तन्तुवाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुवायः, पुं, (तन्तून् वयति विस्तारयति जाला- कारेणेति । वे + “संज्ञायाञ्च ।” ६ । २ । ७७ । इत्यण् ।) लूता । इत्यमरः । २ । ६ । १३ ॥ (तन्तून् वयतीति । वे + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) तन्त्रवायः । इति शब्दरत्नावली ॥ (यथा, मनुः । ८ । ३९७ । “तन्तुवायो दशपलं दद्यादेकपलाधिकम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुवाय पुं।

ऊर्णनाभः

समानार्थक:लूता,तन्तुवाय,ऊर्णनाभ,मर्कटक

2।5।13।1।2

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

तन्तुवाय पुं।

पटनिर्माता

समानार्थक:तन्तुवाय,कुविन्द

2।10।6।2।1

कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः। तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः॥

वृत्ति : तन्तवः

 : कञ्चुक्यादेर्निर्माता

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुवाय¦ त्रि॰ तन्तून् वयति वे--अण् उप॰ स॰।

१ तन्तुवयन-कर्त्तरि (तां ति)

२ लूतायां कीटभेदे च अमरः।

३ सङ्की-र्णजातिभेदे पुंस्त्री। स्त्रियां जातित्वात् ङीष्। सा चजातिस्तद्वृत्तिश्च मानवोक्ता यथा
“नृपायां वैश्यसंसर्गा-दायोगव इति स्मृतः। तन्तुवाया भवन्त्येव वसुकांस्योप-जीविनः। शीलकाः केचित्तत्रैव जीवनं वस्त्रनिर्मितौ”
“तन्तुवायो दशपलं दद्यादेकपलाधिकम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुवाय¦ m. (-यः)
1. A weaver.
2. A spider. E. तन्तु a thread, वे to weave, अण् affix; also तन्त्रवाय।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुवाय/ तन्तु--वाय m. ( Ka1s3. on Pa1n2. 3-2 , 2 and vi , 2 , 76 )a weaver Mn. viii , 397 VarBr2S. VarBr2. (See. रजक-)

तन्तुवाय/ तन्तु--वाय m. a spider Pa1n2. 6-2 , 77 Ka1s3.

तन्तुवाय/ तन्तु--वाय m. weaving L.

"https://sa.wiktionary.org/w/index.php?title=तन्तुवाय&oldid=499867" इत्यस्माद् प्रतिप्राप्तम्