तपस्विन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्वी, [न्] त्रि, (तपोऽस्यास्तीति । तपस् + “तपःसहस्राभ्यां विनीनी ।” ५ । २ । १०२ । इति विनिः ।) तपोयुक्तः । तत्पर्य्यायः । तापसः २ पारिकाङ्क्षी ३ । इत्यमरः । २ । ७ । ४२ ॥ पारकाङ्क्षी ४ पारिकाङ्क्षकः ५ । इति शब्द- रत्नावली ॥ तपोधनः ६ । (यथा, मनुः । ४ । १६२ । “न हिंस्याद्ब्राह्मणान् गाश्च सर्व्वांश्चैव तपस्विनः ॥”) आनुकम्प्यः । इति मेदिनी । ने, १८५ ॥

तपस्वी, [न्] पुं, (तपस् + अस्त्यर्थे विनिः ।) नारदः । इति शब्दरत्नावली ॥ मत्स्यविशेषः । तपास्या माछ इति भाषा । तत्पर्य्यायः । तपः- करः २ चेष्टकः ३ चेष्टः ४ । इति शब्द- चन्द्रिका ॥ (चाक्षुषस्य मनोः पुत्त्रविशेषः । यथा, हरिवंशे । २ । १८ । “ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवान् कविः ॥”) घृतकरञ्जवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विन् पुं।

तपस्वी

समानार्थक:तपस्विन्,तापस,पारिकाङ्क्षिन्

2।7।42।1।1

तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः। तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः॥

अवयव : तपस्विजटा

वैशिष्ट्यवत् : तपस्विजटा

 : मौनव्रतिः, तपःक्लेशसहः, ब्रह्मचारिः, ऋषिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विन्¦ त्रि॰ तपस् + अस्त्यर्थे विनि।

१ तापसे,

२ चान्द्रायणा-दिव्रतधारिणि,

३ अनुकम्प्ये,

४ दीने

५ प्रशस्ततपोयुक्ते च। स्त्रियां ङीप्
“किं किं व्यवस्यति न वेद्मि तपस्विनीसा” सा॰ द॰।
“नवप्रसूतिर्वरटा तपस्विनी” नैष॰।
“कस्तपस्विविशिखेषु चादरः” किरा॰।
“पूर्य्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः” रघुः त-पस्विभ्योऽधिको योगी” गीता

६ नारदे पु॰ शब्दरत्ना॰

७ तपस्यामत्स्यभेदे शब्दर॰।

८ घृतकरञ्जवृक्षे पु॰

९ चटकेपुंस्त्री राजनि॰ स्त्रियां जातित्वात् ङीष्।

१० जटा-मास्यां

११ कटुरोहिण्यां स्त्री हेमच॰ गौ॰ ङीष्।

१२ म-हाश्रावणिकायाः स्त्री भावप्र॰ हरिवंशोक्ते चतुर्थमन्व-न्तरे काश्यपे

१३ ऋषिभेदे तपोधृतिशब्दे प्रमाणं दृश्यम्। [Page3233-a+ 38] भागवतोक्ते द्वादशमन्वन्तरे

१४ सप्तर्षिभेदे तपोमूर्त्तिशब्देप्रमाणं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विन्¦ mfn. (-स्वी-स्विनी-स्वि)
1. Devout practicing austerities.
2. Poor wretched, pitiable. m. (-स्वी)
1. An ascetic, a religious man engaged in the practice of rigorous and devout penance.
2. A name of NARADA.
3. A mendicant, a pauper.
4. The mangoe fish, (Polynemus risua.) f. (-स्विनी)
3. A female devotee, a woman leading a religious life.
2. Spikenard, (Valeriana jatamansi.)
3. Another plant: see कटुरोहिणी। E. तपस् religious aus- terity, the hot season, &c. अस्त्यर्थेविनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विन् [tapasvin], a.

Practising penance, devout.

Poor, miserable, helpless, pitiable; सा तपस्विनी निर्वृता भवतु Ś.4; Māl 3; N.1.l35. -m.

An ascetic; तपस्विसामान्यमवेक्ष- णीया R.14.67.

A mendicant, pauper.

An epithet of Nārada.

A sparrow.

A mango-fish; (see तपस्कर).

नी female ascetic.

A poor or wretched woman. -Comp. -पत्रः the sun-flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्विन्/ तपस्--विन् mfn. ( Pa1n2. 5-2 , 102 ) distressed , wretched , poor , miserable TS. v , 3 , 3 , 4 ( compar. -वि-तर) R. ii f. S3ak. Ma1lav. BhP. Sa1h.

तपस्विन्/ तपस्--विन् mfn. practising austerities , (m.) an ascetic AV. xiii , 2 , 25 Ka1t2h. xx ( compar. ) , xxiii (superl. -वि-तम) S3Br. ( compar. ii) etc.

तपस्विन्/ तपस्--विन् m. a pauper W.

तपस्विन्/ तपस्--विन् m. = पःकरL.

तपस्विन्/ तपस्--विन् m. a kind of करञ्जtree L.

तपस्विन्/ तपस्--विन् m. नारदL.

तपस्विन्/ तपस्--विन् m. N. of a son of मनुचाक्षुषHariv. 71

तपस्विन्/ तपस्--विन् m. of a ऋषिof the 12th मन्व्-अन्तर, 482 BhP. viii , 13 , 29 VP.

"https://sa.wiktionary.org/w/index.php?title=तपस्विन्&oldid=499883" इत्यस्माद् प्रतिप्राप्तम्