॰) समासात्। सूपप्रतीत्यव्ययीभावे उत्तरपदार्थ-प्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च।
“सूपः प्रतिना मात्रार्थे” इति (अव्य॰) समासात्। अर्द्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययी-भावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च
“अर्द्ध्वं नपुंसकमिति” (तत्पु॰) समासात्। एवं पूर्वकाय इत्यादावपि द्रष्टव्यम्द्वित्रा इति बहुव्रीहावुभयपदार्थप्राधान्यात् द्वन्द्वाति-व्याप्तिबहुव्रीह्यव्याप्तिश्च। कुशपलाशमित्यादिद्वन्द्वे समा-हारान्थपदार्थप्राधान्याद्बहुब्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्चस्यादिति मावः। सिद्धान्ते त्वव्ययीभावाधिकारपठितत्व-मव्ययीभावत्वमित्यादि लक्षणं द्रष्टव्यम्” वै॰ भू॰ सा॰। शब्दशक्तिप्रकाशिकायान्तु अन्यथा तल्लक्षणमुक्त्वा तत्रपदार्थयोरन्वयबोधप्रकारो दर्शितो यथा
“यदीयेन सुवर्थेन युतयद्बोधनक्षमः। यः समासस्तस्यतत्र स तत्पुरुषः उच्यते”। यदर्थगतेन सुबर्थेन विशि-ष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोम्यः सतदर्थस्य तदर्थे तत्पुरुषः। न तु यन्नामोत्तरं यन्नामयदर्थगतसुवर्थावच्छिन्नस्य यत्स्वार्थस्य बोधकं तदुत्तरं तन्ना-मैव तदर्थयोस्तत्पुरुषः पूर्बकायोऽर्द्धपिप्पलीत्यादाव-व्याप्तेः। स्तोकपक्तेत्यादौ क्रियाविशेषणैः कर्मधारयएव महाकविर्महाविज्ञ इत्यादौ कवित्वादाविव प्रकृते-ऽप्येकनामार्थैकदेशे पचनादावपरनामार्थस्याभेदान्वयबोध-कतया तथात्वसम्भवात्। स्तोकं पक्तेत्यादौ अमस्तादात्म्य-[Page3213-a+ 38] वाचित्वे तु तत्पुरुषः सम्भवत्येव क्रियाविशेषणैःसमास एवाव्युत्पन्न इति तु न देश्यं
“स्तोकनम्रा स्तना-भ्यामित्यादेः कालिदासाद्यैः प्रयुक्तत्वात् द्विगौ कर्मधारयेच शाब्दिकानां तत्पुरुषत्वव्यपदेशः पदसंस्कारार्थोगौणः। विभजते।
“द्वितीयादिसुवर्थस्य भेदादेष चषड्विधः। क्रियान्वथी द्वितीयादेरर्थः प्रायोऽत्र योजितः”
“ग्रामगतः चैत्रनीतः ब्राह्मणदत्तः वृक्षपतितः चैत्रधनंमैत्रगतिः गृहस्थित इत्यादौ द्वितीयादिसुबर्थस्य कर्मत्वकर्तृत्वादेर्बोधभेदादेतस्य द्वितीयातृतीयादितत्पुरुषत्वेनषड्भेदाः स्वघटकैकपदार्थनिष्ठद्वितीयार्थावच्छिन्नापरपदा-र्थबोधकसमासत्वादेर्धर्मषट्कस्य सुवचत्वात्। इयांस्तुविशेषो यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायोघरकः पीष्ठं परितः पुण्येन सुखं शमाय विद्या दण्डा-{??}टः गवां कृष्णा सम्पन्नक्षीरा तिलेषु तैलमित्यादिविग्रहेतत्पुरुषस्यासाधुत्वात् वर्षसुखी गिरिकाणः कुण्डल-हिरण्यं घटान्यः कुवेरवलिः कर्मकुशल इत्यादौ तुतत्तद्विशेषविधेर्द्वितीयादितत्पुरुषः। ननु ग्रामगतइत्यत्र गतौ ग्रामकर्मकत्वस्य राजपुरुष इत्यत्र च पुरुषेराजसम्बन्धस्यावगमो न ग्रामादिपदेभ्यो लुप्तसुपः स्मर-णात्, तल्लोपमजानतोऽप्यन्वयवोधात् समृद्धं ग्रामगतइत्यादितः समृद्धग्रामयोरभेदान्वयधीप्रसङ्गाच्च सम्पन्नंदधि पश्येत्याद्राविव तत्रापि नामार्थयोरभेदान्वयबोधो-पयुक्तस्य नाम्नोः समानविभक्तिप्रतिसन्धानस्याविशिष्ट-त्वात्। नापि ग्रामादिपदस्य ग्रामकर्मकत्वादिलक्षकत्वात्अभेदान्यसम्बन्धेन नामार्थस्यान्वयवोधं प्रत्यनुकूलस्यनामोत्तरविभक्त्युपस्थाप्यत्वस्य तादृशप्रत्ययोपस्थाप्यत्वस्यवा गत्यादावसत्त्वात्। नच ग्रामादिपदलक्षितस्य ग्राम-कर्मकादेरेव तत्र गत्यादौ तादात्म्येनान्वय इति साम्प्र-दायिकानाम्मतमेव साम्प्रतं तत्पुरुषस्यापि समस्यमान-पदार्थयोरभेदान्वयबोधकत्वे कर्मधारयत्वापत्तेः ग्रामंगतः राज्ञः पुरुष इत्यादिविग्रहस्य समासतुल्यार्थकत्व-हान्यापत्तेश्चेति चेन्न प्रत्ययान्ततत्तन्नामार्थस्यैव भेदेनान्व-यवोधं प्रति तत्तन्नामोत्तरप्रत्ययोपस्थाप्यतायास्तन्त्रत्वेनग्रामगत इत्यादौ ग्रामादिपदलक्षितग्रामकर्मत्वादेर्गत्यादौभेदेनान्वये बाधकाभावात्। नचैवं गतो ग्रामेत्यत्रापिग्रामदपलक्षितस्य ग्रामकर्मत्वादेर्गत्यादौ भेदेनान्वयबोध-प्रसङ्गः प्रत्ययान्तान्यतत्तन्नामोपस्थाप्यार्थस्यान्वयबोधसा-मान्यं प्रत्येवोत्सर्गतस्तादृशतत्तन्नामोत्तरनामोपस्थाप्यत्वस्य[Page3213-b+ 38] हेतुत्वेन तदसम्भवात्। अतएवार्द्धपिप्पलीच्छेद इत्यादौपूर्वपदप्रधानत्वेनामुशिष्टस्य तत्पुरुषादेरन्त्यपदार्थानांपिप्पलीप्रभृतीनाम् अर्द्धाद्यर्थे घटपटमठानामित्यादौ चसर्वपदप्रधानत्वेन द्बन्द्वस्यानन्त्यपदार्थानां घटादीनां सुबर्थेअन्वयः तथा बहुगुडो द्राक्षेत्यादौ गुडादीनामपि बहुजर्थेप्रकृत्यर्थस्येषदसमाप्तौ नाम्नः प्राग्बहुचि विधानादिति। ननु यदि नामार्थयोरपि भेदेनान्वयो व्युत्पन्नस्तर्हिग्रामगत इत्यादौ कर्मत्वादिसंसर्गेण ग्रामादेरेव गत्यादा-वन्वयोऽस्तु कृतं ग्रामादिशब्द्स्य ग्रामकर्मकत्वादिलक्षणयेतिचेत् सत्यं विग्रहवाक्यानां समाससमानार्थकत्वरक्षणायतत्र लक्षणास्वीकारात्। माऽस्तु वा ग्रामादिपदस्य तत्कर्म-कत्वादौ लक्षणा कर्मत्वादिसंसर्गेणैव ग्रामादेर्गत्यादावन्व-यसम्भवात्तथापि न क्षतिः ग्रामं गत इत्यादिविग्रहस्यापिकर्मत्वार्थकद्वितीयाद्युपसन्धानवशादेव कर्मत्वादिसंसर्गेणगत्यादौ ग्रामाद्यन्वयबोधकतया समाससमानार्थकत्वसम्भ-वात् ग्राममित्यादौ कर्मत्वादिधर्मिकान्वयबोधानुरोधेनद्वितीयादेः कर्मत्वाद्यर्थकत्वात्। अतएवाघटः पट इत्या-दावन्यस्य असुरो दैत्य इत्यादौ विरोधिनः, अनिक्षुः शरइत्यादौ सदृशस्य, अव्राह्मणी वार्द्धुषिक इत्यादावपकृष्टस्य,अनुदरमुदरन्तरुण्या इत्यादौ स्वल्पस्य, बाचकेन नञ्-निपातेन स्वार्थे प्रतियोगित्वादिसम्बन्धेनैव घटादेरनु-भावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः। पटस्याभावइत्यर्थे प्रसज्यनञा अव्ययीभाव एव समासः प्रमाणन्तेनापटं वर्त्तते इत्याद्येव तत्र प्रयोगस्तत्पुरुषस्योत्तरपद-लिङ्गकत्वनियमात् इति वृद्धाः। प्रसज्यनञाप्यपटइत्यादिस्तत्पुरुष एव साधुर्नाव्ययीभावः नञ्तत्पुरुषविधे-स्तदपवादकत्वात् अतएव वादिनामविवाद इत्यादिकःकिरणावल्यादौ पुंसि प्रयोग इति तु पक्षध्ररमिश्राः। युज्यते चोत्तरः कल्पो नचेदेवं
“दशैते राजमातङ्गास्तस्यै-वामी तुरङ्गमाः। चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुते-ऽधुना” इत्यादौ राजसम्बन्धादे राजादिपदलक्ष्यत्वेतदेकदेशस्य राजादेस्तदा परामर्शो न स्यात् विशेष्यविधयावृत्त्या पूर्वोपस्थापितस्यैवार्थस्य परामर्शकत्वात् तदादिश-ब्दानाम्
“नहि प्रजावतीयं मे त्वं तस्मै देहि कम्ब-लम्। नीलो मणिर्गुणः सोऽत्र भ्रात्रादिर्वोध्यते तदा”। नन्वेवम्
“अनयैव ऋचा निषादस्थपतिं याजयेदिति” श्रुतौ निषादानां स्थपतिरिति व्युत्पत्त्या न तत्पुरुषःपरन्तु निषादः स्थपतिरित्यर्थे कर्मधारय एवेति सिद्धान्तो[Page3214-a+ 38] व्याहन्येत तत्पुरुषे भक्तिभिया हि तत्र कर्मधारय-स्वीकारस्तन्मूलके निषादस्याधानेऽपूर्वविद्याप्रयुक्तिश्च क-ल्प्यते कल्प्यते च निषादीयतत्तदध्ययने निषेधविधि-बाधात्
“स्त्रीशूद्रौ नाधीयेतामिति” श्रुतौ तत्तदध्ययने-तराव्ययनपरत्वं धातोः, शूद्रपदस्य त्रैवर्णिकान्योपलक्षक-त्वात्। यदि च कर्मधारय इव तत्पुरुषेऽपि न लक्षणातदा तत्पुरुष एव तत्रोचितस्त्रैवर्णिकस्यैव निषादीयस्थपतित्वेन प्राप्तावपूर्वविद्याप्रयुक्तेस्तन्मूलकनिषेधविधि-सङ्कोचस्य चाकल्प्यत्वादिति चेत् तत्पुरुषे लक्षणापक्षेऽपिकिमिति कर्मधारय एव तत्राभ्युपेयते न तु तत्पुरुषःनिषादानां स्थपतिरिति व्युत्पत्त्या निषादस्थेपतिपदा-न्निषादसम्बन्धवत्त्वेन स्थपत्यनुभवसहस्रस्य सर्वसिद्धत्वेननदनुरोधाल्लक्षणायाः कॢप्तत्वेन तत्कल्पनाभयस्यासम्भ-वात् न हि निषादस्थपत्यादिपदं निषादादिसम्बन्धवत्तयास्थपत्यादिबोधने निराकाङ्क्षं तथा सति निराकाङ्क्षत्वादेवतत्पुरुषत्वासम्भवेन लक्षणापत्तेस्तद्वाधकतयोपन्यासानौ-चित्यात्। अथ बाधकं विना मुख्यार्थ एव श्रुतीनांप्रामाण्यं नतु प्रमाणान्तरविषयेऽपि लक्ष्यार्थे मुख्येशब्दस्वरस इत्यादिमीमांसया तथैव सम्प्रतिपत्तेरितिचेत्तर्हि बाधकासत्त्वे कर्मधारयविधयैव वेद्रानां प्रा-माण्यं न तु प्रमाणान्तरविषयेऽपि तत्पुरुषविधया कर्म-धारयात् समासान्तरस्य दौर्बल्यमित्यादिमीमांसया तथैवप्रतिपत्तेरित्यपि किन्न रोचयेः। तत्पुरुषाद्बहुब्रीहे-र्जघन्यत्वमित्यत्राप्युक्तैव रीतिरनुसर्त्तव्या न हि बहु-व्रीहौ समस्तपदानां लाक्षणिकत्वादेव ततो दुर्बलत्वम्। एकपदमात्रलक्षणयापि बहुब्रीहेर्व्यवस्थाप्यत्वादित्यास्तांविस्तरः”। स च तत्पुरुषस्त्रिविधः व्यधिकरणपदघटित समानाधि-करणपदघटित संज्ञानवबोधकसंख्यावाचकपदघटितभे-दात्। तत्र संज्ञानबोधकसंख्यापूर्वकसमानाधिकरणपदघ-टितस्तत्पुरुषो द्विगुः
“दिक्संख्ये संज्ञायामितिसूत्रेण विहितपञ्चाम्रादिकर्मधारयादिष्वतिप्रसङ्गवार-णाय संज्ञानबोधकेति
“संख्यापूर्बोद्विगुरिति सूत्राच्चसंख्यापूर्वकेति। द्विमूर्द्धाद्यन्यपदार्थे तथात्ववारणायतत्पुरुषेति। द्विगुविषयपरिहारेण समानाधिकरणपद-घटिततत्पुरुषः कर्मधारयः
“तत्पुरुषः समानाधिकरणःकर्मधारयः” इति सूत्रात्। इति तद्भिन्नोव्यधिकरणपद-घटितस्तत्पुरुषः यथा राजपुरुष इतित्यादि।
“द्वन्द्वो द्विगु-[Page3214-b+ 38] रपि चाहं सततं मद्गृहे व्ययीभावः। तत्पुरुष कर्म-धारय येन स्यां मदा बहुब्रीहिः” उद्भटःस प्रसिद्धः पुरुषः।

२ रुद्रभेदे धरणिः तस्य पुरुषः।

३ तदधिष्ठातृदेवे च।
“तत्पुरुषाय विद्महे” इति गायत्री

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तत्पुरुष¦ m. (-षः)
1. That or a certain person.
2. A form of composition, (in Grammar,) usually consisting of two nouns, the first of which was in any case except the nominative or vocative; sometimes the inflection of the case is retained. E. तत् that, and पुरुष man or person.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तत्पुरुष/ तत्--पुरुष m. the original or supreme spirit (one of the 5 forms of ईश्वर[also ष-वक्त्र] Sarvad. vii ) Ka1t2h. xvii , 1 TA1r. , x , 1 , 5 f. Lin3gaP. i , 13

तत्पुरुष/ तत्--पुरुष m. the servant of him Ka1tyS3r. vii , 1 , 8

तत्पुरुष/ तत्--पुरुष m. N. of a कल्पperiod MatsyaP. liii , 41

तत्पुरुष/ तत्--पुरुष m. a class of compounds (formed like the word तत्-पुरुष, " his servant ") in which the last member is qualified by the first without losing (as the last member of बहु-व्रीहिcompounds) its grammatical independence (whether as noun or adj. or p.)

तत्पुरुष/ तत्--पुरुष m. two subdivisions of these compounds are called कर्म-धारयand द्वि-गु(qq.vv.)

"https://sa.wiktionary.org/w/index.php?title=तत्पुरुष&oldid=499848" इत्यस्माद् प्रतिप्राप्तम्