सामग्री पर जाएँ

तमस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमः, [स्] क्ली, (ताम्यत्यनेनेति । तम + “सर्व्व- धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) प्रकृतेर्गुणविशेषः । यथा, -- “सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥ प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥ यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति जानीहि शौनक ! ॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः । कर्म्मणाञ्चापि काम्यानां द्बापरस्तद्रजस्तमः ॥ यदा सदानृतं तन्द्री निद्राहिंसादिसाघनम् । शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥” इति गारुडे २२७ अध्यायः ॥ * ॥ अपि च । “तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ! ॥ सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत ! । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत ! । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥” “अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्यतानि जायन्ते विवृद्धे कुरुनन्दन ! ॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ रजसि प्रलयं गत्वा कर्म्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ कर्म्मणः सुकृतस्याहुः सात्त्विकं निर्म्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥” इति श्रीभगवद्गीतायाम् । १४ । ८१८ ॥ तत्तु आवरकं मोहहेतुः । इत्यमरभरतौ ॥ अस्य कार्य्यं संहारः । इति श्रीधरस्वामी ॥ तस्य धर्म्मो यथा । प्रमादः १ मोहः २ भयम् ३ क्लान्तिः ४ विषादः ५ शोकः ६ अरतिः ७ अनार्य्यता ८ । इति मोक्षधर्म्मः ॥ श्रमः ९ तन्द्रा १० । इत्याश्वमेधिकपर्व्व ॥ अन्धकारः । (यथा, महाभारते । १ । १०५ । १० । “तमसा लोकमावृत्य नौगतामेव भारत ! ॥”) तत्पर्य्यायः । तमसम् २ निशाचर्म्म ३ नीलपङ्कम् ४ रजोबलम् ५ दिवान्तकः ६ वियद्भूतिः ७ खलुक् ८ वृत्रः ९ । इति त्रिकाण्डशेषः ॥ रजोरसम् १० दिनान्तरम् ११ अन्धकम् १२ । इति शब्दरत्नावली ॥ अमरोक्तपर्य्यायोऽन्धकारशब्दे द्रष्टव्यः ॥ शोकः । इति मेदिनी । से, २४ ॥ पापम् । इति हेमचन्द्रः ॥ (राहुः । इति मेदिनी । से, २४ ॥ यथा, रषुः । ८ । ३७ । “निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस् नपुं।

गुणः

समानार्थक:सत्त्व,रजस्,तमस्,रस

1।4।29।2।5

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

पदार्थ-विभागः : , गुणः

तमस् नपुं।

अन्धकारः

समानार्थक:अन्धकार,ध्वान्त,तमिस्र,तिमिर,तमस्,अन्ध,वृत्र

1।8।3।1।5

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः॥

 : घनान्धकारः, क्षीणतमस्, व्यापकतमस्

पदार्थ-विभागः : , अभावः, तेजोभावः

तमस् नपुं।

राहुः

समानार्थक:तम,राहु,स्वर्भानु,सैंहिकेय,विधुन्तुद,तमस्

3।3।232।2।1

तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः। रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्¦ न॰ तम--करणादौ--असुन्। त्रिगुणात्मकप्रधानस्व गुणभेदे[Page3237-b+ 38]
“सत्वं रजस्तम इति प्रकृतेर्गुणास्तैः” भाग॰

१ ।

४ । भा॰ आश्वमेधिकपर्वणि तस्य कार्य्यभेदादिकमुक्तं यथा
“ब्रह्मोवाच। तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्। नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम्। एकादशपरिक्षेपं मनोव्याकरणत्मकम्। बुद्धिस्वामिकमित्ये-तत्पुरमेकादशं भवेत्। त्रीणि स्रोतांसि यान्यस्मिन्ना-प्यायन्ते पुनः पुनः। प्राणेभ्यस्तिस्र एवैताः प्रवर्त्तन्तेगुणात्मिकाः। तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते। अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानु-जीविनः। अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानु-वर्त्तिनः। अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः। तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः। रजस-श्चापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तमः। नियम्यतेतमो यत्र रजस्तत्र प्रवर्त्तते। नियम्यते रजो यत्रसत्त्वं तत्र प्रवर्तते। नैशात्मकं तमो विद्यात् त्रिगुणंमोहसंज्ञितम्। अधर्मलक्षणञ्चैव नियतं पापकर्मसु। प्रवृत्त्यात्मकमेवाहुः रजः पर्य्यायकारकम्। प्रवृत्तंसर्वभूतेषु दृश्यमुत्पत्तिलक्षणम्। प्रकाशः सर्वभुतेषु लाघवंश्रद्दधानता। सात्त्विकं रूपमेवन्तु लाघवं साधु-सम्मितम्। एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः। समासव्यासयुक्तानि तत्त्वतस्तान्निबोधत। संमोहो-ऽज्ञानमत्यागः कर्मणामविनिर्णयः। स्वप्नः स्तम्भो भयंलोभः शोकः स्वकृतदूषणम्। अस्मृतिश्चाविपाकश्चनास्तिक्यं भिन्नवृत्तिता। निर्विशेषत्वमन्धत्वं जथन्यगुण-वृत्तिता। अकृते कृतमानित्वमज्ञाने ज्ञानमानिता। अमैत्री विकृतीभावोह्यश्रद्धा मूढभावना। अनार्ज्जव-मसङ्गत्वं कर्म पापमचेतना। गुरुत्वं सन्नभावत्वमव-शित्वमवाग्गतिः। सर्व एते गुणावृत्तास्तामसाः संप्र-कीर्त्तिताः। ये चान्ये विहिताभावा लोकेऽस्मिन्भावसंज्ञिताः। तत्र तत्र नियम्यन्ते सर्वे ते तामसागुणाः। परिवादकथा नित्यं नित्यं ब्राह्मणनिन्दकाः। अत्यागश्चाभिमानश्च मोहो मन्युस्तथाऽक्षमा। मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते। वृथा-रम्भा हि ये केचिद्वृथादानानि यानि च। वृथाभक्षणमित्येतत् तामसं वृत्तमिष्यते। अतिवादोऽ-तितिक्षा च मात्सर्य्यमतिमानिता। अश्रद्दधानता-चैव तामसं वृत्तमिष्यते। एवंविधाश्च ये केचिल्लोके-ऽस्मिन् पापकर्मिणः। मनुष्या भिन्नमर्य्यादास्ते सर्वे[Page3238-a+ 38] तामसाः स्मृताः। तेषां योनिं प्रवक्ष्यामि नियताःपापकर्मिणाम्। अवाङ्निरयभावाय तिर्य्यङ्निरय-गामिनः। स्थावराणि च भूतानि पशवो वाहनानिच। क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः। अण्डजा जन्तवश्चैव सर्वे चापि चतुष्पदाः। उन्मत्तावधिरामूका ये चान्ये पापरोगिणः। मग्नास्तमसिदुर्वृत्ताः स्वकर्मकृतलक्षणाः। अवाक्स्रोतस इत्येतेमग्नास्तमसि तामसाः। तेषामुत्कर्षमुद्रेकं वक्ष्या-म्यहमतः परम्। यथा ते सुकृतान् लोकान् लभन्तेपुण्यकर्मिणः। अन्यथा प्रतिपन्नास्तु विवृद्धा ये चकर्मिणः। स्वकर्मनिरतानाञ्च ब्राह्मणानां शुभै-षिणाम्। संस्कारेणोर्द्ध्वमायान्ति यतमानाः सलो-कताम्। स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः। अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु। पुनरा-वृत्तिधर्म्माणस्ते भवन्तीह मानुषाः। पापयोनिंसमापन्नाश्चाण्डालामूकचूचुकाः। वर्णान् पर्य्यायश-श्चापि प्राप्नुवन्त्युत्तरोत्तरम्। शूद्रयोनिमतिक्रम्य येचान्ये तामसा गुणाः। स्रोतोमध्ये समागम्यवर्तन्ते तामसे गुणे। अभिष्वङ्गस्तु कामेषु महामोहइति स्मृतः। ऋषयो मुनयो देवानुह्यन्तेऽत्र सुखेप्-सवः। तमो मोहो महामोहस्तामिस्रः क्रोध-संज्ञितः। मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध इष्यते। वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः। सर्वमेत-त्तमो विप्राः! कीर्त्तितं वो यथाविधि”। सांख्ये अधर्म्माज्ञानावैराग्यानैश्वर्य्याख्यास्तस्य धर्माउक्तायथा
“अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्य्यम्। सात्विकमेतद्रूपं तामसमस्मात् विपर्य्यस्तम्” सा॰ का॰
“रजस्तु चलतया परितस्त्रैगुण्यं चालयद् गुरुणा वृण्वताच तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्त्यतेइति ततस्तती व्यावर्त्त्य तमोनियामकमुक्तं गुरु वरणक-मेव तमः” सांत॰ कौ॰। अयमंर्थः त्रयोगुणास्त्रैगुण्यंसत्वादीनि परितः स्वकर्म्मकरणाय चालयत् प्रवर्त्तयत्रजः गुरुणा गौरवान्वितेन वृण्वता यत्र यत्र कार्य्यजन-नाय तस्य प्रवृत्तिस्तत्र तत्र प्रतिबन्धकेन तमसा क्वचिदेवकार्य्ये प्रवर्त्त्यते कर्मक्षमं क्रियते इति। तथा च तस्मात्तस्मात् कार्य्यात् व्यावर्त्त्य रजसः प्रवृत्तिं रोधयित्वा तमोनियामकमिति। अन्योऽपि विशेषस्तत्रोक्तो यथा
“प्रीत्यपीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः। [Page3238-b+ 38] अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः”
“गुणाइति परार्थाः सत्त्वं लघुः प्रकाशकमित्यत्र च सत्त्वा-दयः क्रमेण निर्द्देक्ष्यन्ते। तदनागतावेक्षणेन तन्त्र-युक्त्या वा प्रीत्यादीनां यथासंख्यं वेदितव्यम्। एत-दुक्तं भवति प्रीतिः सुखं प्रीत्यात्मकः सत्वगुणः, अप्री-तिर्दुखं अप्रीत्यात्मको रजोगुणः, विषादो मोहःविषादात्मकस्तमोगुण इति। ये तु मन्यन्ते न प्रीतिर्दुःखाभावादतिरिच्यते एवं दुःखमपि न प्रीत्यभावादन्य-दिति तान् प्रत्यात्मग्रहणम्। नेतरेतराभावाः सुखादयःअपि तु भावाः आत्मशब्दस्य भाववचनत्वात् प्रीतिरात्माभावो येषां ते प्रीत्यात्मानः एवमन्यदपि व्याख्येयम्। भावरूपता चैषामनुभवसिद्धा परस्पराभावात्मकत्वे तुपरस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः। स्वरूपमेषामुक्त्वा प्रयोजनमाह प्रकाशप्रवृत्तिनियमार्थाःअत्रापि यथासंख्यमेव। रजः प्रवर्त्तकत्वात्सर्वत्र लघुसत्वं प्रवर्त्तयेत् यदि तमसा गुरुणा न नियम्येत। तमो-नियतन्तु क्वचिदेव प्रवर्त्तयति इति भवति तमोनियामकम्। प्रयोजनमुक्त्वा क्रियामाह अन्योन्याभिभवाश्रयजननमि-थुनवृत्तयश्च वृत्तिः क्रिया सा च प्रत्येकमभिसम्बध्यते। अन्योन्याभिभववृत्तयः एषामन्यतमेनार्थवशादुद्भूतेनान्य-दभिभूयते। तथाहि सत्त्वं रजस्तमसी अभिभूय शान्ता-मात्मनो वृत्तिं प्रतिलभते एवं रजः सत्त्वतमसी अभि-भूय घोराम्, एवं तमः सत्त्वरजसी अभिभूय मूढा-मिति। अन्योन्याश्रयवृत्तयः। यद्यप्याधाराधेयभावेननाश्रयार्थो घटते तथापि यदपेक्षया यस्य क्रिया सतस्याश्रयः तथाहि सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्त-मसी प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्यप्रवृत्तमितरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति। अन्योन्यजननवृत्तयः अन्यतमोऽन्यतमंजनयति जननञ्च परिणामः स च गुणानां सदृशरूपःअतएव न हेतुमत्त्वं तत्त्वान्तरस्य हेतोरभावात्। नाप्यनित्यत्वं तत्त्वान्तरे लयाभावात्। अन्योन्यमिथुन-वृत्तयः अन्योन्यसहचराः अविनाभाववर्त्तिन इतियावत् चः समुच्चये भवति चात्रागमः
“अन्योन्यमिथुनाःसर्वे सर्वे सर्वत्र गामिनः। रजसोमिथुनं सत्त्वं सत्त्वस्यमिथुनं रजः। तमसश्चापि मिथुने ते सत्त्वरजसीउभे। उभयोः सत्वरजसोर्मिथुनं तम उच्यते। नैषा-मादिः संप्रयोगो वियोगो वोपलभ्यत” इति। सा॰ त॰ कौ॰[Page3239-a+ 38]
“गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः”।
“ऊर्द्ध्वंसत्वविशालस्तमोविशालश्च मूलतः सर्गः”। सा॰ का॰।
“सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्”। मनुः। चक्षुर्वृत्तिनिरोधके शार्वरादिके अन्धकारे
“अदस्त्वयानुन्नमनुत्तमं तमः”
“आसादितस्य तमसानियतेर्नियोगात्” माघः। तच्च स्वपरप्रकाशकतेजः सामा-न्याभावरूपमिति नैयायिकाः अन्धकारशब्दे

२०

९ दृश्यम्। काणादा अपि तथैवाङ्गीचक्रुस्तच्च औलुक्यशब्दे

१५

८८ पृ॰दर्शितम्। वेदान्तिनस्तु भावरूपं प्रतिपेदिरे यथा विवरणोप-न्यासे। तमः प्रकाशवद्विरुद्धस्वभावयोरिति” शा॰ भाष्यव्या-ख्याने
“ननु तमः प्रकाशदृष्टान्ते भावाभावरूप-त्वमुपाधिः। आलोकाभावस्तम इति नैयायिकाः। रूपद-र्शनाभावस्तम इति प्राभाकरा इति चेत् मैवं उपचयाऽप-चयाद्यवस्थाभेदवत्त्वेनोपलभ्यमानत्वेनाभावत्वायोगात्नीलरूपवत्त्वेन द्रव्यत्वाच्च। ननु भावत्वपक्षे बहुलालोकवति देशे निमीलितनयनस्य कथं तमःप्रतीतिःबहुलालोकेन निवृत्त्यङ्गीकारात् सहावस्थानं तुमन्दालोकेनैव पूर्वमुक्तमिति चेत् न गोलकान्त-र्वर्त्तितमसः प्रतीत्युपपत्तेः नच नेत्रस्यान्तर्वर्त्तिवस्तु-ग्राहकत्वासम्भवः पिहितकर्णस्यान्तरशब्दग्राहकत्व-दर्शनात्। न चैवं गोलकान्तरस्थाञ्जनादेरपिनिमीलितनयनेन ग्रहणप्रसङ्गः। तमोव्यतिरिक्त-रूपिण आलोकसहितचक्षुर्ग्राह्यत्वनियमात्। अथमतं द्रव्यत्वे सति तमसः आलोकविनाशितस्यालो-कापगमे ह्यटिति नोत्पत्तिः कार्य्यद्रव्याणां द्व्यणु-कादिक्रमेणैवारम्भादिति तन्न विवर्तवादितां क्रमान-पेक्षणात् कारणं तु मूलाविद्यैव। अथापि तमो नरूपवद् द्रव्यं स्पर्शशून्यत्वादाकाशवदिति चेत् न वायुर्नस्पर्शवान् रूपशून्यत्वादाकाशवदित्याभाससमानयोग-क्षेमत्वात् प्रत्यक्षविरोधस्य तुल्यत्वात्। अथालोकाभावेसमारोपितं नीलं रूपं गोचरयतीति तमःप्रत्यक्ष-स्यान्यथा गतिरुच्येत एवमपि हेतुरनैकान्तिकःरूपवद्द्रव्यस्यैव धूमस्य चक्षुःप्रदेशादन्यत्र स्पर्शशून्य-त्वात्। तत्र विद्यमान एव धूमस्पर्शोऽनुद्भूत इतिचेत् तर्हि तमःस्पर्शोऽपि सन्नेव सर्वत्रानुद्भूतइति हेत्वसिद्धिः स्यात्। नच सतः सर्वत्रानुद्भवोऽ-सम्भावितः। आकरजे सुवर्ण्णादौ सतएव स्वपरप्रकाशक-भास्वरूपस्योष्णस्पर्शस्य च सर्वत्रानुद्भवदर्शनात्तदेवं भाव-[Page3239-b+ 38] रूपतमोवादे न कोऽपि दोषः। नन्वभाववादेऽपि तथाउपचयाऽपचयाद्यवस्थानां प्रतियोग्यालोकोपाधिकत्वात्नीलरूपस्य चारोपितत्वादिति चेत् मैवं दुर्न्निरूपत्वात्तथाहि किमालोकमात्राभावस्तमः उत त्रैकालिकाऽ-भावः सर्वालोकाभावो वा प्रथमद्वितीयपक्षयोः प्रागभावइतरेतराभावः प्रध्वंसाभावो वा तम इति दुर्मणंसवितृकिरणसन्तते देशे प्रदोपजन्मनः प्राग् जाते वाप्रदीपे दीपनाशे वा। तमोबुद्ध्यभावात्। तृतीयेसर्वालोकसन्निधानमन्तरेण न निवर्त्तते। रूपदर्शना-भावस्तम इत्यप्ययुक्तं बहुलान्धकारसंवृतापवरकमध्यस्थि-तस्य वहीरूपदर्शनान्तस्तमोदर्शनयोर्युगपदेव भावात्। तस्मान्नाभावस्तम इति दृष्टान्ते नास्त्युक्तोपाधिः”।

२२ तमोवदावरके अज्ञाने अविद्यायां
“सहि देवः परंज्योतिः तमः पारे प्रतिष्ठितम्” कुमा॰।
“आदित्यवर्णंतमसः परस्तात्” श्रुतिः।
“आसीदिदं तमोभूतमप्रज्ञात-मलक्षणम्”
“महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः” मनुः। सांख्योक्ते अविद्याया

२३ अष्टविधे भेदे च।
“भेदस्तमसो-ऽष्टविधः” सां॰ का॰।
“तमसोऽविद्याय्याया अष्टविधोभेदः। अष्टास्य विधाः अव्यक्तमहङ्कारपञ्चतन्मात्रेषुअनात्मसु आत्मबुद्धिरविद्या तस्या अष्टविधविषयत्वादष्ट-विधत्वम्” सा॰ तत्वकौ॰।

२४ राहौ पु॰ न॰। तस्य भूछा-यारूपत्वात् तथात्वम्। अगुशब्दे दृश्यम्।
“तमोमुखेचेत् मुथहा तनुस्था” नील॰ ता॰।

२५ विशेषदर्शनविरो-धिदोषे

२६ कार्य्याकार्य्याविवेके च न॰ शब्दार्थचि॰। समूहार्थकाण्डशब्दे परे कस्का॰ विसर्गस्य सः। तमकाण्डः
“क्षपातमस्काण्ड मलीमसं नमः” माघः।
“अवसमन्धेभ्यस्तमसः” पा॰ अच् समा॰। अवतमसं स-न्तमसम् अन्धतमसम्। तृतीयान्तेनानेन क्तान्तस्य समासेतृतीयाया अलुक्। तमसाकृतः तमसाच्छन्न इत्यादि। तमसाकतस्येदं अण्। तामसाकृत तमःसम्बन्धिनित्रि॰ स्त्रियां ङीप्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्¦ n. (-मः)
1. Third of the qualities incident to the state of humani- ty, the Tama guna, or property of darkness, whence proceed folly, ignorance, mental blindness, worldly delusion, &c.
2. Darkness, gloom.
3. Sin.
4. Sorrow, grief. mn. (-माः-मः) Rahu or the personi- fied ascending node: see राहु। E. तम् to be disturbed, and असुन् Unadi affix; that property by which the mind is troubled, the world perplexed, &c.; also तमस and तम।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस् [tamas], n. [तम्-असुन्]

Darkness; किं वा$भविष्यदरुण- स्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् Ś.7.4.; V.1.7; Me.39.

The gloom or darkness of hell; धर्मेण हि सहायेन तमस्तरति दुस्तरम् Ms.4.242.

Mental darkness, ignorance, illusion, error, मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्त- मिदं तमसा मनः Ś.6.8.

(In Sāṅ. phil.) Darkness or ignorance, as one of the three qualities or constitutents of every thing in nature (the other two being सत्त्व and रजस्); अन्तर्गतमपास्तं मे रजसो$पि परं तमः Ku.6.6; Ms. 12.24.

Grief, sorrow; Bhāg.5.14.33.

Sin; Bhāg.1.15.5.

Stupefaction, swoon; तथा भिन्नतनु- त्राणः प्राविशद्विपुलं तमः Rām.7.8.14.

Anger; Bhāg. 1.59.42. -m., -n. An epithet of Rāhu; तमश्चन्द्रमसीवेद- मुपरज्यावभासते Bhāg.4.29.7. -Comp. -अपह a. removing darkness or ignorance, illumining, enlightening; आगमादिव तमोपहादितः संभवन्ति मतयो भवच्छिदः Ki.5.22.

(हः) the sun.

a Buddha.

अरिः the sun.

fire. -काण्डः, -ण्डम् great or spreading darkness. -गुः an epithet of Rāhu.-गुणः see तमस् above (4).

घ्नः the sun.

the moon

Viṣṇu.

Śiva.

Knowledge.

a Buddha. -ज्योतिस् m. a fire-fly. -ततिः spreading darkness. -निष्ठ a. taking to hell (नरकप्रद); Ms.12. 95. -नुद् m. 'तमोनुदो$ग्निचन्द्रार्का' इति विश्वः;

a shining body.

the moon; नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः R.3.33.

a lamp, light.

नुदः the sun.

the Supreme Being.-प्रभा a sort of hell.

प्रवेशः groping in the dark.

mental gloom.

भिद्, मणिः a fire-fly.

a sapphire.

a star.

the moon; तमोमणिस्तु खद्योते नीलमण्यामुडौ शशौ Nm. -राजः a kind of sugar; L. D. B.-विकारः sickness, disease. -विशाल a. abounding in gloom; तमोविशालश्च मूलतः सर्गः Sāṅ. K.54. -वृत a.

obscured, clouded.

affected with anger, fear &c.-हन्, -हर a. dispersing darkness. (-m.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस् n. darkness , gloom (also pl. ) RV. ( मः, प्रणीत, " led into darkness " , deprived of the eye's light or sight , i , 117 , 17 ) etc.

तमस् n. the darkness of hell , hell or a particular division of hell Mn. iv , viii f. VP. ii , 6 , 4 Ma1rkP. xii , 10

तमस् n. the obscuration of the sun or moon in eclipses , attributed to राहु(also m. L. ) R. VarBr2S. v , 44 VarBr2. ii VarYogay. Su1ryas.

तमस् n. mental darkness , ignorance , illusion , error (in सांख्यphil. one of the 5 forms of अ-विद्जाMBh. xiv , 1019 Sa1m2khyak. etc. ; one of the 3 qualities or constituents of everything in creation [the cause of heaviness , ignorance , illusion , lust , anger , pride , sorrow , dulness , and stolidity ; sin L. ; sorrow Kir. iii ; See. गुणand See. RTL. p. 45 ] Mn. xii , 24 f. and 38 Sa1m2khyak. etc. ) RV. v.31 , 9 R. ii S3ak. Ra1jat. v , 144

तमस् n. N. of a son (of श्रवस्MBh. xiii , 2002 ; of दक्षi Sch. ; of पृथु-श्रवस्VP. iv , 12 , 2 )

तमस् n. ([ cf. तिमिर; Lat. temere etc. ])

तमस् स, etc. See. col. 1.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAMAS I : A hell.


_______________________________
*9th word in right half of page 784 (+offset) in original book.

TAMAS II : One of the three qualities of the soul. Sattva, Rajas and Tamas are the three qualities. It is through the union of these three qualities that the inner soul enters the life of all animate and inanimate objects. The attributes of Tamas are greed, sleep, bravery, cruelty disbelief in god, bad habits, begging and indifference. It is because of the action of tamoguṇa that one be- comes a prey to lust. It is the worst result of tāmasic activities that people are born as inanimate objects, worms, insects, fishes, serpents, tortoises, cows and deer. As a better result of Tāmasic activities people are born as elephants, horses, Śūdras, barbarous people, lions, tigers and hogs. It is the good result of tāmasic deeds that produce pilgrims, good castes, egoistic people, demons and devils. (Chapter 2, Manusmṛti).


_______________________________
*10th word in right half of page 784 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तमस्&oldid=499891" इत्यस्माद् प्रतिप्राप्तम्