तन्मात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्मात्रम्, क्ली, (तदेवेति । तत् + एवार्थे मात्रच् । यद्बा, सा मात्रा यस्य ।) अपञ्चीकृतरूप- रसगन्धस्पर्शशब्दानां संज्ञा । यथा, -- “इमान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ।” इति वेदान्तसारः । २७ ॥ तट्टीका यथा । “नन्वव्याकृतात् पञ्चतन्मात्राणि क्रमेण जायन्ते इति हि स्मृतीतिहासपुराणेषु प्रसिद्धि- स्तत् कथमाकाशादेरिहोत्पत्तिराम्नायते इति तत्राह एतान्येवेति । एतान्येवाकाशादीनि सूक्ष्मभूतानि व्यवहाराक्षमाणि शब्दादिताव- न्मात्रैकस्वभावानि अपञ्चीकृतानि परमसंसृ- ष्टानि चेति स्मृत्यादिषूच्यन्ते महर्षिभिरित्यर्थः ॥” इति विद्बन्मनोरञ्जिनी ॥ * ॥ अपि च । “भूतादिस्तु विकुर्व्वाणः सर्गं तन्मात्रिकं ततः । ससर्ज्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥” इति विष्णुपुराणे १२ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्मात्र¦ न॰ तदेव एवार्थे मात्रच् सा मात्रा यस्य वा। सांख्या-दिसिद्धेषु शब्दादिषु नत्वेषां शान्तादिर्विशेषोऽस्ति। यथोक्तंविष्णुपुराणे
“तस्मिं तस्मिंस्तु तन्मात्रास्तेन तन्मात्रतास्मृता। तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते। नशान्ता नापि घोरास्ते न मूढाश्चाबिशेषिणः” इति।
“तन्{??}त्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः। एतेस्मृता विशेषाः शान्ता घोराश्च मूढाश्च” सा॰ का॰। [Page3230-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्मात्र¦ n. sub. (-त्रं) The archetype or subtile rudiment of elementary matter. adv. Merely that. E. तत्, and मात्र only, or element. तदेव एवार्थे मात्रच् सा मात्रा यस्य वा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्मात्र/ तन्--मात्र mfn. = त्रकMBh. ix , 1806 Pan5cat.

तन्मात्र/ तन्--मात्र mfn. = त्रिकBhP. iii , 10 , 15

तन्मात्र/ तन्--मात्र n. merely that , only a trifle Katha1s. v , 15

तन्मात्र/ तन्--मात्र n. lxiii , 60 Ra1jat. vi , 1

तन्मात्र/ तन्--मात्र n. a rudimentary or subtle element (5 in number , viz. शब्द-, स्पर्श-, रूप-, रस-, गन्ध-, from which the 5 महा-भूतs or grosser elements are produced See. RTL. p.31and33 ) Ya1jn5. iii , 179 MBh. i , xiii Sa1m2khyak. KapS. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--‘rudimentary, undifferentiated, subtle ele- ments from which a gross element is produced.’ M. 3. २२-26; वा. 4. ५२.

"https://sa.wiktionary.org/w/index.php?title=तन्मात्र&oldid=430121" इत्यस्माद् प्रतिप्राप्तम्