तत्पुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्पुरुष¦
“तत्पुरुषः” इत्यधिकृत्य पा॰ विहिते

१ समासमेदे
“उत्तरपदार्थप्रधानस्तत्पुरुष इति तस्य लक्षणंप्रायिकम् अर्द्धपिप्पल्यादि तत्पुरुषे उत्तरपदार्थप्राधा-न्याभावात् अव्याप्तिः पूर्वपदप्राधान्याच्चाव्ययीभावत्वा-पत्तेरतिव्याप्तिश्च यथोक्तं वाक्यपदीये
“समासस्तु चतु-र्द्धेति प्रायोवादस्तथाऽपरः। योऽयं पूर्वपदार्थादिप्राधान्यविषयःस च”
“अयमर्थः समासः अव्ययीभावतत्पु-रुषद्वन्द्वबहुघ्रीहि भेदात् चतुर्द्धा। तत्र पूर्वपदार्थप्रधानो-ऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थ-प्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुब्रीहिः इत्यादिलक्षणमपि प्रायिकम्। उन्मत्तगङ्गं सूपप्रति अर्द्ध-पिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभिचा-रात्। तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थ-प्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याद्बहुब्रीहिलक्षणातिव्याप्तिश्च
“अन्यपदार्थे च संज्ञायामिति” (अव्य॰) समासात्। सूपप्रतीत्यव्ययीभावे उत्तरपदार्थ-प्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च।
“सूपः प्रतिना मात्रार्थे” इति (अव्य॰) समासात्। अर्द्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययी-भावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च
“अर्द्ध्वं नपुंसकमिति” (तत्पु॰) समासात्। एवं पूर्वकाय इत्यादावपि द्रष्टव्यम्द्वित्रा इति बहुव्रीहावुभयपदार्थप्राधान्यात् द्वन्द्वाति-व्याप्तिबहुव्रीह्यव्याप्तिश्च। कुशपलाशमित्यादिद्वन्द्वे समा-हारान्थपदार्थप्राधान्याद्बहुब्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्चस्यादिति मावः। सिद्धान्ते त्वव्ययीभावाधिकारपठितत्व-मव्ययीभावत्वमित्यादि लक्षणं द्रष्टव्यम्” वै॰ भू॰ सा॰। शब्दशक्तिप्रकाशिकायान्तु अन्यथा तल्लक्षणमुक्त्वा तत्रपदार्थयोरन्वयबोधप्रकारो दर्शितो यथा
“यदीयेन सुवर्थेन युतयद्बोधनक्षमः। यः समासस्तस्यतत्र स तत्पुरुषः उच्यते”। यदर्थगतेन सुबर्थेन विशि-ष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोम्यः सतदर्थस्य तदर्थे तत्पुरुषः। न तु यन्नामोत्तरं यन्नामयदर्थगतसुवर्थावच्छिन्नस्य यत्स्वार्थस्य बोधकं तदुत्तरं तन्ना-मैव तदर्थयोस्तत्पुरुषः पूर्बकायोऽर्द्धपिप्पलीत्यादाव-व्याप्तेः। स्तोकपक्तेत्यादौ क्रियाविशेषणैः कर्मधारयएव महाकविर्महाविज्ञ इत्यादौ कवित्वादाविव प्रकृते-ऽप्येकनामार्थैकदेशे पचनादावपरनामार्थस्याभेदान्वयबोध-कतया तथात्वसम्भवात्। स्तोकं पक्तेत्यादौ अमस्तादात्म्य-[Page3213-a+ 38] वाचित्वे तु तत्पुरुषः सम्भवत्येव क्रियाविशेषणैःसमास एवाव्युत्पन्न इति तु न देश्यं
“स्तोकनम्रा स्तना-भ्यामित्यादेः कालिदासाद्यैः प्रयुक्तत्वात् द्विगौ कर्मधारयेच शाब्दिकानां तत्पुरुषत्वव्यपदेशः पदसंस्कारार्थोगौणः। विभजते।
“द्वितीयादिसुवर्थस्य भेदादेष चषड्विधः। क्रियान्वथी द्वितीयादेरर्थः प्रायोऽत्र योजितः”
“ग्रामगतः चैत्रनीतः ब्राह्मणदत्तः वृक्षपतितः चैत्रधनंमैत्रगतिः गृहस्थित इत्यादौ द्वितीयादिसुबर्थस्य कर्मत्वकर्तृत्वादेर्बोधभेदादेतस्य द्वितीयातृतीयादितत्पुरुषत्वेनषड्भेदाः स्वघटकैकपदार्थनिष्ठद्वितीयार्थावच्छिन्नापरपदा-र्थबोधकसमासत्वादेर्धर्मषट्कस्य सुवचत्वात्। इयांस्तुविशेषो यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायोघरकः पीष्ठं परितः पुण्येन सुखं शमाय विद्या दण्डा-{??}टः गवां कृष्णा सम्पन्नक्षीरा तिलेषु तैलमित्यादिविग्रहेतत्पुरुषस्यासाधुत्वात् वर्षसुखी गिरिकाणः कुण्डल-हिरण्यं घटान्यः कुवेरवलिः कर्मकुशल इत्यादौ तुतत्तद्विशेषविधेर्द्वितीयादितत्पुरुषः। ननु ग्रामगतइत्यत्र गतौ ग्रामकर्मकत्वस्य राजपुरुष इत्यत्र च पुरुषेराजसम्बन्धस्यावगमो न ग्रामादिपदेभ्यो लुप्तसुपः स्मर-णात्, तल्लोपमजानतोऽप्यन्वयवोधात् समृद्धं ग्रामगतइत्यादितः समृद्धग्रामयोरभेदान्वयधीप्रसङ्गाच्च सम्पन्नंदधि पश्येत्याद्राविव तत्रापि नामार्थयोरभेदान्वयबोधो-पयुक्तस्य नाम्नोः समानविभक्तिप्रतिसन्धानस्याविशिष्ट-त्वात्। नापि ग्रामादिपदस्य ग्रामकर्मकत्वादिलक्षकत्वात्अभेदान्यसम्बन्धेन नामार्थस्यान्वयवोधं प्रत्यनुकूलस्यनामोत्तरविभक्त्युपस्थाप्यत्वस्य तादृशप्रत्ययोपस्थाप्यत्वस्यवा गत्यादावसत्त्वात्। नच ग्रामादिपदलक्षितस्य ग्राम-कर्मकादेरेव तत्र गत्यादौ तादात्म्येनान्वय इति साम्प्र-दायिकानाम्मतमेव साम्प्रतं तत्पुरुषस्यापि समस्यमान-पदार्थयोरभेदान्वयबोधकत्वे कर्मधारयत्वापत्तेः ग्रामंगतः राज्ञः पुरुष इत्यादिविग्रहस्य समासतुल्यार्थकत्व-हान्यापत्तेश्चेति चेन्न प्रत्ययान्ततत्तन्नामार्थस्यैव भेदेनान्व-यवोधं प्रति तत्तन्नामोत्तरप्रत्ययोपस्थाप्यतायास्तन्त्रत्वेनग्रामगत इत्यादौ ग्रामादिपदलक्षितग्रामकर्मत्वादेर्गत्यादौभेदेनान्वये बाधकाभावात्। नचैवं गतो ग्रामेत्यत्रापिग्रामदपलक्षितस्य ग्रामकर्मत्वादेर्गत्यादौ भेदेनान्वयबोध-प्रसङ्गः प्रत्ययान्तान्यतत्तन्नामोपस्थाप्यार्थस्यान्वयबोधसा-मान्यं प्रत्येवोत्सर्गतस्तादृशतत्तन्नामोत्तरनामोपस्थाप्यत्वस्य[Page3213-b+ 38] हेतुत्वेन तदसम्भवात्। अतएवार्द्धपिप्पलीच्छेद इत्यादौपूर्वपदप्रधानत्वेनामुशिष्टस्य तत्पुरुषादेरन्त्यपदार्थानांपिप्पलीप्रभृतीनाम् अर्द्धाद्यर्थे घटपटमठानामित्यादौ चसर्वपदप्रधानत्वेन द्बन्द्वस्यानन्त्यपदार्थानां घटादीनां सुबर्थेअन्वयः तथा बहुगुडो द्राक्षेत्यादौ गुडादीनामपि बहुजर्थेप्रकृत्यर्थस्येषदसमाप्तौ नाम्नः प्राग्बहुचि विधानादिति। ननु यदि नामार्थयोरपि भेदेनान्वयो व्युत्पन्नस्तर्हिग्रामगत इत्यादौ कर्मत्वादिसंसर्गेण ग्रामादेरेव गत्यादा-वन्वयोऽस्तु कृतं ग्रामादिशब्द्स्य ग्रामकर्मकत्वादिलक्षणयेतिचेत् सत्यं विग्रहवाक्यानां समाससमानार्थकत्वरक्षणायतत्र लक्षणास्वीकारात्। माऽस्तु वा ग्रामादिपदस्य तत्कर्म-कत्वादौ लक्षणा कर्मत्वादिसंसर्गेणैव ग्रामादेर्गत्यादावन्व-यसम्भवात्तथापि न क्षतिः ग्रामं गत इत्यादिविग्रहस्यापिकर्मत्वार्थकद्वितीयाद्युपसन्धानवशादेव कर्मत्वादिसंसर्गेणगत्यादौ ग्रामाद्यन्वयबोधकतया समाससमानार्थकत्वसम्भ-वात् ग्राममित्यादौ कर्मत्वादिधर्मिकान्वयबोधानुरोधेनद्वितीयादेः कर्मत्वाद्यर्थकत्वात्। अतएवाघटः पट इत्या-दावन्यस्य असुरो दैत्य इत्यादौ विरोधिनः, अनिक्षुः शरइत्यादौ सदृशस्य, अव्राह्मणी वार्द्धुषिक इत्यादावपकृष्टस्य,अनुदरमुदरन्तरुण्या इत्यादौ स्वल्पस्य, बाचकेन नञ्-निपातेन स्वार्थे प्रतियोगित्वादिसम्बन्धेनैव घटादेरनु-भावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः। पटस्याभावइत्यर्थे प्रसज्यनञा अव्ययीभाव एव समासः प्रमाणन्तेनापटं वर्त्तते इत्याद्येव तत्र प्रयोगस्तत्पुरुषस्योत्तरपद-लिङ्गकत्वनियमात् इति वृद्धाः। प्रसज्यनञाप्यपटइत्यादिस्तत्पुरुष एव साधुर्नाव्ययीभावः नञ्तत्पुरुषविधे-स्तदपवादकत्वात् अतएव वादिनामविवाद इत्यादिकःकिरणावल्यादौ पुंसि प्रयोग इति तु पक्षध्ररमिश्राः। युज्यते चोत्तरः कल्पो नचेदेवं
“दशैते राजमातङ्गास्तस्यै-वामी तुरङ्गमाः। चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुते-ऽधुना” इत्यादौ राजसम्बन्धादे राजादिपदलक्ष्यत्वेतदेकदेशस्य राजादेस्तदा परामर्शो न स्यात् विशेष्यविधयावृत्त्या पूर्वोपस्थापितस्यैवार्थस्य परामर्शकत्वात् तदादिश-ब्दानाम्
“नहि प्रजावतीयं मे त्वं तस्मै देहि कम्ब-लम्। नीलो मणिर्गुणः सोऽत्र भ्रात्रादिर्वोध्यते तदा”। नन्वेवम्
“अनयैव ऋचा निषादस्थपतिं याजयेदिति” श्रुतौ निषादानां स्थपतिरिति व्युत्पत्त्या न तत्पुरुषःपरन्तु निषादः स्थपतिरित्यर्थे कर्मधारय एवेति सिद्धान्तो[Page3214-a+ 38] व्याहन्येत तत्पुरुषे भक्तिभिया हि तत्र कर्मधारय-स्वीकारस्तन्मूलके निषादस्याधानेऽपूर्वविद्याप्रयुक्तिश्च क-ल्प्यते कल्प्यते च निषादीयतत्तदध्ययने निषेधविधि-बाधात्
“स्त्रीशूद्रौ नाधीयेतामिति” श्रुतौ तत्तदध्ययने-तराव्ययनपरत्वं धातोः, शूद्रपदस्य त्रैवर्णिकान्योपलक्षक-त्वात्। यदि च कर्मधारय इव तत्पुरुषेऽपि न लक्षणातदा तत्पुरुष एव तत्रोचितस्त्रैवर्णिकस्यैव निषादीयस्थपतित्वेन प्राप्तावपूर्वविद्याप्रयुक्तेस्तन्मूलकनिषेधविधि-सङ्कोचस्य चाकल्प्यत्वादिति चेत् तत्पुरुषे लक्षणापक्षेऽपिकिमिति कर्मधारय एव तत्राभ्युपेयते न तु तत्पुरुषःनिषादानां स्थपतिरिति व्युत्पत्त्या निषादस्थेपतिपदा-न्निषादसम्बन्धवत्त्वेन स्थपत्यनुभवसहस्रस्य सर्वसिद्धत्वेननदनुरोधाल्लक्षणायाः कॢप्तत्वेन तत्कल्पनाभयस्यासम्भ-वात् न हि निषादस्थपत्यादिपदं निषादादिसम्बन्धवत्तयास्थपत्यादिबोधने निराकाङ्क्षं तथा सति निराकाङ्क्षत्वादेवतत्पुरुषत्वासम्भवेन लक्षणापत्तेस्तद्वाधकतयोपन्यासानौ-चित्यात्। अथ बाधकं विना मुख्यार्थ एव श्रुतीनांप्रामाण्यं नतु प्रमाणान्तरविषयेऽपि लक्ष्यार्थे मुख्येशब्दस्वरस इत्यादिमीमांसया तथैव सम्प्रतिपत्तेरितिचेत्तर्हि बाधकासत्त्वे कर्मधारयविधयैव वेद्रानां प्रा-माण्यं न तु प्रमाणान्तरविषयेऽपि तत्पुरुषविधया कर्म-धारयात् समासान्तरस्य दौर्बल्यमित्यादिमीमांसया तथैवप्रतिपत्तेरित्यपि किन्न रोचयेः। तत्पुरुषाद्बहुब्रीहे-र्जघन्यत्वमित्यत्राप्युक्तैव रीतिरनुसर्त्तव्या न हि बहु-व्रीहौ समस्तपदानां लाक्षणिकत्वादेव ततो दुर्बलत्वम्। एकपदमात्रलक्षणयापि बहुब्रीहेर्व्यवस्थाप्यत्वादित्यास्तांविस्तरः”। स च तत्पुरुषस्त्रिविधः व्यधिकरणपदघटित समानाधि-करणपदघटित संज्ञानवबोधकसंख्यावाचकपदघटितभे-दात्। तत्र संज्ञानबोधकसंख्यापूर्वकसमानाधिकरणपदघ-टितस्तत्पुरुषो द्विगुः
“दिक्संख्ये संज्ञायामितिसूत्रेण विहितपञ्चाम्रादिकर्मधारयादिष्वतिप्रसङ्गवार-णाय संज्ञानबोधकेति
“संख्यापूर्बोद्विगुरिति सूत्राच्चसंख्यापूर्वकेति। द्विमूर्द्धाद्यन्यपदार्थे तथात्ववारणायतत्पुरुषेति। द्विगुविषयपरिहारेण समानाधिकरणपद-घटिततत्पुरुषः कर्मधारयः
“तत्पुरुषः समानाधिकरणःकर्मधारयः” इति सूत्रात्। इति तद्भिन्नोव्यधिकरणपद-घटितस्तत्पुरुषः यथा राजपुरुष इतित्यादि।
“द्वन्द्वो द्विगु-[Page3214-b+ 38] रपि चाहं सततं मद्गृहे व्ययीभावः। तत्पुरुष कर्म-धारय येन स्यां मदा बहुब्रीहिः” उद्भटःस प्रसिद्धः पुरुषः।

२ रुद्रभेदे धरणिः तस्य पुरुषः।

३ तदधिष्ठातृदेवे च।
“तत्पुरुषाय विद्महे” इति गायत्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्पुरुष¦ m. (-षः)
1. That or a certain person.
2. A form of composition, (in Grammar,) usually consisting of two nouns, the first of which was in any case except the nominative or vocative; sometimes the inflection of the case is retained. E. तत् that, and पुरुष man or person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्पुरुष/ तत्--पुरुष m. the original or supreme spirit (one of the 5 forms of ईश्वर[also ष-वक्त्र] Sarvad. vii ) Ka1t2h. xvii , 1 TA1r. , x , 1 , 5 f. Lin3gaP. i , 13

तत्पुरुष/ तत्--पुरुष m. the servant of him Ka1tyS3r. vii , 1 , 8

तत्पुरुष/ तत्--पुरुष m. N. of a कल्पperiod MatsyaP. liii , 41

तत्पुरुष/ तत्--पुरुष m. a class of compounds (formed like the word तत्-पुरुष, " his servant ") in which the last member is qualified by the first without losing (as the last member of बहु-व्रीहिcompounds) its grammatical independence (whether as noun or adj. or p.)

तत्पुरुष/ तत्--पुरुष m. two subdivisions of these compounds are called कर्म-धारयand द्वि-गु(qq.vv.)

"https://sa.wiktionary.org/w/index.php?title=तत्पुरुष&oldid=499848" इत्यस्माद् प्रतिप्राप्तम्