तथागत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागतः, पुं, (यथा पुनरावृत्तिर्न भवति तथा तेन प्रकारेण गतः । यद्वा, तथा सत्यं गतं ज्ञानं यस्य । सुप्सुपेति समासः ।) बुद्धः । इत्यमरः । १ । १ । १३ ॥ (यथा, सर्व्वदर्शनसंग्रहे । “यथा गतास्ते मुनयः शिवां गतिं तथा गतिं सोऽपि गतस्तथागतः ॥” * ॥ तथा तेन प्रकारेणागतः ।) पूर्ब्बोक्तप्रकारेणा- गते, त्रि ॥ (यथा, महाभारते । ३ । ७७ । ५ । “ततो वभूव नगरे सुमहान् हर्षजः स्वनः । जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।1।5

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत¦ पु॰ तथा सत्यं गतं ज्ञानं यस्य यथा न पुनरावृत्ति-र्भवति तथा तेन प्रकारेण गत इति वा तथा गतः सहसु-पेति समासः।

१ बुद्धमुनौ सुगते अमरः।
“यथा गतास्तेमुनयः शिवां गतिं तथागतिं सोऽपि गतस्तथागतः” सर्वद॰ वौद्धागमः।

२ पूर्वोक्तप्रकारेण गते त्रि॰।
“नलं दृष्ट्वातथागतम्” भा॰ व॰

७७ अ॰।
“श्रियं तथागतां दृष्ट्वाज्वलन्तीमिव पाण्डवे” भा॰ स॰

१६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत¦ m. (-तः) A Jina or Budd'ha. E. तथा thus, (what really is,) and गत known, obtained.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागत/ तथा--गत mfn. being in such a state or condition , of such a quality or nature RPra1t. iii , 5 MBh. Ma1lav. v , 9/10

तथागत/ तथा--गत mfn. " he who comes and goes in the same way [as the बुद्धs who preceded him] " , गौतमबुद्धBuddh. Sarvad.

तथागत/ तथा--गत mfn. a Buddhist SS3am2kar. i , 70

तथागत/ तथा--गत mfn. x

"https://sa.wiktionary.org/w/index.php?title=तथागत&oldid=394912" इत्यस्माद् प्रतिप्राप्तम्