तथागतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथागतः, पुं, (यथा पुनरावृत्तिर्न भवति तथा तेन प्रकारेण गतः । यद्वा, तथा सत्यं गतं ज्ञानं यस्य । सुप्सुपेति समासः ।) बुद्धः । इत्यमरः । १ । १ । १३ ॥ (यथा, सर्व्वदर्शनसंग्रहे । “यथा गतास्ते मुनयः शिवां गतिं तथा गतिं सोऽपि गतस्तथागतः ॥” * ॥ तथा तेन प्रकारेणागतः ।) पूर्ब्बोक्तप्रकारेणा- गते, त्रि ॥ (यथा, महाभारते । ३ । ७७ । ५ । “ततो वभूव नगरे सुमहान् हर्षजः स्वनः । जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=तथागतः&oldid=136999" इत्यस्माद् प्रतिप्राप्तम्